॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|37
SK 447
1|1|37
स्वरादिनिपातमव्ययम्
SK 447
सूत्रच्छेद:
स्वरादि-निपातम् - प्रथमैकवचनम् , अव्ययम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
स्वरादि-निपातम् अव्ययम्
सूत्रार्थ:
स्वरादिगणस्य शब्दाः, निपातसंज्ञकाः च शब्दाः अव्ययसंज्ञकाः भवन्ति ।
अनेन सूत्रेण "अव्यय"संज्ञा पाठ्यते । ये शब्दाः "स्वरादि"गणे सन्ति, तेषाम्, तथा ये शब्दाः निपाताः सन्ति, तेषाम् अनेन सूत्रेण अव्ययसंज्ञा भवति ।

किम् नाम निपाताः ? प्राग्रीश्वरान्निपाताः 1|4|6 अस्मिन् अधिकारे सर्वे निपातसंज्ञकाः शब्दाः पाठ्यन्ते । एतेषाम् सर्वेषाम् वर्तमानसूत्रेण अव्ययसंज्ञा भवति । एतत् स्मर्तव्यम् यत् केषाञ्चन शब्दानाम् केवलं केषुचित् अर्थेषु एव निपातसंज्ञा भवति, सर्वेषु अर्थेषु न । एतादृशानां शब्दानाम् अव्ययसंज्ञा अपि तेषु एव अर्थेषु भवति, अन्येषु न । यदि निपातसंज्ञा भवति तर्हि एव अव्ययसंज्ञा अपि भवति, इत्यर्थः ।

स्वरादिगणः इत्युक्ते "स्वर्" इत्यस्मात् आरभ्य गणपाठे या आवली दीयते, सा । अस्य गणस्य शब्दाः सर्वेषु अर्थेषु अव्ययसंज्ञां प्राप्नुवन्ति ।

स्वरादिगणस्य सम्पूर्णा आवली तु गणपाठे द्रष्टव्या । अस्य गणस्य कानिचन मुख्यानि पदानि एतानि -

अन्‍तर् , प्रातर् , पुनर् , सनुतर् , उच्‍चैस् , नीचैस् , शनैस् , ऋधक् , ऋते , युगपत् , आरात् , पृथक् , ह्‍यस् , श्वस् , दिवा , रात्रौ , सायम् , चिरम् , मनाक् , ईषत् , जोषम् , तूष्‍णीम् , बहिस् , अवस् , समया , निकषा , स्‍वयम् , वृथा , नक्तम् , नञ् , हेतौ , इद्धा , अद्धा , सामि , वत् (गणसूत्रम्) (यथा - ब्राह्‍मणवत् , क्षत्रियवत्), सना , सनत् , सनात् , उपधा , तिरस् , अन्‍तरा , अन्‍तरेण , ज्‍योक् , कम् , षम् , सहसा , विना , नाना , स्‍वस्‍ति , स्‍वधा , अलम् , वषट् , श्रौषट् , वौषट् , अन्‍यत् , अस्‍ति , उपांशु , क्षमा , विहायसा , दोषा , मृषा , मिथ्‍या , मुधा , पुरा , मिथो , मिथस् , प्रायस् , मुहुस् , प्रवाहुकम्, प्रवाहिका , आर्यहलम् , अभीक्ष्णम् , साकम् , सार्धम् , नमस् , हिरुक् , धिक् , अथ , अम् , आम् , प्रताम् , प्रशान् , प्रतान् , मा , माङ् । आकृतिगणोऽयम् ।


ज्ञातव्यम् -
1. स्वरादिगणः "आकृतिगणः" अस्ति । इत्युक्ते, अस्मिन् गणे ये शब्दाः गणपाठे दत्ताः, तान् विहाय शिष्टप्रयोगेन अन्ये अपि शब्दाः अस्मिन् गणे समावेशयितुम् शक्यन्ते ।

2. एतेषाम् सर्वेषाम् शब्दानाम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1|2|45 इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः ङ्याप्-प्रातिपदिकात् 4|1|1 अस्मिन् अधिकारे एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते । परन्तु तेषाम् अव्ययादाप्सुपः 2|4|82 इति लुक्-भवति ।

अव्ययसंज्ञायाः प्रयोगः अव्ययादाप्सुपः 2|4|82, अव्ययात्त्यप् 4|2|104 आदिषु सूत्रेषु कृतः अस्ति ।
One-line meaning in English
The words of the स्वरादिगण and the words which are called "निपात" are all also known as "अव्यय".
