॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|56
SK 49
1|1|56
स्थानिवदादेशोऽनल्विधौ
SK 49
सूत्रच्छेद:
स्थानिवत् - अव्ययम् , आदेशः - प्रथमैकवचनम् , अनल्विधौ - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
अनल्विधौ आदेश: स्थानिवत्
सूत्रार्थ:
यत्र अल्विधिः नास्ति तत्र आदेशः स्थानिवद् भवति ।
यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र "स्थानिनः गुणधर्माः आदेशे अपि स्वीकर्तव्यानि वा" इति पृष्टे वर्तमानसूत्रेण तस्य उत्तरम् दीयते ।
स्थानिनः "अल्-आश्रितान् गुणधर्मान्" विहाय अन्ये गुणधर्माः आदेशे अपि स्वीक्रियन्ते - इति अस्य सूत्रस्य आशयः ।

स्थानिनः गुणधर्माः मूलरूपेण द्वयोः प्रकारयोः स्तः - अनल्-आश्रिताः गुणधर्माः, तथा अल्-आश्रिताः गुणधर्माः ।
1) अनल्-आश्रिताः गुणधर्माः - ये गुणधर्माः "एकम् वर्णम्" न आश्रयन्ति, अपितु सम्पूर्णम् शब्दस्वरूपम् आश्रयन्ति, ते "अनल्-आश्रिताः गुणधर्माः" सन्ति इत्युच्यते । यथा, "झि" इति प्रत्ययः तिङ्-प्रत्ययः अस्ति । अयम् "तिङ्" गुणधर्मः "झि" इत्यस्य शब्दस्वरूपस्य अस्ति, केवल-झकारस्य उत केवल-इकारस्य न । अतः "झि" प्रत्ययस्य "तिङ्-गुणधर्मः" अनल्-आश्रितः गुणधर्मः अस्ति इत्युच्यते ।
2) अल्-आश्रिताः गुणधर्माः - ये गुणधर्माः एकं वर्णं आश्रयन्ति, ते "अल्-आश्रिताः गुणधर्माः" नाम्ना ज्ञायन्ते । यथा, "झि" अयम् प्रत्ययः झकारादिः अस्ति । अयम् "झकारादिः" इति गुणधर्मः झि-इत्यस्य केवलम् आदिवर्णम् आश्रित्य एव जायते, न हि "झि" इति शब्दस्वरूपम् स्वीकृत्य जायते । अतः "झि" प्रत्ययस्य "झकारादिः गुणधर्मः" अल्-आश्रितः गुणधर्मः अस्ति इत्युच्यते ।

एताभ्यां द्वाभ्यां प्रकाराभ्याम् केवलं अनल्-आश्रिताः गुणधर्माः आदेशे स्वीक्रियन्ते, परन्तु अल्-आश्रिताः गुणधर्माः आदेशे न स्वीक्रियन्ते - इति अनेन सूत्रेण ज्ञायते ।

एतयोः द्वयोः प्रकारयोः विषये विस्तारेण पश्यामः ।

(अ) स्थानिनः अनल्-आश्रिताः गुणधर्माः आदेशे अपि स्थानिवत् भवन्ति । एते गुणधर्माः अष्टविधाः सन्ति -

1) धातोः स्थाने विहितः आदेशः धातुवत् भवति ।
यथा - अस्तेर्भूः 2|4|52 इत्यनेन आर्धधातुकप्रत्ययस्य विवक्षायाम् अस्-धातोः भू-इति आदेशः भवति । अत्र स्थानी "धातुः" अस्ति, अतः अयं "धात्वादेशः" अस्ति इत्युच्यते । अत्र स्थानिवद्भावेन "अस्" इत्यस्य धातुत्वम् "भू" इत्यस्मिन् आदेशे अपि विधीयते । अतएव अस्-इत्यस्य स्थाने विधीयमानः "भू" इति आदेशः धातुसंज्ञकः भवति । अतः अग्रे तस्य कृत्/तिङ्-आदयः प्रत्ययाः भवितुम् अर्हन्ति ।

2) अङ्गस्य स्थाने विहितः आदेशः अङ्गवत् भवति ।
यथा - किमः कः 7|2|103 इत्यनेन "किम्" इत्यस्य अङ्गस्य स्थाने विभक्तिप्रत्यये परे "क" इति आदेशः विधीयते । अतः अत्र "क" इत्यस्य स्थानिवद्भावेन अङ्गसंज्ञा भवति । अतएव "किम् + भ्याम्" इत्यत्र "किम्"इत्यस्य "क" आदेशे कृते "क + भ्याम्" अस्याम् अवस्थायाम् सुपि च 7|3|102 इत्यनेन अङ्गस्य दीर्घादेशं कृत्वा "काभ्याम्" इति रूपं सिद्ध्यति ।

3) कृत्-प्रत्ययस्य स्थाने विहितः आदेशः कृत्वत् भवति ।
यथा - समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7|1|27 इत्यनेन क्त्वा-इत्यस्य ल्यप्-आदेशः विधीयते । अतः "ल्यप्" इत्यस्य स्थानिवद्भावेन कृत्-संज्ञा भवति । अतएव ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन पित्-कृत्-प्रत्यये परे यः तुगागमः विधीयते सः ल्यप्-प्रत्ययस्य विषये अपि दृश्यते । यथा - आ + गम् + ल्यप् = आगत्य ।

4) तद्धित-प्रत्ययस्य स्थाने विहितः आदेशः तद्धितवत् भवति ।
यथा - तस्यापत्यम् 4|1|92 अस्मिन् अर्थे स्त्रीभ्यो ढक् 4|1|120 अनेन सूत्रेण स्त्रीवाचिनः शब्दात् अपत्यार्थे "ढक्" इति तद्धितः प्रत्ययः विधीयते । आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इत्यनेन अस्य ढकारस्य एय्-आदेशः भवति, अतः "ढक्" इत्यस्य "एय" आदेशः विधीयते । अस्मिन् आदेशे कृते ढक्-इत्यस्य "तद्धित"त्वम् "एय" इत्यस्मिन् अपि आगच्छति । अतएव विनता + ढक् इत्यनेन निर्मितः "वैनतेय" अयम् शब्दः कृत्तद्धितसमासाश्च 1|2|46 इत्यनेन प्रातिपदिकसंज्ञकः भवति ।

5) अव्ययस्य स्थाने विहितः आदेशः अव्ययवत् भवति ।
यथा - समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ 7|1|27 इत्यनेन क्त्वा-इत्यस्य ल्यप्-आदेशः विधीयते । "क्त्वा" प्रत्ययान्तः शब्दः क्त्वातोसुन्कसुनः 1|1|40 इत्यनेन अव्ययसंज्ञकः भवति । अयम् गुणधर्मः ल्यप्-प्रत्यये अपि विधीयते, अतः ल्यप्-प्रत्ययान्तशब्दाः - यथा - आगत्य, प्रहृत्य, उपविश्य - आदयः अपि अव्ययसंज्ञां प्राप्नुवन्ति । अतएव अव्ययादाप्सुपः 2|4|82 इत्यनेन एतेषां परस्य सुप्-प्रत्ययस्य लोपः भवति ।

6) सुप्-प्रत्ययस्य स्थाने विहितः आदेशः सुब्वत् भवति ।
यथा - ङेर्यः 7|1|13 इत्यनेन ङे-प्रत्ययस्य स्थाने "य" आदेशः भवति । अयम् आदेशः सुप्-प्रत्ययस्य स्थाने विहितः अस्ति, अतः अयम् सुबादेशः अस्ति । अतः ङे-प्रत्ययस्य सुप्-गुणधर्मः आदेशे अपि विधीयते । अतएव "सुपि च" इत्यनेन यकारे परे अपि अङ्गस्य दीर्घं कृत्वा "रामाय" इति रूपं सिद्ध्यति ।

7) तिङ्-प्रत्ययस्य स्थाने विहितः आदेशः तिङ्वत् भवति ।
यथा - तस्थस्थमिपां तांतंतामः 3|4|101 इत्यनेन लङ्-लकारस्य विषये तस्-प्रत्ययस्य "ताम्" आदेशः भवति । अयम् तिङादेशः अस्ति, अतः तस्-प्रत्ययस्य "तिङ्" गुणधर्मः आदेशे अपि अतिदिश्यते । अतएव अनेन निर्मितः शब्दः (यथा - अभवताम्) सुप्तिङन्तं पदम् 1|4|14 इत्यनेन पदसंज्ञां प्राप्नोति ।

8) पदस्य स्थाने विहितः आदेशः पदवत् भवति ।
यथा - बहुवचनस्य वस्नसौ 8|1|21 8|1|21 इत्यनेन युष्मद्-सर्वनाम्नः विषये षष्ठीबहुवचनस्य "युष्माकम्" इत्यस्य पदस्य "वस्" इति आदेशः विधीयते । "युष्माकम्" इत्यस्य पदत्वम् स्थानिवद्भावेन "वस्" इत्यत्र अपि आगच्छति, अतः "वः" इति अपि पदत्वं प्राप्नोति ।

अनेन प्रकारेण अष्ट-प्रकाराणाम् अनल्-आश्रिताः गुणधर्माः आदेशे अपि स्वीक्रियन्ते ।

(आ) स्थानिनः अल्-आश्रिताः गुणधर्माः आदेशे स्थानिवत् न भवन्ति । कानिचन उदाहरणानि एतानि -

1. दिव्-शब्दस्य तृतीयाद्विवचनस्य रूपसिद्धिम् पश्यामः -
दिव् + भ्याम् [तृतीयाद्विवचनस्य भ्याम् प्रत्ययः]
→ दि उ + भ्याम् [दिव उत् 6|1|131 इत्यनेन दिव्-इत्यस्य वकारस्य उ-आदेशः]
→ द्युभ्याम्
अत्र दिव्-इत्यस्य स्थाने "द्यु" इति आदेशः क्रियते । "दिव्" इत्यस्य "अङ्गम्"-इति अनल्-आश्रितः गुणधर्मः आदेशे आगच्छति, अतः "द्यु" इति आदेशः अङ्गसंज्ञां प्राप्नोति । परन्तु दिव्-इत्यस्य "वकारान्तत्वम्" इति अल्-आश्रितः गुणधर्मः "द्यु" इत्यस्मिन् आदेशे न आगच्छति । यदि एतादृशम् अभविष्यत्, तर्हि "द्युभ्याम्" इत्यत्र लोपो व्योर्वलि 6|1|66 इत्यनेन उकारस्य लोपः अभविष्यत् । परन्तु अल्-आश्रितः गुणधर्मः स्थानिवद् न भवति, अतः अत्र लोपो व्योर्वलि 6|1|66 इत्यस्य प्रसक्तिरेव नास्ति ।

2. पथिन्-शब्दस्य प्रथमैकवचनस्य रूपसिद्धिम् पश्यामः -
पथिन् + सुँ
→ पथि आ + स् [पथिमथ्यृभुक्षामात् 7|1|85 इत्यनेन नकारस्य आकारादेशः]
→ पथ आ + स् [इतोऽत् सर्वनामस्थाने 7|1|86 इत्यनेन इकारस्य अकारादेशः]
→ पन्थ् अ आ + स् [थो न्थः 7|1|87 इति थकारस्य "न्थ्" आदेशः]
→ पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्]
अत्र पथिन्-इत्यस्य स्थाने "पथि आ" इति आदेशः भवति । "पथिन्" इत्यस्य "अङ्गम्"-इति अनल्-आश्रितः गुणधर्मः आदेशे आगच्छति, अतः "पथि आ" इति आदेशः अपि अङ्गसंज्ञां प्राप्नोति । परन्तु अत्र "पथिन्" इतस्य "हलन्तत्वम्" इति अल्-आश्रितः गुणधर्मः "पथि आ" इत्यस्मिन् आदेशे न आगच्छति । यदि एतादृशम् अभविष्यत्, तर्हि "पथि आ स्" इत्यत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन नकारात् परस्य सुँ-प्रत्ययस्य लोपः अभविष्यत् । परन्तु अल्-आश्रितः गुणधर्मः स्थानिवद् न भवति, अतः अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यस्य प्रसक्तिरेव नास्ति ।

3. यज्-धातोः क्त-प्रत्यये परे वचिस्वपियजादीनां किति 6|1|15 इत्यनेन सम्प्रसारणे कृते "इष्ट" इति प्रातिपदिकं सिद्ध्यति । अत्र यकारस्य स्थाने आदेशरूपेण इकारः आगच्छति । "यज् + क्त" इत्यत्र यज्-इत्यस्य "अङ्गम्" अयम् गुणधर्मः अनल्-आश्रितः अस्ति, अतः सः "इज्" इत्यस्मिन् आदेशे अपि स्वीक्रियते । परन्तु "यज्" इत्यस्य "यकारादिः" अयम् गुणधर्मः अल्-आश्रितः अस्ति, अतः अयम् "इज्" इत्यस्मिन् न स्वीक्रियते । अतएव "राम + सुँ + इष्टः" इत्यत्र रुँत्वे कृते "राम रुँ इष्ट" इति प्राप्ते रुँ-इत्यस्य यकारनिमित्तकः उकारादेशः न भवति ।

