Page loading... Please wait.
1|1|53 - ङिच्च
॥ तस्मै पाणिनये नम: ॥
1|1|53
SK 43
ङिच्च   🔊
सूत्रच्छेद:
ङित् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
अलः  [1|1|52] - षष्ठ्येकवचनम् , अन्त्यस्य  [1|1|52] - षष्ठ्येकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
ङित् अन्त्यस्य अल:
सूत्रार्थ:
ङित्-आदेशः स्थानिनः अन्तिमवर्णस्य एव भवति ।
यदि कस्मिंश्चित् सूत्रे उक्ते आदेशे ङकारः इत्संज्ञकः अस्ति, तर्हि सः आदेशः अनेकाल् भवेत् वा एकाल्, सर्वदा स्थानिनः अन्तिमवर्णस्य स्थाने एव भवति ।

यथा - अनङ् सौ 7|1|93 अनेन सूत्रेण सखि-शब्दस्य सुँ-प्रत्यये परे अनङ्-आदेशः भवति । वस्तुतः अयम् अनेकाल्-आदेशः अस्ति, अतः अनेकाल् शित् सर्वस्य 1|1|55 इत्यनेन सः सम्पूर्ण-स्थानिनः स्थाने भवेत् । परन्तु अयम् आदेशः ङित्-अस्ति, अतः ङिच्च इत्यनेन केवलं स्थानिनः अन्तिमर्वणस्य स्थाने एव अयं आदेशः भवति । अतः प्रक्रिया एतादृशी जायते -

सखि + सुँ
→ सख् अन् सुँ [ अनङ् सौ 7|1|93 इति सखि-शब्दस्य अनङ्-आदेशः । ङिच्च 1|1|53 इति अन्त्यादेशः । अतः अयम् सखि-शब्दस्य अन्तिम-इकारस्य स्थाने भवति । ]
→ सखान्स् [सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः ]
→ सखान् [ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँ-प्रत्ययस्य लोपः]
→ सखा [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नलोपः]

विशेषः - अष्टाध्याय्याम् आदेशस्थानविधायकानि चत्वारि सूत्राणि सन्ति । एतेषां सर्वेषाम् संक्षेपरूपेण अर्थः तथा परस्परेभ्यः बलाबलम् अस्मिन् लेखे निर्दिष्टम् अस्ति ।
One-line meaning in English
A ङित्-आदेश happens to the last letter of the स्थानी.
काशिकावृत्तिः
ङित् च य आदेशः सोऽनेकालपि अलोऽन्त्यस्य स्थाने भवति । आनङृतो द्वन्वे 6|3|25 - होतापोतारौ, मातापितरौ । तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात् सर्वादेशः तातङ् भवति - जीवताद् भवान्, जीवतात् त्वम् ॥
`होतापोतारौ` इति। होतृपोतृशब्दयोद्र्वन्द्व, आनङ्, औप्रत्यये परतः `ऋतो ङिसर्वनामस्थानयोः` 7|3|110 इति गुणः, रपरत्वं च। `अप्तृन्तृच्` 6|4|11 इत्यादिना दीर्घः। `मातापितरौ` इति। `पिता मात्रा` 1|2|70 इति यस्मिन् पक्ष एक-शेषो नास्ति, तत्रेदमुदाहरणम्। यदि ङिदादेशोऽनेकालप्यन्त्यस्य भवति, एवं सति तातङ-प्यन्त्यस्य भवतीत्यत आह-`तातङि` इत्यादि। तत्र गुणप्रतिषेधार्थम् चिनुतादित्यादौ। अत्र हि सार्वधातुकलक्षणस्य गुणस्य प्राप्तिः। वृद्धिप्रतिषेधार्थम्- मृष्टादिति। अत्र