काशिकावृत्तिः
स्वरादीनि शब्दरूपाणि निपाताश्च अव्ययसंज्ञानि भवन्ति । स्वर्, अन्तर्, प्रातर् - एते अन्तोदात्ताः पठ्यन्ते । पुनराद्युदात्तः - सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक् - एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि - एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । वत् (गणसूत्रम् 4) - वदन्तम् अव्ययसंज्ञं भवति - ब्राह्मणवत्, क्षत्रियवत् । सन्, सनात्, सनत्, तिरस् - एते आद्युदात्ताः पठ्यन्ते । अन्तरा - अयमन्तोदात्तः । अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या । क्त्वातोसुङ्कसुनः (गणसूत्रम् 5), कृन्मकारान्तः, सन्ध्यक्षरान्तः (गणसूत्रम् 6), अव्ययीभावश्च (गणसूत्रम् 7), पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, समम्, नमस्, हिरुक्, तसिलादिः तद्धित एधाच्पर्यन्तः (गणसूत्रम् 8), शस्तसी (गणसूत्रम् 9), कृत्वसुच् (गणसूत्रम् 10), सुच् (गणसूत्रम् 11), आस्थालौ (गणसूत्रम् 12), च्व्यर्थाश्च (गणसूत्रम् 13), अम् (गणसूत्रम् 14), आम् (गणसूत्रम् 15), प्रतान्, प्रशान् - स्वरादिः । निपाता वक्ष्यन्ते - प्राग्रीश्वरान्निपाताः 1|4|56 इति । च, वा, ह, अह, एव, एवम् - इत्यादयः । अव्ययप्रदेशाः अव्ययादाप्सुपः 2|4|82 इत्येवम् आदयः । अव्ययम् इत्यन्वर्थसंज्ञा ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ (गोपथब्राह्मणम्, 1.1.26)
स्वरादिषु स्वस्तिशब्दोऽस्तिशब्दश्च पठते। तत्र स्वस्तिशब्दस्य किमर्थः पाठः? यावतास्तिशब्दपाठादेव तदन्तविधिना स्वस्तिशब्दस्यापि भविष्यति। `ग्रहणवता प्रातिपदिकेन ` (व्या।प।89) इति तदन्तविधि प्रतिषेधान्न सिध्यतीत्येतत् तु नाशङ्कनीयम्, `अव्ययम्` इति महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेतलिङ्गकारकसंक्याविशेषानुपादान्न व्येति= विविधत्वं न गच्छतीत्यव्ययम्। तस्याश्चोपसर्जनप्रतिषेधः, तदन्तविधिश्च प्रयोजनम्। तस्मादन्वर्थसंज्ञकरणादेव तदन्तस्यापि भविष्यति, स्वस्तिशब्दोऽपि न व्येत्येव, सत्यमेतत्ेवं त्वन्वर्थसंज्ञाकरणाल्लब्धस्तदन्तविधिरननोपद-र्शितः। विस्पष्टार्थमुदाहरणमेतत्। `तसिलादिस्तद्धित एधाच्पर्यन्तः` इति। `पञ्च-म्यास्तसिल्` 5|3|7 इत्यत प्रभृति`एधाच्च` 5|3|46 इत्येतत्पर्यन्तः।`शस्तसी`इति। `बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्` 5|4|42 `प्रतियोगे पञ्चम्यास्तसिः` 5|4|44 `कृत्वसुच्` इति। `संख्यायः क्रियाभ्यावृत्तिगणने कृत्वसुच्` 5|4|17 इति। `द्वित्रिचतुभ्र्यः सुच्` 5|4|18 । `आस्थालौ` इति। `इण आसिः` (द।