4. "व्यूढम् उरः अस्य" अस्मिन् अर्थे "उरस्" शब्दस्य उरप्रभृतिभ्यः कप् 5|4|151 इत्यनेन कप्-प्रत्यये कृते "व्यूढोरस्कः" अयम् शब्दः सिद्ध्यति । अस्याम् प्रक्रियायाम् "व्यूढ + उरस् + कप्" इति स्थिते आदौ सकारस्य विसर्गः भवति । अग्रे "व्यूढ + उरः + क" अत्र विसर्जनीयस्य सः 8|3|34 इत्यनेन सकारादेशे प्राप्ते; तस्य अपवादत्वेन कुप्वोः Xक Xपौ च 8|3|37 इत्यनेन जिह्वामूलीये प्राप्ते; तस्यापि अपवादत्वेन सोऽपदादौ 8|3|38 इत्यनेन विसर्गस्य सकारः विधीयते । अस्मिन् आदेशे कृते "उरः" इत्यस्य "विसर्गान्तत्वम्" अयम् अल्-आश्रितः गुणधर्मः अस्ति, अतः सः "उरस्" इत्यत्र न स्वीक्रियते । एवम् अभविष्यत् चेत् "व्यूढोरस्केन" इत्यत्र सकारस्य (विसर्गानुरुपम्) अट्-प्रत्याहारत्वं स्वीकृत्य अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन णत्वम् अभविष्यत् । परन्तु अत्र स्थानिवद्भावः न विधीयते, अतः अत्र णत्वम् अपि न क्रियते ।

अनेन प्रकारेण स्थानिवद्भावस्य प्रयोगः केवलं अनल्-आश्रितं गुणधर्मं आदेशे आरोपयितुम् क्रियते । अल्-आश्रितं गुणधर्मस्य विषये स्थानिवद्भावस्य प्रसक्तिः नास्ति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "अल्विधिः" इति शब्दः प्रयुक्तः अस्ति । अस्य अर्थः "अल्-आश्रितेन गुणधर्मेण जायमानः विधिः" इति क्रियते । अल्-आश्रितेन गुणधर्मेण यः विधिः भवति, तस्मिन् विधौ कर्तव्ये स्थानिवद्भावः न भवति - इति अस्य आशयः । अयम् विधिः चतुर्विधः अस्ति इति प्रथमावृतौ उक्तम् अस्ति । तत् एतादृशम् -
अ) अल्-आश्रितेन गुणधर्मेण तस्मिन्नेव स्थाने विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते । यथा, द्युभ्याम् इत्यत्र "वकारान्तम्" अनेन अल्-आश्रितेन गुणधर्मेण लोपो व्योर्वलि 6|1|66 इति तस्यैव वकारस्य लोपे कर्तव्ये स्थानिवद्भावः न दृश्यते, अतः वकारलोपः अपि न भवति ।
आ) अल्-आश्रितेन गुणधर्मेण स्थानिनः परः विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते । यथा, "पन्थाः" इत्यत्र नकारस्य "हलन्तत्वम्" अनेन अल्-आश्रितेन गुणधर्मेण तस्मात् परस्य सकारस्य हल्ङ्याब्भ्यो... 6|1|68 इत्यनेन लोपे कर्तव्ये स्थानिवद्भावः न दृश्यते, अतः
इ) अल्-आश्रितेन गुणधर्मेण स्थानिनः पूर्वम् विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते । यथा, "रामरुँ इष्टः" इत्यत्र "यकारादित्वम्" अनेन अल्-आश्रितेन गुणधर्मेण तस्मात् पूर्वस्य रुँ-इत्यस्य उकारे कर्तव्ये स्थानिवद्भावः न दृश्यते, अतः रुँ-इत्यस्य उकारादेशः न भवति ।
ई) अल्-आश्रितेन गुणधर्मेण निमित्तकः विधिः कुत्रचित् अन्यत्र भवति अपि तत्र स्थानिवद्भावः न दृश्यते । यथा, "व्यूढोरस्केन" इत्यत्र "विसर्गान्तत्वम्" अनेन अल्-आश्रितेन गुणधर्मेण निमित्तके णत्वे कर्तव्ये स्थानिवद्भावः न दृश्यते, अतः णत्वम् न भवति ।