हि `मृजेर्वद्धिः` 7|2|114 इति वृद्धिप्राप्तिः। तदेवं गुणवृद्धिप्रतिषेधे चरितार्थत्वात् तातङो ङित्करणस्य सावकाशत्वे सति तस्मिन परत्वात `अनेकाल्शित्सर्व-स्य` 1|1|54 इत्यनेन तातङ सर्वादेशो भवति। ङिच्चेत्यस्यावकाशः-`होतापोतारौ` इत्यादि। अनेकालित्यादेरवकाशो योन ङित्-`अस्तेर्भूः` 2|4|52 , भवितेत्यादि।`जीवतात्` इत्यादावुभयप्राप्तौ परत्वदनेकाल्त्वात् तातङ सर्वादेशो भवति, `जीवताद् भवान्` `जीवतात् त्वम्` इति। जीवतादिति `आशिषि लिङलोटौ` 3|3|173 इतिलोट्, तिप्, `एरुः` `तु ह्रोस्तातङ्` 7|1|35 इत्यादिना तातङ॥
होतापोताराविति । "ऋतो ङिसर्वानामस्थानोयः"इति गुणः । "अप्तृन्" इत्यादिना दीर्घः । मातापितराविति । "पितामात्रा" इत्येकशेषाभावपक्षेऽभ्यर्हितत्वान्मातुः पूर्वनिपातः; "पितुर्दशगुणं माता गौरवेणातिरिच्यते"। अथ तातङ्न्त्यस्य कस्मान्न भवति ? तत्राह--तातङीत्यादि । अनन्यार्थङ्त्वेष्विनङदिषु चरितार्थमेतद् गुणवृद्धिप्रतिषेधार्थतया चरितार्थङ्त्वे तातीङ् परेण "अनेकाल्शित्सर्वस्य" इत्यनेन बाध्यत इत्यर्थः । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेधः, अतुल्यकक्षत्वात्, न चान्तरेण सर्वादेशतां गुणवृद्धिप्रतिषेधार्थत्वस्योन्मेष एति चरितार्थत्वमपि ङ्त्विस्य चिन्त्यम् ? न ब्रूमो गुणवृद्धिप्रतिषेधार्थस्य निश्चितत्वाद् दुर्बलं ङ्त्विमिति; कि तु सर्वादेशेऽपि तातङ् गुणिवृद्धिप्रतिषेधः प्रयोजनं सम्भाव्यते । तावता च कियानपि विलम्बो भवति । अनङदिषु सर्वादेशत्वे न किञ्चिन् ङ्त्विस्य प्रयोजनमिति सर्वादेशार्थतासम्भावनापि नास्तीति । तेष्वेव सहसा प्रवर्तते । ततश्च त्रिप्रतिषेधोपपतिः । अथ वा - "एरुः" इत्यस्यानन्तरम् "तुह्यएस्तातङशिषि" इति वक्तव्यम्, एरित्येव । एवं वक्तव्ये ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमेवेति निश्चितमिति विप्रतिषेधोपपतिस्तदाह--तातङ् इङ्त्किरणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेश इति । अथ वा - यथोपदर्शितं गुणवृद्धिप्रतिषेधार्थत्वं सर्वादेशतामन्तरेण नोपपद्यत इति अन्तरेणैव विप्रतिषेधं सर्वादेशस्तातङ् भवति ॥
सिद्धान्तकौमुदी
अयमप्यन्त्यस्यैव स्यात् । सर्वस्य (कौमुदी-45) इत्यस्यापवादः ॥