उ।9।81) इत्युणा-दिसूत्रेण इणो धातोरासिप्रत्ययः। `अयाः` इत्युदाहरणम्। `प्रत्नपूर्वविओमात्थाल् छन्दसि` 5|3|111 इति। `च्व्यर्थाश्च` इति। अभूततद्भावे `कृभ्यस्तियोगे सम्पद्य-कत्र्तरि च्विः` 5|4|50 `विभाषा साति कात्र्स्न्ये` 5|4|52 । `आम्` इति। `किमे-त्तिङव्ययधादाम्वद्रव्यप्रकर्षे` 5|4|11 । `निपाता वक्ष्यन्ते` इति। अथ कस्मात् ते स्वरादिषु न पठन्ते? कः पुरेवं गुणो भवति? अवययसंज्ञायां निपातग्रहणं तथा हि क्रियायोगे दृश्यते-`स्वः पश्यन्ति, स्वरारोहन्ति` इति। तत्र यदि चादयो निपाताः पठएरन्, तेषां सत्त्वेऽपि वत्र्तमानानामव्ययसंज्ञा प्रसज्येत।`अव्ययम्` इत्यन्वर्थसंज्ञेयम्` इति दर्शयितुमाह- `सदृशम्` इति। त्रिषु लिङ्गेषु स्त्रीपुंनपुंसकेषु सदृशं तुल्यम्, लिङ्गविशेषापरिग्रहाल्लिङ्गसामान्योपा-दानाच्च। `सर्वासु च विभक्तिषु` इति। विभक्तिनिमित्तत्वाद् विभक्तिः। विभज्यते वा प्रातिपदिकार्थ आभिरिति कर्मादीनि कारकाणि शक्तिरूपाणि विभक्तिशब्देनोच्यन्ते। `वच-नेषु च` इति। वचनान्येकवचनद्विवचनबहुवचनानि। इहाभिधेयेऽभिधानोचाराद् एकाधिकासंख्या गृह्रते `यस्मान्न व्येति लिङ्गादिसंख्याविशेषानुपादानाद् विविधं नानात्वं न गच्छति तस्माद् अव्ययम्` इत्यन्वर्थता प्रतिपादिता भवति। प्रयोजनं पुनरुपसर्जनप्र-तिषेधः, तदन्तविधिश्चेत्युक्तम्। तत्रोपसरजनप्रतिषेधः- `अत्युच्चैः, अत्युच्चैसौ, अत्युच्चैसः`। न ह्रत्र यथोपदर्शितार्थानुगमः सम्भवति। यत्र तु सम्भवति, तत्र तदन्तस्याव्ययसंज्ञा भवत्येव; यथा- `परमस्वः, उत्तमस्वः` इति। अत्र हि स्वर्? शब्द-स्य प्राधान्याल्लिङ्गादिविशेस्यासम्भवः। पूर्वत्र तूच्चैः शब्दस्य विपर्ययाद्वि-पर्ययः।
तसिलादिरिति । "पञ्चम्यास्तसिल्" इत्यारभ्य "एधाच्च" इत्येतदन्तः । शस्तसी -- "बह्वल्पार्थाच्छस्", प्रतियोगे "पञ्चम्यास्तसिः" । संख्यायाः "क्रियाभ्यावृत्तिगणने कृत्वसुच्","द्वित्रिचतुर्भ्यः सुच्" । आस्थालाविति । "इण आसिः" अयाः,"प्रत्नपूर्व"-त्वं प्रत्नथाः । च्व्यर्थाः-शंपद्यकर्तरि च्विः""विभाषासातिः कार्त्स्ये","देये त्रा च", अमु चच्छन्दसि","किमेतिङ्व्ययघादामु" । निपाता वक्ष्यन्त इति । अथ किमर्थं स्वरादीनां पृथग्ग्रहणं क्रियते, ते चादिष्वेव पठ।