2. यद्यपि "अल्-आश्रितेन गुणधर्मेण जायमानस्य विधेः विषये" स्थानिवद्भावः न विधीयते, तथापि स्थानिनः "इत्" गुणधर्मः नित्यम् आदेशे आगच्छति । यथा, "झि" प्रत्ययस्य अपित्-गुणधर्मः "अन्ति" अस्मिन् आदेशे अपि आगच्छति । इत्-वर्णम् आश्रित्य यः गुणधर्मः निर्दिश्यते, सः अल्-आश्रितः भवेत् उत अनल्-आश्रितः भवेत्, सः आदेशे नित्यमेव स्वीक्रियते ।
One-line meaning in English
The properties of स्थानी that are not dependent on a single letter are also carried to the आदेश that replaces this स्थानी.
काशिकावृत्तिः
स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यम् आदेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते । स्थानिना तुल्यं वर्तते इति स्थानिवत् । स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा । न अल्विधिरनल्विधिः इत्यर्थः । किम् उदाहरणम् ? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः ।
धात्वादेशो धातुवद् भवति - अस्तेर्भूः 2|4|52, ब्रुवो वचिः 2|4|53 । आर्धधातुकविषये प्रागेव आदेशेषु कृतेषु धातोः 3|1|91 इति तव्यादयो भवन्ति - भविता, भवितुम्, भवितव्यम् ; वक्ता, वक्तुम्, वक्तव्यम् ।
अङ्गाऽदेशोऽङ्गवद् भवति - केन, काभ्याम्, कैः । किमः कः 7|2|103 इति कादेशे कृतेऽङ्गाश्रया इन-दीर्घत्वैस्भावाः भवन्ति ।
कृदादेशः कृद्वद् भवति - प्रकृत्य, प्रहृत्य । क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक् 6|1|71 इति तुग् भवति ।
तद्धितादेशः तद्धितवद् भवति - दाधिकम्, अद्यतनम् । कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा भवति ।
अव्ययादेशोऽव्ययवद् भवति -प्रस्तुत्य, प्रहृत्य, उपहृत्य, उपस्तुत्य । अव्ययादाप्सुपः 2|4|82 इति सुब्लुग् भवति ।
सुबादेशः सुब्वद् भवति - वृक्षाय, प्लक्षाय । सुपि च 7|3|102 इति दीर्घत्वं भवति ।
तिङादेशः तिङ्वद् भवति - अकुरुताम्, अकुरुतम् । सुप्तिङन्तं पदम् 1|4|14 इति पदसंज्ञा भवति ।
पदादेशः पदवद् भवति - ग्रामो वः स्वम्, जनपदो नः स्वम् । पदस्य 8|1|16 इति रुत्वं भवति ।
वत्करणं किम् ? स्थानी आदेशस्य संज्ञा मा विज्ञायि - इति । स्वाश्रयम् अपि यथा स्यात् - आङो यमहनः 1|3|28 - आहत, आवधिष्ट इति आत्मनेपदम् उभयत्र अपि भवति । आदेशग्रहणं किम् ? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात् - पचतु एरुः 3|4|86 । अनल्विधौ इति किम् ? द्युपथित्यदादेशा न स्थानिवद् भवन्ति - द्यौः, पन्थाः, सः इति । हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुलोपो न भवति ॥
स्थानं प्रसङ्गः, स च पूर्वमुक्तस्वरूपः। अतिदेशोऽनेकप्रकारः- निमित्ताति-देशः; व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, कार्यातिदेशश्चेति। तत्रतावन्निमित्तमशक्यमतिदेष्टुम, न हि धात्वादिधर्माः शब्दप्रवृत्तिनिमित्तभूता धात्वादिव्यक्त्याश्रिता वस्त्वन्तरमादेशं प्रापयितुम्, प्रापयितुं पार्यन्ते; यथा- ब्राआहृणवदस्मिन् क्षत्रिये वर्त्तितव्यमिति ब्राआहृणशब्दप्रवृत्तिनिमित्तं न शक्यं क्षत्रिये प्रापयितुम्, तद्वत् तस्मादशक्यत्वात् नेह निमित्तादेश आश्रीयते। नापि व्यपदशातिदेशः; संज्ञासंज्ञिसम्बन्धादभिन्नत्वात्। संज्ञासंज्ञिसम्बन्धे हि वत्करण-स्यानर्थक्यं स्यात्, विनापि तेन तत्सिद्धेः। अप्रधानत्वाच्च नात्र व्यपदेशातिदेशो युक्त आश्रीयतुम्। अत एव शास्त्रातिदेशोऽपि। अप्रधानत्वं तु तयोरपि कार्यं प्रत्यङ्गभूतत्वात्। रूपातिदेशस्याप्याश्रयणमयुक्तम्` निष्फलत्वात्। यदि ह्रादेशस्य स्थानिनोरूपमतिदिश्येत; आदेशस्य वैयथ्र्यं स्यात्। `द्विर्वचनेऽचि` 1|1|58 इत्यत्र रूपातिदेशेऽपि न भवत्यादेशवैयथ्र्यम्, द्वर्वचनादुत्तरकालं श्रवणार्थत्वात्। तस्मादतिदेशान्तराश्रयणस्यायुक्तत्वात् कार्यातिदेश आश्रीयते। `स्थानिना तुल्यं वर्तते` इति। तत्तुल्यकार्यत्वात्, `तेन तुल्यम्` 5|1|114 । `स्थान्याश्रयेषु` इति।स्थानी आश्रय एषामिति बहुव्रीहिः। `अनलाश्रयेषु` इति। अल आश्रय एषामिति बहुव्रीहि कृत्वा न अळाश्रयाणि अनलाश्रयाणीति नञ्समासः। अनन्तरोक्तमेवार्थं विस्पष्टीकर्तृमाह- `स्थान्यलाश्रयाणि` इत्यादि। स्थानी अल् आश्रयोयेषां तानि तथोक्तानि। आश्रयग्रह-णेन सूत्रे योऽल्विधिशब्दः, सोऽलाश्रयो विधिरल्विधिरित्युत्तरपदलोपी समास इति दर्शयति। स पुनः समासो मयूरव्यंसकादित्वात् समासं कृत्वा नञ्समासः कृतः। नअल्विधिरनल्विधिः` इति। पुनरलाश्रयो विधिः? यो वर्णमात्राश्रितः। यस्तु समुदाया-श्रितः सोऽनलाश्रयः। कार्यशब्देन क्मसाधनेन विधिशब्दस्यार्थमाचक्षाणः `विधीयते`इति विधिरिति तस्य कर्मसाधत्वं दर्शयति।`किमुदाहरणय्िति प्रश्नः। `धात्वाद्यादेशाः प्रयोजनम्` इत्युत्तरम्। प्रयुज्यतेऽनेनेति प्रयोजनम्, उदाहरणेन च प्रयुज्यत इति। अर्थात् प्रश्नानुरूपं प्रतिवचनम्। ननु चार्धधातुके परतो भाव्यमादेशाभ्याम्, तत्र किमत्रादेशेनेत्यत आह-`आर्धधातुके विषये` इति। `प्रकृत्य` इत्यादि। `कुगति` 2|2|18 इत्यादिना समासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्` 7|1|37 ।`दधिकम्` इति। दध्ना संस्कृतमिति `दध्नष्ठक्` 4|2|17 । `अद्यतनम्` इति। `सायंचिरम्` 4|3|23 इत्यादिना टउप्रत्ययः, तुडागमश्च, योरनादेशः। `अकुरुताम्कुरुतम्` इति। कृञो लङ्, `तस्थस्थमिपाम्` 3|4|101 इत्यादिना तसस्ताम्, थसस्तम्, तनादित्वात् `तनादिकृञ्भ्य उः` 3|1|79 , धातोर्गुणः। `अत उत् सार्वधातुके` 6|4|110 । ग्रामो वृ स्वम्, जनपदो नः स्वम्` इति। युष्मदस्मदोः षष्ठी, `बहुवचनस्य वस्नसौ` 8|1|21 इति वस्नसादेशौ। `वत्करणं किम्` इति? विनापि तेन तदर्थो गम्यते, यथा `असंयोगाल्लिट्कित्` 1|2|5 इत्यादावित्यभिप्रायः। `स्थानो` इत्यादि। प्रायेण ह्रस्मिन् पादे `वृद्धिरादैच्` 1|1|1 इत्यादीनि सूत्राणि संज्ञासंज्ञिसम्बन्धार्थान्येव दृष्टानि। अतोऽसति वत्करणे स्थान्यादेशस्य संज्ञा विधीयत इति विज्ञायते। तदेवं मा विज्ञायी-त्येवमर्थं वत्करणम्। किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह-- `स्वाश्रयमपि` इत्यादि। संज्ञा हिसंज्ञिप्रत्ययनार्था न स्वतः कार्यं प्रतिपद्यते, अपि तु तत्प्रत्यायितः संज्ञीति। अत्र यदि स्थान्यादेशस्य संज्ञा स्यात्, आदेशस्यैव हिसंज्ञिनः कार्यं स्यात्,न संज्ञाभूतस्य स्थानिनः। ततश्च `आङो यमहनः` 1|3|28 इति वधेरादत्मनेपदं स्यात्, न हन्तेः।वत्करणे तु सत्यतिदेशोऽयं भवति, अतिदेशेन चान्य-सम्बन्धिकार्यमन्यत्र सम्पाद्यते;न तु तत्र स्वाश्रयं निवर्त्त्यते। तथा हि `ब्राआहृणवदस्मिन् क्षत्रिये वत्र्ततव्यम्` इत्यतिदेशे तद्ब्राआहृणसम्बन्धिकार्यं क्षत्रिये भाव्यते। न तु ब्राआहृणस्य यत् स्वाश्रयमग्रभोजनादि तद्व्यावर्त्त्यते। स्वाश्रयमपीत्यपिशब्दादतिदेशप्रापितमादेशे पराश्रितमपि। `आहत` इति। हन्तेरलुङ, `हनः सिच्` 1|2|14 इति कित्त्वम्। `अनुदात्तोपदेश` 6|4|37 इत्यादिनाऽनुनासिकलोपः। `ह्स्वादङ्गात्` 8|2|27 इति सिचो लुक्। `आवधिष्ट` इति। `आत्मनेपदेष्वन्यतरस्याम्` 3|1|54 इति वधादेशः, इट्, `अतो लोपः` 6|4|48 षत्वष्टुत्वे।`आदेशग्रहणं किम्` इति। सथानीति सम्बन्धिशब्दोऽयम्। तत्र यथा `पितृवत्स्थूलः` इत्युक्तेऽन्तरेणाप्यत्र पुत्रग्रहणं सम्बन्धिशब्दत्वात् पुत्र इति गम्यते,तथा स्थानिवदित्युक्ते विनाप्यादेशग्रहणेन सम्बन्धिशब्दत्वादादेश एव स्थानिवद्भवतीति विज्ञायत इत्यभिप्रायः। `आनुमानिकस्य` इत्यादि। `अस्तेर्भूः` 2|4|52 इत्यादौ स्थान्यपि शब्देन साक्षात् प्रत्याय्यते, आदेशोऽपि। पचत्वित्यत्र स्थान्यपि, आनुमानिक आदेशोऽपि। तथा हि- `एरुः` 3|4|86 इत्यत्र न वस्तुत इकार एव स्थानी , अपि तु तिशब्दः। नाप्युकारमात्र आदेशः, तर्हि? तुशब्दः। लाघवार्थं तु तदेकदेशयो-रिकारोकारयोरुच्चारणम्। तेनैकदेशद्वारेण समुदायस्य समुदाय एवादेशो विधीयते। तत्रयथा विषाणेनैकदेशेनोपलब्धेन विषाणी समुदायोऽनुमीयते, तथैकदेशेनेकारेणोकारेण तिशब्दस्तुशब्दश्च। अत्र च शास्त्रे यस्य च क्रियाबिसम्बन्धः साक्षाच्छब्दादेव प्रतीयते,यस्य च कुतश्चिदर्थप्रकरणादेरनुमीयते,तयोः पूर्वस्य प्राधान्यमितरस्य विपर्यय इष्यते। तथा हि- `सहयुक्तेऽप्रधाने` 2|3|19 इत्यत्र वृत्तिकारः `पुत्रेण सहागतः` इत्याद्युदाह्मत्य वक्ष्यति- `पितुरत्र क्रियादिसम्बन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्` इति। प्रधानेतरयोश्च सन्निधाने प्रधानस्यैव कार्येण सम्प्रत्ययो युक्तः। तथा चाह- `प्रधाने कार्यसम्प्रत्ययात् सिद्धम्` इति। अत्र हि यद्यादेश इत नोच्येत, ततो य आदेशशब्देनोपादाय विधीयमानत्वात् प्राधान्यमनुभवति तस्यैव स्थानिवद्भावः स्यात्, नाप्रधानस्यानुमानिकस्य। तस्मात् तस्यापि स्थानि-वद्भावो यथा स्यादित्येवमादेशग्रहणम्। तेन पचत्वित्यादावपि `सुप्तिङन्तं पदम्` (1।414) इति पदसंज्ञा सिद्धा भवति। कुतः पुनरेतववसीयते? `एरुः` 3|4|86 इत्यनेनैकदेश-द्वारेण तुःशब्दः समुदायो विधीयते, न पुनर्यथाश्रुतमिकारमात्रस्योकारमात्रमेवेति; पचत्वित्यत्र पदसंज्ञाकार्योपलब्धेः, तद्धि न विना पदसंज्ञया, सापि न विना तिङवद्भावेन, सोऽपि न विना समुदायोदेशेनेति। तस्मिन् हि सति स्थानिवद्भावेन यत्न-प्रतिपादितेन तिङभावो लभ्यते; नान्यथेति गतमेतत्। अथानुमानिके गृहीते कथमितरस्य ग्रहणं लभ्यते? एवं मन्यते स्थानिवदित्येतावानेको योगः कत्र्तव्यः, एतेन योगेनादेशः प्रधानभूतः सम्बन्धिशब्दत्वाल्लभ्यते। तत आदेश द्वितीयो योगः, आनुमानिकस्य स्थानि-वद्भावाय। अत्र च स्थानिवदिति वत्र्तते। एवमुभयोः प्रत्यक्षानुमानशिष्टओग्र्रहणमुपपद्यते। `अनल्विधौ` इति। द्वयोरपि योगयोः शेषभूतः। `द्युपथित्यदादेशा` इत्यादि। `दिव औत्` `पथिमथ्यृभुक्षामात्` 7|1|85 , `त्यदादीनामः` 7|1|102 इत्येते `हल्ङ्याब्भ्यः` 6|1|66 सुलोपे कत्र्तव्ये न स्थानिवद्भवन्ति; तस्य हल्मात्रमाश्रित्य प्रवृत्तेरलाश्रयत्वात्॥