ङिच्च - ङिच्च । ङकार इद्यस्य स-ङित् ।अलोऽन्त्यस्ये॑त्यनुवर्तते । तदाह — अयमपीति । ङिदमपीत्यर्थः । अवङ् तावङ् अनङित्यादिरादेश उदाहरणम् ।नन्वलोऽन्त्यस्येति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-सर्वस्येति ।अनेकाल् शित् सर्वस्ये॑ति वक्ष्यमाणस्य सर्वादेशत्वविधेरयं विधिरपवादः । अपोद्यते बाध्यते अनेनेति अपवादः । बाहुलकः करणे घञ् । येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इत्यपवादलक्षणम् । अप्राप्ते इति भावे क्तः ।येने॑ति कर्तरि तृतीया । द्वौ नञावावश्यकत्वं बोधयतः । यत्कर्तृकावश्यकप्राप्तौ सत्यां यो विधिरारभ्यते स आरभ्यमाणविधिस्तस्याऽवश्यप्राप्तस्य अपवादो बाधक इति तदर्थः । अयं च न्यायसिद्धः । अवङादयो हि ङित आदेशाः सर्वेऽनेकाल एव । तेषु चानेकाल्विशेषेषु विधीयमानेन ङितामन्त्यादेशत्वेन स्वविषये अवश्यं प्राप्तमनेकाल्सामान्येन विहितं सर्वादेशत्वं बाध्यते, विशेषविहितत्वात्, निरवकाशत्वाच्च । विशेषशास्त्र हि विशेषेषु झटिति प्रवत्र्तते, विशेषाणां स्वशब्देनोपात्तत्वात् । सामान्यशास्त्रं तु सामान्यमुखेन विशेषेषु प्रवर्तत इति तस्य तेषु मन्दप्रवृत्तिः । अतो विशेषशास्त्रं प्रबलम् । उक्तं च भट्टवार्तिकेअवश्यमेव सामान्यं विशेषं प्रति गच्छति । गतमात्रं च तत्तेन विशेषे स्थाप्यते ध्रुवम्॥॑ इति । किं च यदि ङिच्चेति शास्त्रमनेक#आल्विशेषेषु ङित्सु न प्रवर्तेत, तर्हि तदनर्थकमेव स्यात् ।अनेकाल्शित्सर्वस्ये॑त्यस्य तु ङित्सु अप्रवृत्तावपि नानर्थक्यम्, तस्थस्थमिपां तान्तंताऽमः॑अस्तेर्भू॑रित्यादिष्वनेकाल्षु अङित्सु तस्य सावकाशत्वात् । अतो विशेषशास्त्रं प्रबलमिति ।
ङिच्च - ङिच्च । अयमपीति ।अवङ् स्फोटायनस्य॑-गवाग्रम् ।अनङ् सौ॑-सखा । परस्य यदिति ।तस्मादित्युत्तरस्यादे॑रिति न सूत्रितम्,आदे॑रित्यंशस्य सर्वादेशबाधकत्वापत्तेः । सिद्धान्ते तु परत्वात्सर्वादेशत्वं बाधकमित्नुपदमेव वक्ष्यति । आदेर्बोध्यमिति । आदेरलो बोध्यमित्यर्थः ।अल॑ इति ह्रनुवर्तते ।
लघुसिद्धान्तकौमुदी
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥
महाभाष्यम्
ङिच्च तातङ् अन्त्यस्य स्थाने कस्मान्न भवति। ङिच्चालोन्त्यस्येति प्राप्नोति। ।। तातङि ङित्करणस्य सावकाशत्वाद् विप्रतिषेधात् सर्वादेशः।। तातङि ङित्करणं सावकाशम्। कोऽवकाशः? गुणवृद्धिप्रतिषेधार्थो ङकारः। तातङि ङित्करणस्य सावकाशत्वाद् विप्रतिषेधात् सर्वादेशो भविष्यति। प्रयोजनं नाम तद् वक्तव्यं यन्नियोगतः स्यात्। यदि चायं नियोगतः सर्वादेशः स्यात्, तत एतत् प्रयोजनं स्यात्। कुतो नु खल्वेतत् ङित्करणादयं सर्वादेशो भविष्यति, न पुनरन्त्यस्य स्यादिति। एवं तर्ह्येतदेव ज्ञापयति ‐ न तातङ् अन्त्यस्य स्थाने भवतीति। यदेतं ङितं करोति। इतरथा हि लोट एरुप्रकरण एव ब्रूयात्- तिह्योस्तादाशिष्यन्तरस्यामिति।