लेरम् ? न; चादीनामसत्ववचनानां निपातसंज्ञा, स्वरादीनां पुनः सत्ववचनानामसत्ववचनानां चाव्ययसंज्ञा-स्वस्ति वाचयति, स्वः प्रश्येति । क्रियासम्बन्धेऽनेकशक्तिदर्शनात् सत्ववाचित्वम् । अथ "प्राग्रीश्वरान्निपाताः स्वरादीनि चादयोऽसत्वे" इत्येवं सूत्रन्यासः क्रियेत, कः पुनरत्र विशेषस्तत्र वा स्वरादिग्रहणं क्रियेत ? अत्र वा ? किं च ङिपात एकाजनाङ्" इति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत-"किमोऽत्","दक्षिणादाच्", "एकाच्च तद्धितः"; केन्प्रभृतयस्तु कृत एकाचस्सन्ति । अथ "चादिरेकाजनाङ्" इति क्रियते तदा चादीनामसत्ववचनत्वं विशेषणं न लभ्यते ? नैष दोषः; "चादयोऽसत्वे" इत्यत्रासत्वाग्रहणं चादीनां पाठविशेषणम्, यथा-"तिङे गोत्रादीनि" इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनाम्, तेन यत्र यत्र चादिग्रहणं तत्र सर्वत्र विशिष्टनामेव ग्रहणम्, तत्रायमप्यर्थः--"उभे संज्ञे न कर्तवंये भवतः-अव्ययम्, निपातः" इति । कथम् ? "प्राग्रीश्वरान्निपाताः" इति वा "अव्ययानि" इति वा सूत्रं कर्तव्यम्, ततः स्वरादीनि "तद्धितश्चासर्वविभक्तिः" यावद् "अव्ययीभावश्च" इति, ततः "चादयोऽसत्वे" इत्यारभ्य यावद् "अधिरीश्वरे", विभाषा कृञि" इति; तत्र यस्मिन् प्रदेशे निपातग्रहणं तत्र चादिग्रहणमस्तु, अव्ययप्रदेशेष्वव्ययग्रहणं निपातग्रहणं चेति, ततु तथा न कृतमित्येव । अव्ययमित्यन्वर्थसंज्ञति । सदृशम् इत्यादि । श्रुतिश्चेयमाथर्वणी प्रणवविद्यायां त्रिषु लिङ्गेषु स्त्रीपुन्नपुंसकेषु सदृशम्, लिङ्गविशेषप्रतिपादनेऽसामर्थ्यात् । विभक्तिष्वति । कारकेषु वचनेष्विति । एकत्वादिसंख्यासु, अव्ययीभावस्य शक्तिलिर्ङ्गविशेषयोगेऽपि वचनादव्ययत्वम्"यस्मान्न व्येति नाना न गच्छति यत्वधर्मान्न गृह्णातीत्यर्थस्ततस्मादव्ययम्" इति । यच्छब्दरूपं न व्येति तदव्ययमिति वा । किं पुनः प्रयोजनमन्वर्थसंज्ञाकरणे ? उपसर्ज्जनप्रतिषेधः-अत्युच्चैसौ, अत्युच्चैस इति । अतिक्रान्तप्रधानस्यात्र सत्वधर्मपरिग्रहात् उच्चैःशब्दः पठ।ल्ते, कः प्रसङ्गस्तदन्तस्य ? एतज् ज्ञापयत्याचार्यः--"अस्त्यव्ययसंज्ञायां तदन्तविधिः" इति । तेन परमस्वः, परमोच्चैरिति स्वरादिप्राधान्ये तदन्तस्यापि भवति । कुशब्दः स्वरादिषु पठितव्योऽव्ययसंज्ञार्थः ॥
सिद्धान्तकौमुदी
॥ अथ अव्ययप्रकरणम्‌ ॥