ननु तत्स्थानापन्नस्य तद्धर्मलाभो लोकवेदयोः सिद्ध एव । लोके तावदेकस्मिन्नुपाध्याये मृते तत्स्थाननिविष्टस्याप्यबिवादनाद्यौपाध्यायधर्मलाभो भवति, एकस्मिंश्च राजनि प्रोषिते तत्स्थानेऽभिषिक्तस्य तत्पुत्रादेरपि तद्धर्मलाभो भवति । वेदेऽपि व्रीहिस्थानपतिता वीवारादयोऽवघातादीन् व्रीहिधर्मान् लभन्ते । तद्वदत्राप्यस्तिस्थानापन्नो भूरस्तिधर्मान् धातुत्वादीन् लप्स्यते, नार्थोऽनेनेत्याशङ्क्याह--स्थान्यादेशयोरित्यादि । अयमभिप्रायः--उपाध्यायत्वप्रयुक्ता उपाद्यायधर्मा राजधर्माश्चाभिषिक्तत्वप्रयुक्ता व्रीहिधर्माचापूर्वसाधनत्वनिबन्धनाः, न ततत्स्वरूपनिबन्धना इति युक्तं तत्प्रकारजुषो भवन्तीति । इह तु स्वं रूपमितिवचनादस्त्यादिस्वरूपनिबन्धना धातुत्वादयो धर्मा न भवनाद्यर्थाभिधानलक्षणकार्यप्रयुक्ताः, तच्च स्वरूपमादेशानां नास्तीति तत्स्थानापन्नानामपि न स्युरिति तदाह--पृथक्त्वादिति । रूपभेदादित्यर्थः । नन्वेतत्प्रकारजुषोऽपि तत्स्थानापन्नस्य तद्धर्मलाभो दृष्टते, यदा ह्युपाध्यायः शिष्येण यज्ञार्थमुपनिमन्त्रितः कार्यव्यासङ्गात् स्वशिष्यमन्यं प्रेरयति तदा स तत्र गत्वाऽग्रासनादीनुपाध्यायधर्मान् लभते, अत्राप्युपाध्यायप्रतिनिधित्वात् तद्बुद्ध्यैव तद्धर्मा अनुष्ठीयन्ते; एवं कृते तु सत्युपाध्याय इति न तत्स्थानापन्नतया, न चैवमत्र संभवतीत्यारब्धव्यमेव सूत्रम् । युष्मदस्मदोरादेशनिषेधात्सिद्धम् । यदयं "युष्मदस्मदोरनादेशे" इत्याह, तज् ज्ञापयति-"भवति स्थानिकृतमादेशः" इति; अलाश्रये चाप्रसङ्गः, "अदो जग्धिः" ल्यब्ग्रहणात् । यदि हि स्थान्यलाश्रयमप्यादेशे स्यात् कितीत्येव सिद्धे ल्यब्ग्रहणनर्थकं स्यात्, सत्यम्; "उतरार्थं तावत् स्थानिवदादेश इति वक्तव्यम् । अजादेशस्य विषयविशेषे स्थानिवत्वं वक्ष्यामि, पदान्तादिविधिषु प्रतिषेधं वक्ष्यामि" इति । सोऽन्यार्थः सन्निहैव क्रियते लिङ्गानाश्रयणाय । षोढातिदेशः-निमितातिदेशः, व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, तादात्म्यातिदेशः, कार्यातिदेश इति । तत्र निमितमशक्यमतिदेष्टुंअ ब्राह्मण्यवत्, न हि ब्राह्मणस्याग्रभोजनादिनिमितं ब्राह्मण्यं वचनशतेनापि क्षत्रियेऽतिदेष्टुंअ शक्यते । "पूर्ववत्सनः" इत्यत्रापि न प्रकृतिगतं निमितं ङ्त्वाइदि सनन्तेऽतिदिश्यते, किन्तु प्रकृतिगतमेव तत् सना व्यवधानेऽप्यात्मनेपदनिमितमिति । एतावता निमितातिदेशवाचोऽयुक्तिः । व्यपदेशातिदेशः संज्ञापक्षान्न भिद्यते, तत्र च वतेरानर्थक्यं वक्ष्यते, कः पुनरायुष्मतो व्यपदेशोऽभिप्रेतः ? किं स्थानीति व्यपदेशः, यथा "आद्यन्तवदेकस्मिन्"इत्यत्र व्यपदेशातिदेशपक्षः ? उत स्थानिनो ये व्यपदेशा धातुरङ्गमित्यादयः, त आदेशस्य भवन्ति ? इति । पूर्वः पक्षो भवतोऽप्यनभिप्रेतः, द्वितीयस्य तु संज्ञापक्षान्महान् भेदः । तथाहि --संज्ञापक्षे यत्र स्थानिरूपमुच्चार्य्यते "आङे यमहनः " इत्यादौ, तत्रैव कार्यं स्याद्, न धातोस्तव्यादयोऽह्गस्येनादय इत्यादौ; न ह्यत्र संज्ञात्वेन विनियुक्तमस्त्यादि स्थानिरूपमुच्चारितम्; यच्चोच्चारितं न सा संज्ञा, ताअदेशस्यैव कार्यं स्याद् न स्थानिनः, न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते, स्थानिनस्तु व्यपदेश आदेशस्तयातिदिश्यमाने धातोस्तव्यादयोऽङ्गस्येनादय इत्यादौ स्थान्यादेशयोरुभयोरपि कार्यं सिद्ध्यति; उभयोरपि व्यपदेशसद्भावात् । "आङे यमहनः" इत्यादिकं तु स्थानिस्वरूपनिबन्धनं कार्यमादेशस्य न स्यात्,न ह्यत्र काश्चिद्व्यपदेशो य आदेशस्यातिदिश्येत । अथापि श्वं रूपम्" इति वचनाद्धन्नित्यपि हन्तेर्व्यपदेश इति तस्मिन्नतिदिष्टे कार्यं सिध्यतीत्युच्यते; एवमपि पूर्वोक्तस्तावद्विशेषो विद्यत इत्यास्तामेतत् । अप्रधानत्वातु व्यपदेशो न भवति । अत एव शास्त्रातिदेशोऽपि न भवति । स्थानिरूपे चाऽतिदिश्यमान आदेशविधानं व्यर्थं स्यात् । न च वचनद्वयप्रामाण्याद्विकल्पः, "वा लिटि" इति विकल्पारंभात् । तादात्म्यातिदेशोऽसंभवान्न भवति, द्वयोर्हि सहावस्थितयोरन्योऽन्यतादात्म्यमतिदिश्यते, सुबामन्त्रितयोरिव, इह त्वादेशेन स्थानी निवर्तित इत्यसंभवः । अतः पारिशेष्यात्प्राधान्याच्च कार्यातिदेशोऽयम्, तदाह-स्थान्याश्रयकार्यमिति, स्थान्याश्रयेषु कार्येष्विति च । तात्पर्यतश्चायं कार्यातिदेशो वर्ण्यते । अक्षराणि त्वादेशः स्थानिना तुल्यं वर्तत इत्येतावत्येव पर्यवसितानि । केन तु प्रकारेण तुल्यत्वमित्यपेक्षायां तत्कार्यापत्येति तदाह--स्थानिना तुल्य वर्तत इति । स्थानिवदिति । स्थान्याश्रयेष्विति । बहुव्रीहिः । अनल्विधावित्यस्यार्थमाह--अनलाश्रयेष्विति । एतेन विधीयते इति विधःउ कार्यम्, अलाश्रयो विधिरल्विधिरित्युतरपदलोपी समास इति दर्शयति । किमर्थं पुनरुतरपदलोपाश्रयणम् ? स्यादेतत्-सति तस्मिन्, यश्चालि विधिः, यश्चालो विधिः,यश्चालः परस्य विधिः-यजेः क्तः, इष्टः, क इष्ट इत्यत्र संप्रसारणस्य स्थानिवत्वात् को यष्टेत्यादिवत् "हशि च"इत्युत्वं प्राप्तं न भवति, स इष्ट इत्यत्र "एततदौः" सुलोपो न भवति । अलो विधिः - द्यौकामः, उकारस्य "लोपो व्योर्वलि" इति न भवति । उत्वं तु "अहर्विमलद्यौ" इत्यत्र चरितार्थम् । अलः परस्य विधिः-द्यौः, पन्थाः, सः-हल्ङ्याबिति लोपो न भवति । अला विधिः-व्यूढोरस्केन । अत्र शोऽपदादौ" इति वसर्जनीयस्य स्थाने विहितस्य स्थानिवत्वात् विसर्जनीयस्याटसूपदेशाद् "अड्व्यवाये" इति णत्वं प्राप्तं न भवति । अतः सर्वविभक्त्यर्थसंग्रहाथंमुतरपदलोपाश्रयणम् । अन्यथा हि षष्ठीसमास एवाश्रीयतेऽल्स्थानिक एव विधिराश्रितः स्यादिति, तन्न; सम्बन्धसामान्ये षष्ठ ईविज्ञानादपि सर्वविभक्त्यर्थसंग्रहस्य सिद्धत्वात् । अनुवादे हि स्थानेयोगाभावात् सर्वोऽल्सम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि यत्र गुणभावेनाप्यलाश्रीयते, तत्रापि निषेधो यथा स्यात्-प्रपठ।लेति, अत्र हि वलादेरिति प्रत्ययः प्राधान्यनाश्रितः, वल् तु गुणभावेनेति अप्राधान्यान्न स्यात् । उतरपदलोपे तु भवति; अलाश्रयत्वादिड्विधेः । यद्यलाश्रयेषु स्थानिवत्वं न भवति, वृक्षाय--शुपि च" इति दीर्घो न स्यात्; यञादौ सुपीत्यलाश्रयत्वात् । अरुदितामित्यत्र सार्वाधातुकस्य तसस्तामादेशे "रुदादिभ्यः सार्वधातुके " इति वलाश्रय इण् न स्यात्, अत आह-स्थान्यलाश्रयाणीति । स्थानिनोऽल् स्थान्यल्, स आश्रयो येषां तानि तथोक्तानि । अयमभिप्रायः-यथा गुरुपद्गुरुपुत्रे वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादेपसंग्रहणाच्चेति अतिदेशे प्रवृते, यदा गुरुपुत्रः स्वयं गुरुर्भवति तदोच्छिष्ट्ंअ भुज्यते पादौ चोपसंगृह्यएते, तत्कस्य हेतोः ? अतिदेशेनैक्वाक्यतामापन्नः प्रतिषेध आतिदेशिकीमेव प्राप्तिं प्रतिषेधतीति, तथेहाप्यातिदेशिक एवाल्विधिः प्रतिषिध्यते । न च वृक्षाय, अरुदितामित्यत्रातिदेशापेक्षा; स्वयमेव यञादित्वाद्वलादित्वाच्च । ततश्च यत्र स्थानिन एवालाश्रीयते स एव निषिध्यते, यथा-प्रपठ।लेत्यत्र । न ह्यत्र ल्यप् स्वयं वलादिरिति । ननु च गुरुपुत्रस्य स्वयं गुरुत्व उच्छिष्टभोजनादौ न मात्रयाप्यतिदेशापेक्षा, इह तु सत्यपि स्यमेव यञादित्वे नान्तरेणातिदेशं दिर्घः सिद्ध्यति; असुप्त्वात् । अरुदितामित्यत्रापि सत्यपि स्वयं वलादित्वेऽसार्वधातुकत्वादतिदेशेनैव वेट् प्रार्थनीयः, सत्यम्; द्वे कार्ये-सुप्संज्ञा च, दीर्घत्वं च । न हि "प्रयोगसमवाय्येव कार्यमतिदेश्यम् " इति नियमोऽस्ति, यतु शास्त्रीयं तदेवातिदिश्यते । न च सुप्संज्ञाऽलाश्रयेति; तस्यामतिदिष्टायां स्वाश्रयं यञादित्वमाश्रित्य दीर्घत्वं भविष्यति । अरुदितामित्यत्राप्यातिदेशिकं सार्वधअतुकत्वं स्वाश्रयं च वलादित्वमाश्रित्येड् भविष्यति । ननु च वृक्षायेत्यत्र स्थानिन एकारस्याल्त्वातदाश्रयं सुप्त्वमलाश्रयमेव, उच्यते; कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षम् । एतदुक्तं भवति--यस्मिन् कार्ये विधीयमानेऽल एवासाधारणं किञ्चिद्रूपं निमितादिरूपेणाश्रीयते--"हशि" "हलि" "व्योर्वलि""हल्ङ्याब्भ्यः""अड्व्यवाये" इति - स एवाल्विधिः; "सुपि च" इत्यत्र तु नैवंविधं किञ्चिदस्ति, केवलं वृक्षायेत्यत्रोदाहारणेऽलात्मकः स्थानीतेयतावत् किमुदाहरणमिति प्रश्नः । धात्वाद्यादेशाः प्रयोजनमित्युतरम् । तत्र "प्रयुज्यतेऽनेनेति प्रयोजनम्" उदाहरणं न प्रयुज्यत इत्यर्थात्प्रश्नानुरूपं प्रतिवचनम् । ननु चास्तिब्रुवोरार्द्धधातुके परत आदेशाभ्यां भाव्यम्, तत् किमतिदेशेनेत्यत आह--आर्द्धधातुके विषय इत्यादि । दाधिकम् । दध्नि संस्कृतम् "दध्नष्टक्" । अव्ययादेश इति । क्त्वामात्रस्य ल्यबादेशः, क्त्वान्तस्याव्ययसंज्ञा, स कथमव्ययादेशः, तस्मात् क्त्वाग्रहणेन ल्यपो ग्रहणातदन्तस्यापि संज्ञा भवतीत्येवम्परमेतत् । तत्रापि "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" इति प्रस्तुत्येति संघातस्य भवति । वक्करणं किमिति । विनापि तेन तदर्थो गम्यते, यथा ङ्त्किदित्यादाविति प्रिश्नः । स्थानीत्यादि । असति वत्करणे संज्ञाप्रकरणत्वात् स्थान्यादेशस्य संज्ञा विज्ञायेत, मैवं विज्ञायीति वत्करणमित्यर्थः । किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह--स्वाश्रयमपीति । संज्ञायां हि स्थानिस्वरूपनिबन्धनम् "आङेयमहनः" इत्यादि कार्यमादेश एव स्याद्, न स्थानिनि; न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते । "आत्मनेपदेष्वन्यतरस्याम्" इति च विषयसप्तमी विज्ञायते । स्वाश्रयमपीति । कोऽर्थः ? स्थानिन्यपीत्यर्थः । तथा चोतरग्रन्थे "उभयत्र" इति सप्तमीनिर्द्देशः । आदेशग्रहणं किमिति । यथा "पितृवत्स्थूलः" इत्युक्ते सम्बन्धिशब्दात्पुत्र इति मम्यते, तथेहापि स्थानिवदित्युक्ते क इत्यपेक्षायाम् "यदपेक्षं स्थानित्वं स एवा देशः" इति गम्यत प्रश्नः । आनुमानिकस्येत्यादि । द्विविधो हि आदेशः--प्रत्यक्षश्च "अस्तेर्भूः" इत्यादिः, आनुमानिकश्च "एरुः" इत्यादिः । अत्रेकारेणेकारान्तः स्थान्यनुमीयते, विषणेनेव गौः । उकारेण चोकारान्त आदेशः ततस्तेस्तुरिति सम्पद्यते । तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य, पुनःश्रतेस्तु व्याप्त्यर्थत्वात् आदेशमात्रं स्थानिवद्भवति । तेन पचत्वित्यत्र "तिङ्न्तं पदम्" इति पदसंज्ञा सिद्धा भवति । ननु चेकारमात्रस्योकारमात्रमादेशोऽस्तु, किं तदन्तानुमानन ? एवं हि "एरुः" इत्येतच्च यथाश्रुतमेव व्याख्यातं भवति; आदेशग्रहणं च न कर्तव्यं भवति, "एकदेशविकृतिस्यानन्यत्वात् पदसंज्ञा