स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्, अन्तर्, प्रातर्, पुनर्, सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामि(गणसूत्रम् -) वत्, ब्राह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अथ, अम्, आम्, प्रताम्, प्रशान्, प्रतान्, मा, माङ् । आकृतिगणोऽयम् । च, वा, ह, अह, एव, एवम्, नूनम्, शश्वत्, युगपत्, भूयस्, कूपत्, कुवित्, सूपत्स, कुवित्, नेत्, चेत्, चण्, कच्चित्, किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, माङ्, नञ्, यावत्, तावत्, त्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह । (गणसूत्रम् -) उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । अवदत्तम्, अहयुः, अस्तिक्षीरा । अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, हे, भोः, अये, द्य, विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
स्वरादिनिपातमव्ययम्। स्वरादयश्च निपाताश्चेतिसमाहारद्वन्द्वः। ननु चादिष्वेव स्वरादीन्पठित्वाप्रकृतसूत्रं परित्यज्य `तद्धितश्चासर्वे`त्यादि सूत्रचतुष्टयमपि `चादयोऽसत्त्वे`इत्यास्मादूर्ध्वं कृत्वाऽव्ययप्रदेशेषु निपातशब्देनैव व्यवह्रियतामिति चेन्न, `स्वस्ति वाचयति``स्वः पश्यति``स्वः पतती`त्यादौ कर्मादिकारकयोगेन सत्त्ववाचकत्वात्तेषां निपातसंज्ञाऽनापत्तेः। चादीनां ह्यसत्त्ववाचिनामेव निपातसंज्ञा, न तु सत्त्ववाचिनाम्। स्वरादीनां तु सत्त्ववाचिनामसत्तववाचिनां चाऽव्ययसंज्ञेष्यत इति व्यवस्थाऽनापत्तेश्च। अथ `प्राग्री�आरान्निपाताः``स्वरादीनि``चादयोऽसत्त्वे`इति सूत्र्यतां, तथा हि सति स्वरादीनां सत्त्ववचनानामपि निपातसंज्ञा सेत्स्यतीति चेन्नः, एवं हि सति `निपात एकाजना`ङिति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत। स्तो हि स्वरादिषु `किमोऽत्``दक्षिणदाच्`इत्यादावेकाचौ तद्धितौ। केन्प्रभृतय एकाचः कृत्प्रत्ययाश्च सन्ति। `तसिलादिस्तद्धित एधाच्पर्यन्तः`इति सूत्रस्य, `कृन्मकारसन्ध्यक्षरान्तः`इति सूत्रस्य च स्वरादिगणपपठित्वात्। यद्यप्यत्र मूले स्वरादिषु गणसूत्रद्वयमिदं न पठितं, तथापि प्राचां पाठ#ए त्वस्तीत्यनुपदमेव स्फुटीकरिष्यते। स्वरादीनुदाहरति---स्वरित्यादिना। स्वरिति स्वर्गे परलोके च। अन्तरिति मध्ये। प्रातरिति प्रत्यृषे। पुनरित्यपर्थमे विशेषे च। सनुतरित्यन्तर्धाने।स्वराद्याः पञ्चः रेफान्ताः। तेन स्वर्याति प्रातरत्रेत्यादावुत्वं न भवति। सान्तत्वे हि स्यादेव हि स्यादे दोषः। उच्चैस्--महतिः। नीचैस्---अल्पे। शनैस्--क्रियामान्द्ये। ऋधक्--सत्येऽपि। वियोगशीध्रसामीप्यलाघवेष्वित्यन्ये। ऋते--वर्जने। युगपदित्येककाले। आराद्?दूरसमीपयोः। पृथक्--भिन्ने। ह्यस्य--अतीतेऽह्नि। �आस्--अनागतेऽह्नि। दिवा दिवसे। रात्राविति निशि :सायमिति निशामिखे। चिरमिति बहुकाले। मनाक्, ईषत्--इमावल्पे। जोषं--सुखे मौने।तूष्णीमिति मौने। बहिस् अवस् इमौ बाह्ये। समयेति समीपे मध्ये च। निकषेत्यन्तिके। स्वयमिति आत्मनेत्यर्थे। वृथेति व्यर्थे। नक्तमिति रात्रौ। नञिति निषेधे। हेताविति निमित्ते। इद्धेति प्रकाश्ये। अद्धेति स्फुटावधारणयोः। तत्त्वातिशयोरित्यन्ये। सामीत्यर्धजुगुप्सितयोः। वत्। `तेन तुल्य` मित्यादिभिर्विहतो यो वतिप्रत्ययः स इह गृह्यते। तदाह--ब्राआहृआणवत्। क्षत्रियवदिति। प्रत्ययमात्रस्य संज्ञाप्रयोजनाऽभावाप्रत्ययान्तमुदाह्मतम्। यस्तु`उपसर्गाच्छन्दसि धात्वर्थे` इति विहितः, स इह न गृह्यते। यदुद्वतो निवतो यासी`त्यत्र सत्त्वधर्मस्य लिङ्गसङ्ख्यान्वयस्य दर्शनात्। अत्र वदन्ति--`तद्धितश्चासर्वविभक्ति`रित्यत्र `तसिवती`इति वतिप्रत्ययोऽपि परिगण्यते, तच्च न कर्तव्यं, स्वरादिपाठेनैव गतार्थत्वात्। स्वरादिषु वा वदिति न पठनीयमितिष सना, सनत्, सनात्,--एते नित्ये। उपधेति भेदे। तिरस्--अन्तर्धौ तिर्यगर्थे परिभावे च। अन्तरेति मध्ये विनार्थे च। अन्तरेणेति वर्जने। ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्रार्थे संप्रत्यर्थे च। कमिति वारिमूर्धनिन्दासुखेषु। शमिति सुखेष सहसेत्याकस्मिकाऽविमर्शयोः। विनेति वर्जने। नानेत्यनेकविनार्थयोः। स्वस्तीति मङ्गले। स्वधा पितृदाने। अलं--भूषणपर्याप्तिशक्तिवारणनिषेधेषु। वषट्, श्रौषट्, वौषट्,--एते हविर्दाने। अन्यदित्यन्यार्थे। अस्तीति सत्तायाम्। उपांशु--इत्यप्रकाशोच्चारणरहस्ययोः। क्षणेति क्षान्तौ। बिहायसेतचि वियदर्थे। दोषेति रात्रौष मृषा, मिथ्येत्येतौ वितथे। मुधेति व्यर्थे। इत ऊध्र्वं `क्त्वातोसुन्कसुनः``कृन्मकारसन्ध्यक्षरान्तः` `अव्ययीभावश्च`इति गणसूत्रत्रयमष्टाध्यायीस्थत्रिसूत्र्या समानार्थकमिह न पठितं चेदपि प्राचीनगणपाठे तदस्तीति बोध्यम्। वैयथ्र्यं तु परिहरिष्यते। पुरेत्यविरते चिरातीते भविष्यदासन्ने च। मिथो, मिथस्--एतौ रहः सहार्थयोःष प्रायसिति बाहुल्ये। मुहुसिति पुनरर्थे। प्रबाहुकमिति समानकाले ऊध्र्वार्थे च। प्रवाहिकेति पाठान्तरम्। आर्यहलमिति बलात्कारे। शाकटायनस्तु--आर्येति प्रतिबन्धे। हलमिति प्रतिषेधविवादयोरित्याह। अभीक्ष्णमिति पौनः पुन्ये। साकं, सार्धमेतौ साहार्थे। नमस्--नतौ। हिरुग्वर्जने। धिक्--निन्दाभत्र्सनयोः। इत उध्र्वं `तसिलादयस्तद्धिता