भविष्यति । एवं तर्हि पुनःश्रुतिरेव लिङ्गम्, एकदेशविकारः शास्त्रे नाश्रीयत इति, तेन-- सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ इति सिद्धं भवति । द्यौपिथित्यदादेशा इति । "दिव औत्", "पथिमथ्युभुक्षामात्","त्यदादीनामः-इत्येते । ननु सामान्यातिदेशे विशेषानतिदेशः, ततश्च यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रकार्यमेव भवति, न माठरादिविषेषकार्यम्; तथा "स्थानिवदादेशः" इत्युक्ते यः स्थानी यदाकारविशिष्टः सूत्रे श्रूतस्तदादेशस्य तदाकारप्रयुक्तेनैव कार्येण भवितव्यम् । "क्त्वो ल्यप्" इत्यत्र च वस्तुस्थित्या सन्निहितमपि वलादित्वं स्थानिरूपेण नाश्रितम् । तथा हि-इडादिरपि क्त्वा भवत्येव,क्त्वा केवलोऽपि दत्वायेति यगन्तोऽपि, इष्ट्वीनमिति मान्तोऽपि; तत्र क्त्वामात्रप्रतिबद्धं यत्कार्यं कृत्वप्रत्ययत्वादि, तदादेशेऽतिदिश्यताम्, वलादित्वस्य तु कुतोऽतिदेशः ? एवं क इष्ट इत्यादावपि च यण इक् भवति, दिवोऽलोऽन्त्यस्योत्वौत्वे भवतः, पथ्यादीनामन्त्यस्याद्भवति, त्यदादीनामन्त्यस्याकारः, विसर्ज्जनीयस्य सत्वमित्येवं यणादिरूपेण स्थानिन आश्रयणम् । ततश्च ततदाकारप्रयुक्तस्यैव कार्यस्यापि अतिदेशः, न हल्त्वादिविशेषनिबन्धनस्येति नार्थोऽनल्विधावित्यनैन । यत्र तर्हि विशेषरूपमेव स्थानित्वेनाश्रीयते, यथा-"च्छ्वोः शूठ" इति वकारः, तत्र तत्कार्यमादेशस्य मा भूद्-अक्षद्यौउभ्याम् । वलि लोपो न भवति । अथात्रापि वकारान्तस्याङ्गस्यालोऽन्त्यस्योडिति रूपेण स्थानिन आश्रयणम्, एवमपि विशेषातिदेशज्ञापनार्थमिदमुच्यते; अन्यथा ल्यपो वलादित्ववत् कित्वस्याप्यतिदेशो न स्यात्, देवित्वेत्यादावकितोऽपि क्त्वः सम्भवात् । अनुबन्धाश्च स्थानिन्यसन्त एव कार्येषु युज्यन्त इति तत्कार्येष्वनल्विधाविति निषेधो न भवति । लिङ्गाच्च । यदयं शेर्ह्यपिच्च" इत्याह, तज्ज्ञापयति-भवत्यनुबन्धकार्याणामतिदेश इति ॥ अचः परस्मिन् पूर्वविधौ । अच इति स्थानिनिर्देश इति । यद्यप्यनूद्यमानादेशविशेषणत्वात् स्थानषष्ठी न लभ्यते, तथाप्यचो य आदेश इत्युक्ते तत्स्थानिक एव प्रतीयत इति । परस्मिन्निति निमितभावे सप्तमी, न परसप्तमी; परशब्देनैव परत्वस्योक्तत्वात्, परस्मिन्य आदेश इति अनुवादत्वाच्च, किति ये गुणवृद्धी इतिवत्; पूर्वविधाविति विषय इति प्रकृतत्वात् स्थानिवत्वस्य । पूर्वविधौ कर्तव्ये स्थानिवदिति । एवं पदतात्पर्यं दर्शयित्वा वाक्यार्थमाह--अजादेश इतायदि । किमर्थमिदमुच्यते, पूर्वत्र स्थानिकार्यमादेशेऽतिदिष्टम्, इह तु स्थानिनि सति पूर्वस्य यत्कार्यं तदादेशेऽपि सति पुर्वस्य भवतीत्यतिदिश्यते । ननु तत्रापि स्थानिनिमितमन्यस्य तदप्यतिदिश्यते, यथा वृक्षायेति "सुपि च" इति दीर्घत्वम् ? एवं तर्ह्याल्विध्यर्थमिदम् । तथा हि-वव्रश्चेत्युदत्वे ङ संप्रसारणे संप्रसारणम्" इति वकारस्य संप्रसारणप्रतिषेधः स्थान्यलाश्रयोऽस्माद्वचनाद्भवति । इदं च शंप्रसारणे परः प्रतिषेधः" इति पक्षे प्रयोजनम्, शंप्रसारणभाविनि यण्येव प्रतिषेधः" इति तु पक्षे न प्रयोजनम् । इहाचितीकः, बहुचितीक इति चितेः कपि दीर्घत्वे कृते "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति स्थान्यलाश्रयः स्वरो भवति । एवं यातेर्यङ्न्तात् क्तिचि अतो लोपे यलोपविधिं प्रति स्थानिवत्वनिषेधाद् यलोपे च या या ति इति स्थिते यङ्कारलोपस्य स्थानिवत्वात् "आतो लोप इटि च" इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारलोपः, पुनश्च यलोप इति प्रत्ययमात्रस्य श्रवणप्रसङ्गः, आल्लोपस्य स्थानिवत्वाच्चिणोलुङ्न्यायेनासिद्धत्वाद्वा । तथा च वरेविधौ स्थानिवत्वं निषिध्यते-यायावर इति । स्थानिवद्भावादातो लोपो मा भूदिति । तथा तिष्ठ तेर्यङ्न्तात् क्तिच्, अल्लोपयलोपयोस्तेष्ठीति स्थिते अल्लोपस्य स्थानिवत्वादियङ् भवति, तथा चोतरसूत्रेकण्डूअतिरित्यत्र उपङ्प्रसङ्गं चोदयित्वा "अस्तु तस्यैव च्छ्रवोः शूडित्यूठ करिष्यते" इत्युक्तम्, इयङ् चि कृते यलोपे च तेष्ठितिरिति भवति । न च पुनरियङ्, आदिष्टादचः पूर्वत्वात् । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः "एरनेकाचः" इति यणि यलोपे पेप्तिरिति भवति । "शो तनूकरणे" यङ्न्तात् क्तिचि अल्लोपयलोपाल्लोपेषु पूर्वत्राद्धीये न स्थानिवदिति स्थानिवत्वनिषेधाच्छशां ष इति षत्वे शाष्टिरिति भवति । एवं चिचीयतेश्चेक्तिरित्येषा दिक् । तथा तितौमाचष्ट इति णिचि टिलोपस्य स्थानिवत्वादयो ञ्णितीत्यस्याभावे "अतः उपधायाः" इति स्थान्यलाश्रया वृद्धिर्भवति । न चात्र क्विलुगुपधात्वेत्युपधाविधि प्रति स्थानिवत्वनिषेधः, तस्य प्रत्ययविधिविषयत्वात्, सत्यां च वृद्धौ पुकि सति तितापयतीति भवति । न च पुक्यपि स्थानिवत्वम्; आदिष्टादचः पूर्वत्वात् । ननु पूर्वस्य कार्ये कर्तव्ये सति स्थानिवत्वेन भवितव्यम्, अत्र च सर्वत्र स्थानिवत्वे सति पूर्वस्य कार्यप्राप्तिरिति इतरेतराश्रयम् । नात्र स्थानिवत्वात् प्रगेव पूर्वस्य कार्ये प्राप्ते स्थानिवत्वम्, किं तर्हि ? प्राग्वा पश्चाद्वा पूर्वस्य कार्ये पूर्वस्य कार्ये चिकीषिते । अत एव वरेविधौ स्थानिवत्वनिषेधः । तदेवमल्विध्यर्थमिदम् । किञ्च--ब्राह्मणवदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र ब्राह्मणाश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं युद्धादिकं व्यावर्त्यते । पूर्वसूत्रेऽपि स्थान्याश्रयं प्राप्यते, न स्वाश्रयं व्यावर्त्यते, यथा--वृक्षायेति दीर्घत्वमादेशाश्रयं भवति; भविता, भवितुम्, भवितव्यमिति गुणः । इह तु स्थान्यलाश्रयमेवेष्यते, स्वाश्रयं नेष्यते । तथा च पटयतीति टिलोपे कृते प्राप्ता उपधावृद्धिर्न भवति, अवधीदिति हलन्तलक्षणा, बहुखट्वक इति "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इतिस्वरो न भवति, वाय्वोर्यलोपो न भवति, तन्वन्तीतीण् न भवति । एवं बहूनि स्वाश्रयनिवृत्तिरुदाहरणानि । अत एव द्वर्वचनादिविधौ स्थानिवत्वनिषेधः । अतोऽजादेशः परनिमितकः पूर्वस्य विधौ स्थानिवदेव यथा स्यात्, मा भूत्स्वयं निमितमिति नियमार्थमपीदमारब्धव्यम् । कथं पुनरेकेन यत्नेनोभयं लभ्यम्, विधिश्च, नियमश्च ? विधिग्रहणसामर्थ्यादिति तन्निरूपणे वक्ष्यामः । अथ वा - विधिग्रहणं विधिमात्रे स्थानिवद्भावा यथा स्यादशास्त्रीयो च विपरीते च । तेन पटयतीत्यादौ स्थानिनि दृष्टो वृद्ध्यभावादिरशास्त्रीयोऽप्यतिदिश्यते । तत्र वृत्तिकारेण यत्नसाध्यत्वादशास्त्रीयोदाहरणनि दर्शितानि । विधिशब्दः कर्मसाधनः, पूर्वस्येति शेषलक्षणषष्ठी; पूर्वस्य व्यवस्थितस्य सतः सम्बन्धिनि कार्ये कर्तव्ये इति । पूर्वत्वं त्वत्राजपेक्षमाश्रीयते; नादेशापेक्षम्, निमितापेक्षं वा । न चाजपेक्षे पूर्वत्व विधिशब्दो भावसाधनः सम्भवति । बावसाधने हि तस्मिन्, पूर्वस्येति कर्मणि षष्ठीविज्ञानात् पूर्वस्मिन्विधात्व्ये स्थानिवदित्यर्थः स्याद् । अवस्थिते चाचि ततः पूर्वं किञ्चि द्विधेयं भवति, इह चादेशाः स्थानिवदिति वचनात् आदेशेन स्थानी निवर्तित इति नायमर्थः सम्भवति । अत्रादेशः परनिमितकः, तस्यैवादेशस्य स्थानिभूतो योऽच्, ततः पूर्वस्मिन् विधातव्य इति । तथा हि-"अचो य आदेशः" इत्यादेशात्प्रागवस्थानूद्यते, ततश्च संनिधानात् प्रतीयमानमवधित्वमपि तदवस्थस्यैवाचो युक्तम् । अत एवोच्यते-"योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः" इति । आदेशनमादिष्ट्ंअ तदकृतं यस्य सोऽनादिष्टः, अकृतादेशादचः पूर्वस्येत्यर्थः । आदेशात्प्रागवस्थायामिति यावत् । न चास्या अवस्थायाः पूर्वस्मिन् विधातव्ये तदादेशः स्थानिवदिति सम्भवति । ननु कर्मसाधनेऽप्यजादेशः स्थानिवद्भवति-अकृतादेशाचः पूर्वस्य विधाविति नायमर्थः सम्भवति, स्थानिवद्भावदशायामच आदेशेन निवर्तितत्वात् । नात्र सम्प्रत्यचः पूर्वस्येत्ययमर्थः, किं तर्हि ? अचोऽवस्थानदशायां पूर्वत्वेन दृष्टस्याजवस्थाप्रभृतिपूर्वस्येत्यर्थः । तदेवमजपेक्षस्य पूर्वत्वस्याश्रयणात् कर्मसाधन एव विधिशब्दः । कि पुनः कारणमजपेक्षमेव पूर्वत्वमाश्रीयते, न पुनरादेशापेक्षं निमितापेक्षं वा ? उच्यते; तदपेक्षे पूर्वत्वे वैयाकरणः, सौवश्व इत्यत्र स्थानिवद्भावादैचोरायावौ प्राप्नुतः, तावपि हि यणादेशातन्निमिताच्च परस्मादचः पूर्वस्य कार्यम् । न च वाच्यम्--शत्यपि स्थानिवत्वेऽन्तर्भूताज्निमिततयाऽन्तरङ्गयोरायावोः कर्तव्ययोर्बहिभूततद्धितापेक्षतया बहिरङ्गावैचावसिद्धावित्यायावौ न भविष्यतः" इति; ङाजान्तर्ये बहिरङ्गप्रक्लृप्तिः" इतिवचनात् । यथा-अक्षद्यौउरिति बहिर्भूतक्विबवेक्षोऽप्यूडन्तर्भूताजपेक्षेयणि नासिद्धो भवति । अजपेक्षे तु पूर्वत्वे वि अ आकरणः, सु अ अश्व इत्यजवस्थायां य्वोरभावेनैचोरदर्शनादप्रसङ्गस्तदाह-"अचः पूर्वत्वविज्ञानादैचौः सिद्धम्" इति । किं च --निमितापेक्षे पूर्वत्वे द्वाभ्याम्, देयम्, लवनमित्यत्रात्वेत्वगुणाः स्वनिमितात्पूर्वेषां स्वेषामेव कार्येषु दीर्घगुणावादेशेषु स्थानिवत्स्युः । तथोभयोरपि पक्षयोरपीपचदित्यादौ शन्वल्लघुनि" इति सन्वद्भावो न स्यात्; उपधाह्रस्वस्य स्थानिवत्वादलघूपधत्वात् । अजपेक्षे तु पूर्वत्वे पाचि अ अत् इति स्थिते द्विर्वचनमुपधाह्रस्वत्वं णिलोपः-इत्येतेषु प्राप्तेषु परत्वादन्तरङ्गत्वाच्च णिलोपे कृते पर वान्नित्यत्वाच्च ह्रस्वत्वे च पश्चाद् द्विर्वचनेऽभ्यासस्य स्थानिनोऽचः पूर्वत्वेनादृष्टत्वान्नास्ति स्थानिवद्भावः । तथा च तत्र तत्रोच्यते-"योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भाव आदिष्टाच्चैषोऽचः पूर्वः" इति । तस्मादजपेक्षमेव पूर्वत्वम् । यद्येवम्, तन्वन्तीत्यत्रेटि कर्तव्ये यणः स्थानिवत्वं न स्यात्, तन् उ अन्तीत्यजवस्थायां यत्पूर्वमङ्गं न तस्येट्, किं तर्हि ? ततः परस्यादेशस्यैव । निमितापेक्षे तु यणो निमितादन्त्यकारात्पूर्वस्य तस्यैव यण इड् विधेय इति कर्मसाधने भावसाधने च विधिशब्दे स्थानिवत्वं लभ्यते । आदेशापेक्षेऽपि भावसाधने यणः पूर्वत्वेनेटो विधेयत्वात्सिध्यति, नैष दोषः, "आर्द्धधातुकस्येड्" इत्यत्र "एकाच उपदेशे" इत्यतः "उपदेशे" इत्यनुवृतेरुपदेशे वलादेरिड् भविष्यति; तत्राप्युपदेश इत्यनुवृतेः । एवमपि चोरिष्यत इत्यादौ वलादिलक्षणे चिण्वदिटि च प्राप्ते नित्यत्वाच्चिण्वदिडिति । वक्ष्यति-ङित्यश्चायं वल्निमितविघाती" इति,तन्नोपपद्यते; उक्तेन प्रकारेण वलादिलक्षणस्यापीटो नित्यत्वात् । एवं तर्हि अहिरङ्गस्य यणोऽसिद्धत्वादिडभावः । यद्वा-पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽप्याश्रीयते, तेन पूर्वस्मादङ्गादिटो निमितत्वेननाश्रितात्परस्य यण इति कर्तव्ये स्थानिवद्भविष्यति ॥ कानि पुनः पञ्चमीसमासप्रयोजनानि ? इदं तावत्प्रयोजनम्-तन्वन्तीति । किञ्च बेभिदिता, मार्थितिकः, अपीपचन् । बेभिद्यतेर्यङ्न्तातृचि अल्लोपस्य स्थानिवत्वान्न भवति, नैतदस्ति; बेभिद्य तृ इति स्थितेल्लोपश्च पाप्नोति इट् च; परत्वादिट् । नित्योऽल्लोपः-कृतोऽपीटि प्राप्नोति; इट् पुनरनित्यः, न हि कृतेऽल्लोपे प्राप्नोति, नित्येनाल्लोपेन बाध्यते । यस्य च निमितं लक्षणान्तरेण न विहन्यते तद् नित्यम्, अत उभयोर्नित्ययोः परत्वादिडेव भविष्यति । इदं तर्हि मथितं पण्यमस्य माथितिक इति ठस्येकादेशे कृते, यस्येति लोपे चेकस्य स्थानिवद्भावेन ठग्रहणेन ग्रहणात् "इसुसुक्तान्तात्कः" इति कादेशः प्राप्नोति, यस्येति लोपस्य स्थानिवद्भावान्न भवति । एतदपि सन्निपातपरिभाषया ठस्येति वर्णग्रहणेनाल्विधित्वेन स्थानिवद्भावाभावाद्वा सिद्धम् । इदं तर्हि अपीपचन्, अपीपचाअन् इति स्थितेऽन्त्याकारस्य चङ्कारस्य च "अतो गुणे" इति पररूपत्वे तस्य परं प्रत्यादिवद्भावाज् झिग्रहणेन ग्रहणे सति सिजभ्यस्तविदिभ्यश्च" इति जुस् प्राप्नोति, णिलोपस्यैकादेशस्य वा स्थानिवद्भावान्न भवति । तदेवमजपेक्षमेव पूर्वत्वमाश्रीयते; विधिशब्दश्च कर्मसाधनः, शेषषष्ठ।ल च समास इति न कश्चिद् दोष इति स्थितम् । पट।ल्तीति । णाविष्ठवदिति टिलोपः । अवधीदिति । "हनो वध लिङ्" "लुङि चि" इति वधादेशः । हलन्तलक्षणेति । "वदव्रज" इत्यत्र हलन्तस्येत्यनुवृतेर्हलन्तलक्षणा । बहुखट्वक इत्यत्र "स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्" इति वचनात् स्वरविधावप्यत्र स्थानिवत्वं भवत्येव । प्रश्न इति । "यजयाचयत" इत्यादिना नङ्, "च्छ्रवोः शूठ" इति च्छस्य शः । तुकि न स्थानिवद्भवतीति । तुकि कर्तव्ये न स्थानिवद्भवतीत्यर्थः । नन्वन्तरङ्गत्वात् पूर्वं तुका भाव्यम्, तत्र चैकं निमितीकृत्य युगपदाङ्गवार्णयोः प्रसङ्गः, तत्र वार्णादाङ्गं बलीयः, यथा-करोतेर्लिटि णलि कृ अ इति स्थिते, गौरित्यत्र सावकाशाम् "अचो ञ्णिति" इति वृद्धिं बाधित्वाऽन्तरङ्गत्वात्प्राप्तं यणं वृद्धिरेव बाधते, प्रश्न इत्यत्र तु शस्य नङ् निमितं तुकस्तु च्छः, भिन्नकाला चानयोः प्राप्तिरिति नायमस्या विषय इति तुकि सति "च्छ्वोः शूठ" इत्यत्र सतुक्कच्छकारनिर्देशेन तस्यैवादेशः एवं च सत्यापि स्थानिवत्वे सतुक्तच्छग्रहणेन शो गृह्यते, न केवलं च्छग्रहणेनेति कुतस्तुकः प्रसङ्गः ! अत एव नङे ङ्त्विमपि विश्न इति गुणो मा भूदिति, तस्मादप्रत्युदाहरणमेतदिति प्रत्युदाहरणान्तरमाह-आक्राष्टामिति । श्पृशमृशकृषतृप्दृषां सिज् वा वक्त्व्यः" इति क्सापवादः पक्षे सिच् । अनुदातस्येत्यम्, यणि "वदव्रज" इति वृद्धिः । "पूर्वत्रासिद्धे न स्थानिवद्" इति वचनादत्राप्यतृप्यन्नाह--आगत्येति । "वा ल्यपि" । युवजानिरिति । बहुव्रीहौ पुंवद्भावः, युवतिशब्दस्य वयोवचनत्वेनाजातिवाचित्वात् "जातेश्च" इति प्रतिषेधो न भवति । यलोपे न स्थानिवदिति । ननु योऽत्रादेशो नासौ लोपस्य निमितम्, तस्य वल्मात्रनिमितत्वात्; यश्च निमितं नकारः नासावादेश इति स्थानिवत्वं न भविष्यति । न च जायाशब्दस्य जनेरौणादिके यङ्प्रत्यये "ये विभाषा" इत्यात्वे च व्युत्पादितत्वाद् निङ्ः स्थानिवत्वे सत्यातो लोपप्रसङ्गः, न ह्युणादिषु व्युत्पत्तिकार्यमवश्यं भवति, अत उदाहरणानतरोपन्यासः--वैयाघ्रपद्य इति । व्याघ्रस्येव पादावस्येति "पादस्य लोपोऽहस्त्यादिभ्यः" इत्यपरनिमितः "गर्गादिभ्यो यञ्" । ननु सत्यपि स्थानिवत्वे वचनात् पद्भावो भविष्यति; यद्येवम्, पादे इत्यत्रापि प्राप्नोति; सति तु परस्मिन्नत्यस्मिन्वैयाघ्रपद्य इत्यत्र पद्भावस्य चरितार्थत्वाद् पादे इत्येकादेशस्य स्थानिवत्वात् पद्भावाभावः । कथं पुनरेकादेशस्य स्थानिवत्वम्, न ह्ययमच आदेशः, किं तर्हि ? अचोः उच्यते; वर्णनिर्देशेषु जातिग्रहणाद्, "अच" इत्येकत्वास्याविवक्षितत्वाद् अचोरप्यादेशः स्थानिवत् । द्वयोरपि वा स्थानित्वे यदेकस्य स्थानित्वं तदाश्रयं तस्य स्थानिवत्वं भविष्यति । अत एव श्रायसौ, गौमतौ, चातुरौ, आनुडुहाविति श्रायसादिभ्योऽणन्तेभय औप्रत्यय एकादेशस्यादिवत्वात् प्राप्तौ नुमामौ न भवतः; उदकं वहति, "कर्मण्यण्" संज्ञायामुदभावः, सप्तम्येकवचन एकादेशस्यादिवत्वाद्भत्वे सति प्राप्तः "वाह ऊठ" न भवति उदवाहे इति । आदीघ्य इति । अदादित्वाच्छपो लुक् । परस्मिन्नत्युच्यमाने स्यानिवद्भावाभावात् कृते टेरेत्वे लोपो न प्राप्नोति । टेरेत्वं तु कृताकृतप्रसङ्गित्वान्नित्यमिति तदेव भवति । ननु च परस्मिन्नत्यसति शब्लुकोऽपि स्थानिवत्वात् तद्व्यवधानादेव लोपो न भविष्यति, न; "क्विलुगुपधात्वचङ्पनिह्रनिर्ह्रासकुत्वेषु" इति लुका लुप्तस्य स्थामिवत्वप्रतिषेधात् । हे गौरिति । "गोतो णित्" । बाभ्रवीया इति । बभ्रोरपत्यमिति "मधुबभ्व्रोर्ब्राह्मणकौशिकयोः" इति यञ्, "ओर्गुणः","वान्तो यि प्रत्यये" इत्यवादेशः । अवादेशो न स्थानिवद्भवतीति । ननु चासत्यपि स्थानिवद्भावे संनिपातपरिभाषया न भवितव्यमेवात्र यलोपेन, नैतदस्ति; "अचः" इत्ययं संघातो यादिसन्निपातकृतः; न च स लोपस्य निमितम्, किं तर्हि ? वकारमात्रम् । यद्येवम्, स्थानिवद्भावस्याप्यप्रसङ्गः, योऽत्रादेशो नासावाश्रीयते, यश्चाश्रीयते नासावादेशः । नैवेय इति । निपूर्वाद्धाञः "उपसर्गे घोः किः","आतो लोपः","द्व्यचः" "इतश्चानिञः" इति ढक् । ननु च पूर्वस्मादपि विधौ स्थानिवत्वमुक्तम्, तत् कथमेतानि प्रत्युदाहरणानि ? नैष दोषः; अत्राप्यजपेक्षस्य पूर्वस्याश्रयणाद् योऽनादिष्टादचः पूर्वस्ततः परस्येति । एवमपि हे गौरित्यत्र प्राप्नोति व्यवहितेऽपि परशब्दवृतेर्गकारात्परस्य सोर्लोपः, एवमितरयोरपि, नैतदेवम्; पूर्वस्य विधिरिति षष्ठीसमास एवायम्, तत्रानुवादत्वात् स्थानषष्ठ।ल्भावात् सम्भन्धसामान्ये षष्ठी-पूर्वसम्बन्धिनि विधाविति । सम्बन्धश्च द्विविधः-कार्यित्वेन, निमितत्वेन वा । यत्र कार्यित्वेन स पूर्वस्य विधिः, यत्र निमित्तत्वेन स पूर्वस्मात्; ततश्च योऽनादिष्टादच पूर्वस्तन्निमितत्वेनाश्रित्य यत्कार्यं प्राप्तं स एव पूर्वस्माद्विधिः, यथा-अपीपचन्निति । अत्र हि योऽनादिष्टो णिच् चङ् वा, ततः पूर्वमपीपच् इत्येवाभ्यस्तं परस्य झेर्जुसो निमितम् । तन्वन्तीत्यत्र योऽनादिष्टोऽच् उप्रत्ययस्ततः पूर्वं यत् तन्निमितत्वेनाश्रीयते तद्विधावङ्गस्येत्यनुवृतेः । एतदेव तत्राङ्गाधिकारस्य प्रयोजनम् । हे गौरित्यादौ तु योऽनादिष्टादचः पूर्वो गकारादिर्न तत्सम्बुद्धिलोपादेर्निमितम्, यच्च निमितमोकारादिर्नासावनादिष्टादचः पूर्व इति न दोषः । इह तर्हि वेतस्वानिति, टिलोपस्य पूर्वविधौ स्थानिवत्वात् सकारात्पूर्वस्यानुपधात्वाद् "मादुपधायाः" इति वत्वं न स्यात् । न च स्थानिवद्भावेन सन्निहितमकारमपेक्ष्याकारान्तादिति लभ्यते, तस्यानादिष्टादचः पूर्वत्वाभावात् तदपेक्षत्वे स्थानिवद्भावात्, नैष दोषः; "पूर्वत्रासिद्धे न स्थानिवतद्" । विधिग्रहणं किम्, ननु पूर्वसूत्रादेवानुवर्तते ? समासद्वयपरिग्रहार्थम् । असति हि तस्मिन् पूर्वस्येत्युक्ते पूर्वस्माद्विधौ न स्यात्, पूर्वस्मादित्युक्ते पूर्वस्य विधौ न स्यात्, नैतदस्ति; पूर्वस्येत्युक्तेऽपि अनुवादत्वात् स्थानषष्ठ।ल्भावात् सर्वः पूर्वसम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि विधिमात्रे स्थानिवद्यथा स्यात् शास्त्रीये विपरीते च । यद्वा-विधिग्रहणं द्वितीयो यत्नः, तत्राचः परिस्मिन्पूर्वस्येत्येको योगः, विधावित्येव । तेन वव्रश्चेत्यादौ स्थान्यलाश्रयमतिदिश्यते । ततो विधौ, अचः परस्मिन्पूर्वस्येत्येव, नियमार्थमेतत्-अजादेशः परनिमितकः पूर्वविधौ स्थानिवदेव, न तु स्वयं निमितमिति । तेन पटयतीत्यादि सिद्धं भवतीति । नन्वसत्यपि द्वितीययत्ने यथा चोलवत् काश्मीरेषु व्रीहयः, मरुभूमिवदस्मिन्प्रदेशेजलमित्यादौ दृष्टान्ते प्रसिद्धस्य भावस्याभावस्य वा यथादर्शनमतिदेशः, एवमत्रापि भविष्यति ? विषम उपन्यासः; युक्तं तत्र भावस्यैवाभावस्यैव च प्रसिद्धत्वाद्, इह तूदाहरणभेदेन भावाभावयोः प्रसिद्धावपि श्थानिवदादेशः" इत्युक्तेऽश्रुतक्रियापदेषु वाक्येषु भावतीत्येवाध्याहारस्य प्रसिद्धत्वाद् भावातिदेशः स्याद् इत्यलमितप्रबन्धेन ॥
सिद्धान्तकौमुदी
आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च (कौमुदी-48) इति द्वित्वनिषेधो न शङ्क्योऽनल्विधाविति इति तन्निषेधात् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