एधाच्पर्यन्ताः``शस्तसी``कृत्वसुच्``सुच्``आस्थालौ``च्व्यर्थाश्चे`ति प्राचीनगणपाठेऽस्तीति बोध्यम्। तसिलादीत्यादेरयमर्थः,--`पञ्चम्यास्त सिः``तेनैकदिक्``तसिश्चे`त्ययमपि तसिः। `क्रियाभ्यावृत्तिगणने कृत्वसुच्`। `द्वित्रिचतुभ्र्यः सुच्`। `इण आसिः`इत्युणादिसूत्रेण विहित `आसिः`। `प्रत्नपूर्ववि�ओमात्थल्छन्दसि`। `संपद्यकर्तरि च्विः`। `विभाषा साति कार्त्स्न्ये``देये त्रा च`इत्येतदन्ता अपि ग्राह्या इति। अम्--शैध्येऽल्पे च। आम्--अङ्गीकारे। `अमु च छन्दसि``किमेत्तिङव्यय--`इति `कास्प्रत्ययात्--`इत्यादिभिश्च विहितावपि अमामौ गृह्यते इत्येके। प्रतं नय प्रतरं। ययाचतरां। कारयामास। प्रताम्---ग्लानौ। प्रशान्--समानार्थे। प्रतान्--विस्तारे। मा, माङ् एतौ निषेधाशङ्कयोः। आकृतिगण इति। तेनान्येऽपि ज्ञेयाः। तथा हि--कामम्--स्वाच्छन्द्ये। प्रकाममित्यतिशये। भूय इति पुनरर्थे। साम्प्रतमिति न्याय्ये। परमिति किन्त्वर्थे। साक्षात्--प्रत्यक्षे। साचीति तिर्यगर्थे। सत्यमित्यर्धाङ्गीकारे। मङ्क्षु, आशु--एतौ शैध्ये। संबत् वर्षे। अवश्यं निश्चये। उषेति रात्रौ। ओमित्यङ्गीकारे ब्राहृणि च। भूरिति पृथिव्याम्। भुवरित्यन्तरिक्षे। झटिति, झगिति, तरसा--एते शैन्ध्ये। सुष्ठु प्रशंसायाम्। दुष्ठु निकृष्टे। सु पूजायाम्। कु इति कुत्सितेषदर्थयोः। अञ्जसेति तत्त्वशीघ्रार्थयोः। मिथु इति द्वावित्यर्थे। अस्तमिति विनाशे। स्थाने इति युक्ते। वरमिति ईषदुत्कर्षे। सुदि शुक्लपक्षे। वदि कृष्णपक्षे इत्यादि। चादीनुदाहरति--चेत्यादिना। चेति समुच्चयान्वाचयेतरेतयोगसमाहारेषु। `वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये`। हेति प्रसिद्धौ। अहेति पूजायाम्। एवेत्यवधारणेऽनवक्लृप्तौ च। एवमित्युक्तपरामर्शे। नूनमिति निश्चये तर्के च। श�आदति पौनः पुन्ये सहार्थे च। युगपदित्येककाले। भूयसे--पुनरर्थे आधिक्ये च। कूपदिति प्रश्ने प्रशंसायां च। कुविदिति भूर्यर्थे प्रशंसायां च। नेदिति शङ्कायां प्रतिषेधविचारसमुच्चयेषु च। चेदिति यद्यर्थे। चण्--अयं चेदर्थे। णानुबन्धस्तु `निपातैर्यद्यदिहन्तकुविच्चेच्चण्--`इति विसेषणार्थः। समुच्चयादौ त्वननुबन्धकः। कच्चिदितीष्टप्रश्ने। यत्रेति अनवक्लृप्त्यमर्षगर्हाश्चर्येषु।