स्थानिवदादेशो। आदेशे कृते स्वरूपभेदात्स्थानिप्रयुक्तकार्याणप्रवृत्तावतिदेश आरभ्यते। `अस्तेर्भूः`। आर्धधातुके विवक्षिते धात्वादेशो धातुवत्। तेन `अचो य`-दित्यादिधातुप्रत्ययः-भव्यं बभूव। `किमः कः`। अङ्गादेशोऽङ्गवत्। तेन इनादेशदीर्घैस्वभावाः। केन काभ्यां कैः। आदेशग्रहणं किमर्थम् ?, `स्थानिव`दित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात्, यथा `पितृवदधीते` इत्युक्ते `पुत्र` इति गम्यते इति चेदत्रादुः,--द्विविध आदेशः,-प्रत्यक्ष आनुमानिकश्चेति। `अस्तेर्भूः` इत्यादिः प्रत्यक्षः। `तेस्तुः` इत्यादिस्त्वानुमानिकः। `एरुः` इत्यत्र हि इकारेणेकारान्तः स्थानी अनुमीयते, उकारेण चोकारान्त आदेशः। तथाच `तेस्तु`रिति फलितोऽर्थः, तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नत्वानुमानिकस्य। आदेशग्रहणसामर्थ्यात्तूभयपरिग्रहः, तेन पचत्वित्यादेस्तिङ्न्तत्वात्पदसंज्ञा सिध्यतीति। ननु `एरु`-रित्यादि यथाश्रुतमेवास्तु, एकदेशविकृतस्याऽनन्यत्वात्पदत्वं भविष्यतीति चेन्नः, अर्थवत्येव स्थानादेशभावविश्रान्तेर्वाच्यत्वात्तस्यैवाऽत्र प्रसङ्गाऽसंभवात्। तथाहि-`षष्ठी स्थानेयोगे`त्युक्तम्। स्थानं च प्रसङ्गः। स चार्थवतः , अर्थप्रत्ययार्थं शब्दप्रयोगात्। यद्यपि च्लेः सिजादावसंभवीदं, तथापि सति संभवे अर्थप्रयुक्त एव प्रसङ्गो ग्राह्य इत्यनेनैवादेशग्रहणेन ज्ञाप्यते। उक्तं च--सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने। एकदेशाविकारे हि नित्यत्वं नोपपद्यते`॥ इति पदमिहार्थवत्, पद्यतेऽनेनेति व्युत्पत्तेः। यद्यपि सर्वविकारे सुतरां नित्यत्वानुपपत्ति स्तथापीह विकार एव नास्तीति तात्पर्यम्। एतच्च शब्दकौस्तुभे स्पष्टम्॥ अनल्विधाविति किम् ?। यश्चाला विधिः, यश्चालः परस्य विधिः, यश्चालो विधिः, यश्चालि विधिस्तत्र मा भूत्। तत्राऽला विधौ यथा--व्यूढोरस्केन। अत्र सकारस्य स्थानिवत्त्वेन विसर्गवदट्त्वमाश्रित्य `अड्व्यवाये` इति णत्वं प्राप्तम्। अलः परस्य यथा--द्यौः, पन्थाः। इह हल्ङ्यादिलोपो न। अलो विधौ यथा--द्युकामः। लोपो व्योर्वली`ति लोपो न। न चोत्त्वविधिसामर्थ्याल्लोपोन भवेदिति शङ्क्यम् ; `द्युयान`मित्यादौ तस्य सावकाशत्वात्। अलि विधौ--यजेः क्तः। क इष्टः। `हशि चे`त्युत्वं न। न चेह स्थानिबद्भावेन जातेप्युत्वे आद्गुणेऽवादेशे च कृते `हलि सर्वेषा`मिति नित्यं लोपेन `क इष्ट` इति रूपं सिध्यत्येवेति वाच्यम् ; `कयिष्ट` इति रूपान्तराऽसिद्धिप्रसङ्गात्। सिद्धान्ते तु `भोभगोअघोअपूर्वस्ये`ति यस्य लोपविकल्पे `क इष्टः` `कयिष्ट` इति रूपद्वयमभ्युपगम्यते। अलं चेह स्थान्यवयव एव गृह्यते, तेन `रामाये`त्यादौ `सुपि चे`ति दीर्घः सिध्द्यति, तद्विधौ हि यञादित्वमाश्रितम्। यञ् चादेशावयवो न तु स्थान्यवयवः। तथा `अरुदिता`मित्यादौ `रुदादिभ्यः-` इति वलादिलक्षण इट् च सिध्यति। तदेतदाह्मन तु स्थान्यलाश्रय #इति। आश्रयणं चेह यथाकथञ्चिन्न तु प्राधान्येनैवेत्याग्रहः। तेन `प्रपठ�ए`त्यत्र वलादिलक्षण इण्न॥
लघुसिद्धान्तकौमुदी
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥
महाभाष्यम्
स्थानिवदादेशोऽनल्विधौ वत्करणं किमर्थम् ? स्थान्यादेशोऽनल्विधावितीयत्युच्यमाने सञ्ज्ञाधिकारोऽयं तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात्। तत्र को दोषः ? आङो यमहनः आत्मनेपदं भवतीति वधेरेव स्यात्, हन्तेर्न स्यात्। वत्करणे पुनः क्रियमाणे न दोषो भवति। स्थानिकार्यमादेशेऽतिदिश्यते। गुरुवद् गुरुपुत्रे इति यथा। अथादेशग्रहणं किमर्थम् ? स्थानिवदनल्विधावितीयत्युच्यमाने क इदानीं स्थानिवत् स्यात् ? यः स्थाने भवति। कश्च स्थाने भवति ? आदेशः। इदं तर्हि प्रयोजनम्। आदेशमात्रं स्थानिवद् यथा स्यात्। एकदेशविकृतस्योपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति। अथ विधिग्रहणं किमर्थम् ? सर्वविभक्त्यन्तः समासो यथा विज्ञायेत ‐ अलः परस्य विधिः ‐ अल्विधिः। अलो विधिः अल्विधिः। अलि विधिः अल्विधिः। अला विधिः अल्विधरिति। नैतदस्ति प्रयोजनम्। प्रातिपदिकनिर्देशोऽयम्। प्रातिपदिकनिर्देशाश्चार्थतन्त्रा भवन्ति। न कांचित् प्राधान्येन विभक्तिमाश्रयन्ति। तत्र प्रातिपदिकार्थे निर्दिष्टे यां यां विभक्तिमाश्रयितुं बुद्धिरुपजायते सा सा आश्रयितव्या। इदं तर्हि प्रयोजनम् ‐ - उत्तरपदलोपो यथा विज्ञायेत। अलमाश्रयते अलाश्रयः। अलाश्रयो विधिः ‐ अल्विधिरिति। यत्र प्राधान्येनालाश्रीयते तत्रैव प्रतिषेधः स्यात्। यत्र विशेषणत्वेनालाश्रीयते तत्र प्रतिषेधो न स्यात्। किं प्रयोजनम्? प्रदीव्य- प्रसीव्येति। वलादिलक्षण इट् मा भूदिति। किमर्थं पुनरिदमुच्यते? ।। स्थान्यादेशपृथक्त्वादादेशे स्थानिवदनुदेशो गुरुवद् गुरुपुत्रे इति यथा। ।। अन्यः स्थानी अन्य आदेशः। स्थान्यादेशपृथक्त्वादेतस्मात् कारणात् स्थानिकार्यमादेशे न प्राप्नोति। तत्र को दोषः। आङो यमहन इत्यात्मनेपदं भवतीति हन्तेरेव स्याद् वधेर्न स्यात्। इष्यते च वधेरपि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति तस्मात् स्थानिवदनुदेशः। एवमर्थमिदमुच्यते। गुरुवद् गुरुपुत्रे इति यथा। तद्यथा गुरुवद् गुरुपुत्रे वर्तितव्यमिति गुरौ यत् कार्यं तद् गुरुपुत्रे अतिदिश्यते। एवमिहापि स्थानिकार्यमादेशे अतिदिश्यते। नैतदस्ति प्रयोजनम्। लोकत एतत् सिद्धम्। तद्यथा लोके यो यस्य प्रसङ्गे भवति लभतेऽसौ तत्कार्याणि। तद्यथा उपाध्यायस्य शिष्यो याज्यकुलानि गत्वा अग्रासनादीनि लभते। यद्यपि तावल्लोक एष दृष्टान्तः। दृष्टान्तस्यापि तु पुरुषारम्भो निवर्तको भवति। अस्ति वेह कश्चित् पुरुषारम्भः ? अस्तीत्याह। कः? स्वंरूपविधिर्नाम। हन्तेरात्मनेपदमुच्यमानं हन्तेरेव स्यात् वधेर्न स्यात्। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति स्थानिवदादेशो भवतीति। यदयं युष्मदस्मदोरनादेशे इत्यादेशे प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? युष्मदस्मदोर्विभक्तौ कार्यमुच्यमानं कः प्रसङ्गो यदादेशेपि स्यात्। पश्यति त्वाचार्यो यत् स्थानिवदादेशो भवतीति अत आदेशे प्रतिषेधं शास्ति। इदं तर्हि प्रयोजनम्। अनल्विधाविति प्रतिषेधं वक्ष्यामीति। इह मा भूत्। द्यौः पन्थाः स इति। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति- अल्विधौ स्थानिवद्भावो न भवतीति। यदयमदो जग्धिर्ल्यप्तिकिति इति ति कितीत्येव सिद्धे ल्यब्ग्रहणं करोति। तस्मान्नार्थोऽनेन योगेन। आरभ्यमाणेऽप्येतस्मिन् योगे। ।। अल्विधौ प्रतिषेधेऽविशेषणेऽप्राप्तिस्तस्यादर्शनात्।। अल्विधौ प्रतिषेधेऽसत्यपि विशेषणे समाश्रीयमाणे असति तस्मिन् विशेषणे अप्राप्तिर्विधेः। प्रदीव्य, प्रसीव्य। किं कारणम्? तस्यादर्शनात्। वलादेरित्युच्यते। न चात्र वलादिं पश्यामः। ननु चैवमर्थ एवायं यत्नः क्रियते- अन्यस्य कार्यमुच्यमानमन्यस्य यथा स्यादिति। सत्यमेवमर्थो, न तु प्राप्नोति। किं कारणम्? ।। सामान्यातिदेशे हि विशेषानतिदेशः।। सामान्ये ह्यतिदिश्यमाने विशेषो नातिदिष्टो भवति। तद्यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति। सामान्यं यद् ब्राह्मणकार्यं तत् क्षत्रियेऽतिदिश्यते। यद् विशिष्टं माठरे कौण्डिन्ये वा न तदतिदिश्यते। एवमिहापि यत् सामान्यं यत्प्रत्ययकार्यं तदतिदिश्यते यद् विशिष्टं वलादेरिति न तदतिदिश्यते। यद्येवमग्रहीत्, इट इर्टीति सिचो लोपो न प्राप्नोति। अनल्विधाविति पुनरुच्यमाने इहापि प्रतिषेधो भविष्यति ‐ - प्रदीव्य प्रसीव्येति। विशिष्टं ह्येषोऽलमाश्रयते वलं नाम। इह च प्रतिषेधो न भविष्यति अग्रहीदिति। विशिष्टं ह्येषोऽनलमाश्रयते इटं नाम। यदि तर्हि सामान्यमप्यतिदिश्यते विशेषश्च। ।। सत्याश्रये विधिरिष्टः।। सति च वलादित्वे इटा भवितव्यम्। अरुदिताम्। अरुदितम्। अरुदित। किमो यत् सति भवितव्यम्। ।। प्रतिषेधस्तु प्राप्नोत्यल्विधित्वात्।। प्रतिषेधस्तु प्राप्नोति। किं कारणम्? अल्विधित्वात्। अल्विधिरयं भवति। तत्रानल्विधाविति प्रतिषेधः प्राप्नोति। ।। न वानुदेशिकस्य निषेधादितरेण भावः।। नवा एष दोषः। किं कारणम्? आनुदेशिकस्य प्रतिषेधात्। अस्त्वत्रानुवेशिकस्य वलादित्वस्य प्रतिषेधः। स्वाश्रयमत्र वलादित्वं भविष्यति। नैतद् विवदामहे वलादिर्नवलादिरिति। किं तर्हि ? स्थानिवद्भावात् सार्वधातुकत्वमेषितव्यम्। तत्रानल्विधाविति प्रतिषेधः प्राप्नोति। किं पुनरादेशिन्यल्याश्रीयमाणे प्रतिषेधो भवति। आहोस्विदविशेषेण। आदेशे चादेशिनि च। कश्चात्र विशेषः? ।। आदेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः।। आदेशिन्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्ध्योः प्रतिषेधो वक्तव्यः। कुरु इत्यत्र स्थानिवद्भावादङ्गसञ्ज्ञा स्वाश्रयं च लघूपधत्वम्। तत्र लघूपधगुणः प्राप्नोति। वधक इत्यत्र स्थानिवद्भावादङ्गसञ्ज्ञा स्वाश्रयं चादुपधत्वं तत्र वृद्धिः पिबेत्यत्र प्राप्नोति स्थानिवद्भावादङ्गसञ्ज्ञा स्वाश्रयं च लघूपधत्वम् । तत्र लघूपधगुणः प्राप्नोति। अस्तु तर्ह्यविशेषेण ‐ आदेशे आदेशिनि च। ।। आदेश्यादेश इति चेत् सुप्तिङ्कृदतिदिष्टेषूपसङ्ख्यानम्।। आदेश्यादेश इति चेत् सुप्तिङकृदतिदिष्टेपूपसङ्ख्यानं कर्तव्यम्। सुप्, वृक्षाय प्लक्षाय। स्थानिवद्भावात् सुप्संज्ञा। स्वाश्रयं च यञ्ञादित्वं तत्र प्रतिषेधः प्राप्नोति। सुप्। तिङ्, अरुदिताम्। अरुदितम्। अरुदित। स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा। स्वाश्रयं च वलादित्वं तत्र प्रतिषेधः प्राप्नोति। तिङ्। कृदतिदिष्टम्, भुवनम् । सुवनम्। धुवनम्। स्थानिवद्भावात् प्रत्ययसञ्ज्ञा। स्वाश्रयं चाजादित्वं तत्र प्रतिषेधः प्राप्नोति। किं पुनरत्र ज्यायः ? आदेशिन्यल्याश्रीयमाणे प्रतिषेध इत्येतदेव ज्यायः। कुत एतत्? यथा ह्ययं विशिष्टं स्थानिकार्यमादेशेऽतिदिशति गुरुवद् गुरुपुत्रे इति यथा। तद्यथा गुरुवदस्मिन् गुरुपुत्रे वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादोपसंग्रहणाच्चेति। यदि च गुरुपुत्रोपि गुरुर्भवति तदपि कर्त्तव्यं भवति। अस्तु तर्हि आदेशिन्यल्याश्रीयमाणे प्रतिषेधः। ननु चोक्तमादेश्यल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेध इति। नैष दोषः। करोतौ तपरनिर्देशात् सिद्धम्। पिबिरदन्तः। वधक इति नायं ण्वुल्। अन्योऽयमकशब्दः किदौणादिकः। रुचक इति यथा। ।। एकदेशविकृतस्योपसङ्ख्यानम्।। एकदेशविकृतस्योपसङ्ख्यानं कर्तव्यम्। किं प्रयोजनम्? पचतु, पचन्तु इति। तिङ्ग्रहणेन ग्रहणं यथा स्यात्। ।। एकदेशविकृतस्यानन्यत्वात् सिद्धम्।। एकदेशविकृतमनन्यवद् भवतीति तिङ्ग्रहणेन ग्रहणं भविष्यति। तद्यथा श्वा कर्णे पुच्छे वा छिन्ने श्वैव भवति। नाश्वो न गर्दभ इति। ।। अनित्यविज्ञानं तु।। अनित्यविज्ञानं तु भवति। नित्याः शब्दाः। नित्येषु च नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। तत्र स एवायं विकृतश्चेत्येतन्नित्येषु शब्देषु नोपपद्यते। तस्मादुपसङ्ख्यानं कर्तव्यम्। भारद्वाजीयाः पठन्ति- ।। एकदेशविकृतेषूपसङ्ख्यानं कर्तव्यम्।। किं प्रयोजनम्? पचतु, पचन्तु। तिङ्ग्रहणेन ग्रहणं यथा स्यात्। किं च कारणं न स्यात् ? ।। अनादेशत्वात्।। आदेशः स्थानिवदित्युच्यते। न चेमे आदेशाः। ।। रूपान्यत्वाच्च।। अन्यत् खल्वपि रूपं पचतीति , अन्यत् पचत्विति। इमेऽप्यादेशाः। कथम्? आदिश्यते यः स आदेशः। इमेऽप्यादिश्यन्ते। ।। आदेशः स्थानिवदिति चेन्नानाश्रितत्वात्।। आदेशः स्थानिवदिति चेत् तन्न। किं कारणम्? अनाश्रितत्वात्। योत्रादेशो नासावाश्रीयते। यश्चाश्रीयते नासावादेशः। नैतन्मन्तव्यं समुदाये आश्रीयमाणेऽवयवो नाश्रीयते इति। अभ्यन्तरो हि समुदायस्यावयवः। तद्यथा वृक्षः प्रचलन् सहावयवैः प्रचलति। ।। आश्रय इति चेदल्विधिप्रसङ्गः।। आश्रय इति चेदल्विधिरयं भवति। तत्रानल्विधाविति प्रतिषेधः प्राप्नोति। नैष दोषः। नैवं सति कश्चिदनल्विधिः स्यात्। उच्यते चेदमनल्विधाविति। तत्र प्रकर्षगतिर्विज्ञास्यते साधीयो योऽल्विधिरिति। कश्च साधीयः? यत्र प्राधान्येनाल् आश्रीयते। यत्र हि नान्तरीयकोऽल् आश्रीयते नासावल्विधिरिति। अथवोक्तमादेशग्रहणस्य प्रयोजनम् आदेशमात्रं स्थानिवद् यथा स्यादिति। ।। अनुपपन्नं स्थान्यादेशत्वं नित्यत्वात्।। स्थानी आदेश इति नित्येषु शब्देषु नोपपद्यते। किं कारणम्? नित्यत्वात्। स्थानी हि नाम भूत्वा यो न भवति। आदेशो हि नाम योऽभूत्वा भवति। एतच्च नित्येषु शब्देषु नोपपद्यते यत् सतो नाम विनाशः स्यात् असतो वा प्रादुर्भाव इति। ।। सिद्धं तु यथा लौकिकवैदिकेष्वभूतपूर्वेपि स्थानशब्दप्रयोगात्।। सिद्धमेतत्। कथम्? यथा लौकिकवैदिकेषु कृतान्तेषु अभूतपूर्वेपिस्थानशब्दप्रयोगो वर्तते। लोके तावदुपाध्यायस्य स्थाने शिष्य इत्युच्यते। न च तत्रोपाध्यायो भूतपूर्वो भवति। वेदेपि। सोमस्य स्थाने पूतीकतृणान्यभिषुणुयादित्युच्यते। न च तत्र सोमो भूतपूर्वो भवति। ।। कार्यविपरिणामाद्वा सिद्धम्।। अथवा कार्यविपरिणामात् सिद्धमेतत्। किमिदं कार्यविपरिणामादिति? कार्या- बुद्धिः सा विपरिणम्यते। ननु च कार्याविपरिणामादिति भवितव्यम्। सन्ति चैव ह्यौत्तरपदिकानि ह्रस्वानि। अपि च बुद्धिः सम्प्रत्यय इत्यनर्थान्तरम्। कार्या बुद्धिः-कार्यः-सम्प्रत्ययः। कार्यस्य-सम्प्रत्ययस्य विपरिणामः। कार्यविपरिणामः -कार्यविपरिणामादिति। परिहारान्तरमेवेदं मत्वा पठितम्। कथं चेदं परिहारान्तरं स्यात्? यदि भूतपूर्वे स्थानशब्दो वर्तते। भूतपूर्वे चापि स्थानशब्दो वर्तते। कथम्? बुद्ध्या। तद्यथा कश्चित् कंचिदुपदिशति प्राचीनं ग्रामादाम्रा इति। तस्य सर्वत्राम्रबुद्धिः प्रसक्ता। ततः पश्चादाह ये क्षीरिणोऽवरोहवन्तः पृथुपर्णास्ते न्यग्रोधा इति। स तत्राम्रबुद्ध्या न्यग्रोधबुद्धिं प्रतिपद्यते। स ततः पश्यति बुद्ध्या आम्रांश्चापकृष्यमाणान् न्यग्रोधांश्चोपधीयमानान्। नित्या एव च स्वस्मिन् विषये आम्राः नित्याश्च न्यग्रोधाः। बुद्धिस्त्वस्य विपरिणम्यते। एवमिहाप्यस्तिरस्मायविशेषेणोपदिष्टस्तस्य सर्वत्रास्तिबुद्धिः प्रसक्ता। सोऽस्तेर्भूरित्यनेनास्तिबुद्ध्या भवतिबुद्धिं प्रतिपद्यते। स ततः पश्यति ‐ बुद्ध्या अस्तिं चापकृष्यमाणं भवतिं चोपधीयमानम्। नित्य एव च स्वस्मिन् विषयेऽस्तिः, नित्यो भवतिश्च। बुद्धिस्त्वस्य विपरिणम्यते। ।। अपवादप्रसङ्गस्तु स्थानिवत्त्वात्।। अपवादे उत्सर्गकृतं च प्राप्नोति। कर्मण्यण् आतोनुपसर्गे कः इति केपि अण्कृतं प्राप्नोति। किं कारणम् स्थानिवत्त्वात्? ।। उक्तं वा।। किमुक्तम्? विषयेण तु नानालिङ्गकरणात् सिद्धमिति। अथवा ।। सिद्धं तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात्।। सिद्धमेतत्। कथम्? षष्ठीनिर्दिष्टस्यादेशः स्थानिवदिति वक्तव्यम्। तत्तर्हि षष्ठीनिर्दिष्टग्रहणं कर्तव्यम्। न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम् ? षष्ठी स्थानेयोगेति। अथवा आचार्यप्रवृत्तिर्ज्ञापयति नापवादे उत्सर्गकृतं भवतीति यदयं श्यन्नादीन् कांश्चित् शितः करोति। श्यन् श्नम् श्ना शः श्नुरिति। ।। तस्य दोषस्तयादेश उभयप्रतिषेधः।। तस्यैतस्य लक्षणस्य दोषः। तयादेशे उभयप्रतिषेधो वक्तव्यः। उभये देवमनुष्याः। तयपो ग्रहणेन ग्रहणाद् जसि विभाषा प्राप्नोति। नैष दोषः। अयच् प्रत्ययान्तरम्। यदि प्रत्ययान्तरम् , उभयी इति इर्कारो न प्राप्नोति। मा भूदेवम्। मात्रच इत्येवं भविष्यति। कथम्? मात्रजिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? मात्रशब्दात् प्रभृति आ अयचश्चकारात्। यदि प्रत्याहारग्रहणं, कति तिष्ठन्ति अत्रापि प्राप्नोति। अत इति वर्तते। एवमपि तैलमात्रा, घृतमात्रा अत्रापि प्राप्नोति। सदृशस्याप्यसंनिविष्टस्य न भवति प्रत्याहारग्रहणेन ग्रहणम्। ।। जात्याख्यायां बहुवचनातिदेशे स्थानिवद्भावप्रतिषेधः।। जात्याख्यायां बहुवचनातिदेशे स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः। व्रीहिभ्य आगत इत्यत्र घेर्ङिति इति गुणः प्राप्नोति। नैष दोषः। उक्तमेतत्- अर्थातिदेशात् सिद्धमिति। ।। ङ्याब्ग्रहणेऽदीर्घः।। ङ्याब्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति वक्तव्यम्। किं प्रयोजनम्? निष्कौशाम्बिः। अतिखट्वः। ङ्याब्ग्रहणेन ग्रहणात् सुलोपो मा भूदिति। ननु च दीर्घादित्युच्यते। तन्न वक्तव्यं भवति। किं पुनरत्र ज्यायः ? स्थानिवद्भावप्रतिषेध एव ज्यायान्। इदमपि सिद्धं भवति अतिखट्वाय, अतिमालाय। याडाप इति याङ् न भवति। अथेदानीमसत्यपि स्थानिवद्भावे दीर्घत्वे कृते पिच्चासौ भूतपूर्व इति कृत्वा याट् कस्मान्न भवति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। ननु चेदानीं सत्यपि स्थानिवद्भावे एतया परिभाषया शक्यमिहोपस्थातुम्। नेत्याह। न तर्हीदानीं क्वचिदपि स्थानिवद्भावः स्यात्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। प्रश्लिष्टनिर्देशात् सिद्धम्। प्रश्लिष्टनिर्देशोऽयम्। ङी इर् इर्कारान्तात्। आ आप् आकारान्तादिति। ।। आहिभुवोरीट्प्रतिषेधः।। आहिभुवोरीट्प्रतिषेधो वक्तव्यः। आत्थ अभूत्। अस्तिब्रूग्रहणेन ग्रहणादीट् प्राप्नोति। आहेस्तावन्न वक्तव्यः। आचार्यप्रवृत्तिर्ज्ञापयति नाहेरीड् भवतीति। यदयमाहस्थ इति झलादिप्रकरणे थत्वं शास्ति। नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? भूतपूर्वगतिर्यथा विज्ञायेत। झलादिर्यो भूतपूर्व इति। यद्येवं थवचनमनर्थकं स्यात्। आथिमेवायमुच्चारयेत्। ब्रुवः पञ्ञ्चानामादिति आथो ब्रुवः इति। भवतेश्चापि न वक्तव्यः। अस्तिसिचोऽपृक्ते इति द्विसकारको निर्देशः। अस्तेः सकारान्तादिति। ।। वध्यादेशे वृद्धितत्वप्रतिषेधः।। वध्यादेशे वृद्धितत्वयोः प्रतिषेधो वक्तव्यः। वधकं पुष्करमिति। स्थानिवद्भावाद् वृद्धितत्वे प्राप्नुतः। नैष दोषः। उक्तमेतत्- नायं ण्वुल्। अन्योऽयमकशब्दः किदौणादिको रुचक इति यथेति। ।। इडि्वधिश्च।। इड् विधेयः। आवधिषीष्ट। एकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः प्राप्नोति। नैष दोषः। आद्युदात्तनिपातनं करिष्यते। स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति। एवमप्युपदेशिवद्भावो वक्तव्यः। यथैव हि निपातनस्वरः प्रकृतिस्वरं बाधते एवं प्रत्ययस्वरमपि बाधेत। आवधिषीष्टेति। नैष दोषः। आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु। तत्रार्धधातुकसामान्ये वधिभावे कृते, सति शिष्टत्वात् प्रत्ययस्वरो भविष्यति। ।। आकारान्तान्नुक्षुक् प्रतिषेधः। ।। आकारान्तान्नुक्षुकोः प्रतिषेधो वक्तव्यः। विलापयति। भापयते। लीभीग्रहणेन ग्रहणान्नुक्षुकौ प्राप्नुतः। नैष दोषः। लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम्। लीभियोः प्रश्लिष्टनिर्देशोऽयम्। ली इर् इर्कारान्तस्येति। भी इर् इर्कारान्तस्येति। ।। लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः। ।। एषां लोडादेशे प्रतिषेधो वक्तव्यः। शिष्टात्। हतात्। भिन्तात्। कुरुतात्। स्तात्। लोडादेशे कृते शाभावो जभावो धित्वं हिलोप एत्त्वमित्येते विधयः प्राप्नुवन्ति। नैष दोषः। इदमिह सम्प्रधार्यम्। लोडादेशः क्रियतामेते विधय इति। किमत्र कर्तव्यम्? परत्वाल्लोडादेशः। अथेदानीं लोडादेशे कृते पुनः प्रसङ्गविज्ञानात् कस्मादेते विधयो न भवन्ति? सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति कृत्वा। त्रयादेशे स्रन्तप्रतिषेधः। त्रयादेशे स्रन्तस्य प्रतिषेधो वक्तव्यः। तिसृणाम्। तिसृभावे कृते त्रेस्त्रय इति त्रयादेशः प्राप्नोति। नैषः दोषः। इदमिह सम्प्रधार्यम्, तिसृभावः क्रियतामाहोस्वित् त्रेस्त्रय इति। किमत्र कर्तव्यम्। परत्वात् तिसृभावः। अथेदानीं तिसृभावे कृते पुन प्रसङ्गविज्ञानात् त्रयादेशः कस्मान्न भवति। सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितमेवेति। ।। आम्विधौ च। ।। आम्विधौ स्रन्तस्य प्रतिषेधो वक्तव्यः। चतस्रस्तिष्ठन्ति। चतसृभावे कृते चतुरनडुहोरामुदात्त इत्याम् प्राप्नोति। नैष दोषः। इदमिह सम्प्रधार्यम्, चतुसृभावः क्रियतामाहोस्वित् चतुरनडुहोरामुदात्त इत्याम् इति। किमत्र कर्तव्यम्? परत्वात् चतसृभावः। अथेदानीं चतुसृभावे कृते पुनः प्रसङ्गविज्ञानाद् आम् कस्मान्न भवति। सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति। ।। स्वरे वस्वादेशे। ।। स्वरे वस्वादेशे प्रतिषेधो वक्तव्यः। विदुषः पश्य। शतुरनुमो नद्यजादी अन्तोदात्तादित्येष स्वरः प्राप्नोति। नैष दोषः। अनुम इति प्रतिषेधो भविष्यति। अनुम इत्युच्यते न चात्र नुमं पश्यामः। अनुम इति नेदमागमग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? उकारात् प्रभृति आ नुमो मकारात्। यदि प्रत्याहारग्रहणं, लुनता, पुनता अत्रापि प्राप्नोति। नानुम्ग्रहणेन शत्रन्तं विशेष्यते। किं तर्हि? शतैव विशेष्यते शता योऽनुम्क इति। अवश्यं चैतदेवं विज्ञेयम्। आगमग्रहणे हि सतीह प्रसज्येत- मुञ्चता, मुञ्चते इति। ।। गोः पूर्वणित्त्वात्त्वस्वरेषु। ।। गोः पूर्वणित्त्वात्त्वस्वरेषु प्रतिषेधो वक्तव्यः। चित्रग्वग्रम्। शबलग्वग्रम्। सर्वत्र विभाषा गोरिति विभाषा पूर्वत्वं प्राप्नोति। नैषः दोषः। एङ इति वर्तते। तत्रानल्विधाविति प्रतिषेधो भविष्यति। एवमपि हे चित्रगोऽग्रम् इत्यत्रापि प्राप्नोति। णित्त्वम्। चित्रगुः। चित्रगू। चित्रगवः। गोतो णिदिति णित्त्वं प्राप्नोति। आत्वम्। चित्रगुं पश्य। शबलगुं पश्य। आओतः ‐ इत्यात्त्वं प्राप्नोति। नैष दोषः। तपरकरणात् सिद्धम्। तपरकरणसार्मथ्यात् णित्त्वात्त्वे न भविष्यतः। स्वर। बहुगुमान्। न गोश्वन्साववर्णेति प्रतिषेधः प्राप्नोति। ।। करोतिपिबत्योः प्रतिषेधः। ।। करोतिपिबत्योः प्रतिषेधो वक्तव्यः। कुरु पिबेति। स्थानिवद्भावाल्लघूपधगुणः प्राप्नोति। ।। उक्तं वा। ।। किमुक्तम्? करोतौ तपरकरणनिर्देशात् सिद्धम्। पिबिरदन्त इति।।56।।