`नावकल्पयामि न मर्षये, गर्हा आश्चर्यं वा यत्र भवान् वृषलं याजयेत्`। नहेति प्रत्यारम्भे। हन्तेति हर्षे विषादेऽनुकम्पायां वाक्यारम्भे च। माकिः, माकिं, नकिरिति त्रयोऽपि वर्जने। माङ्नञौ स्वरादिषूक्तौ। इह पाठस्तु निपातत्वार्थः, तेनाद्युदात्तत्वं फलं सिध्यतीति केचित्। तदसत्। फिट्स्वरेणाऽपीष्टसिद्धेः। अन्ये त्वाहुः--सत्त्ववचनानामप्यव्ययसंज्ञार्थं स्वरादिपाठ इति। तदप्यसत्। लक्ष्मीवाचकस्यापि माशब्दस्याऽव्ययत्वापत्तेः। तस्मादुभयत्र पाठश्चिन्त्यप्रयोजनः। यावत्तावदेतौ साकल्याऽवधिमानावधारणेषु। साकल्ये--यावत्कार्यं तावत्कृतम्। अवधौ--यावद्गन्तव्यं तावत्तिष्ठ। माने---यावद्दत्तं तावद्भुक्तम्। अवधारणे--यावदमत्रं तावद्ब्राआहृणानामन्त्रयस्व। त्वै--विशेषवितर्कयोः। द्वै--वितर्के। न्वै--इति। पाठान्तरम्। रै दाने अनादरे च। रै करोति। ददातीत्यर्थः। त्वं रै किं करिष्यसि। श्रौषट्, वोषट्--एतौ हविर्दाने। स्वाहा देवताभ्यो दाने। स्वधेति पितृभ्यः। श्रौषडादीनामनेकाचामुभयत्र पाठः स्वरभेदार्थः। तुमिति तुङ्कारे। `गुरु तुङ्कृत्य हुङ्कृत्य`। तथाहीति निदर्शने। खलु इति निषेधवाक्यालङ्कारनिश्चयेषु। किलेति वार्तायामलीके च। अथो अथेति मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु। अयं स्वरादावपि। तेन मङ्गलवाचकस्य सत्त्वार्थत्वेऽप्यव्ययत्वं सिध्यति। अतएव श्रीहर्षः--उदस्य कुम्भरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरि। यथाकुलाचारमथाऽवनीन्द्रजां पुरन्ध्रविर्गः स्नपयाम्बभूव ताम्`इति। अत्र हि `अथ स्नपयांबभूवे`त्यस्य मङ्गलस्नपनं चकारेत्यर्थः। निपातस्तु स्वरूपेणैवः मङ्गलं मृदङ्गध्वनिवत्। सुष्ठु--स्वरभेदार्थपाठः। स्मेत्यतीते पाजपूरणे च। आदहेत्युपक्रमहिंसाकुत्सनेषु। `आदह स्वधामन्नि`त्यत्र तु पदकारा `आ`दिति पृथक् पदं पठन्ति। अवदत्तमिति। इह अवस्यानुपसर्गत्वात् `अच उपसर्गात्तः`इति न भवति। अहमिति सुबन्तप्रतिरूपकमहङ्कारे। एवं `गेये केन विनीतौ वा`मिति। युवामित्यर्थः। सुबन्तप्रतिरूपकमव्ययम्। अस्तीति तु तिङन्तप्रतिरूपकम्। एवं `त्वामस्मि वाच्मी`त्यत्राऽस्मीत्यहमर्थे तिङन्तप्रतिरूपकम्। आहेत्युवाचेत्यर्थे। आसेति बभूवएत्यर्थे। ---इत्यादि बोध्यम्। अहंयुरिति। `अहंशुभमोर्युस्`। यदि तु `त्वाहौ सौ`इति मपर्यन्तस्याऽहादेशे शेषलोपे च कृते निष्पन्नो योऽहंशब्दस्तस्माद्यस्प्रत्ययः क्रियते तर्हि सुपो लुकि अस्मद्युसिति स्थिते मदीय इत्यत्रेव मपर्यन्तस्य मादेशे सति `मद्यु`रिति स्यादिति भावः। अस्तिक्षीरेति। तिङन्तत्वे तु बहुव्रीहिसमासो[ऽयं]नोपपद्यत इत् भावः। अ इति संबोधनेऽधिक्षेपे निषेधे च। आ इति वाक्यस्मरणयोः। `इ`संबोधनजुगुप्साविस्मयेषु। ई उ ऊ ए ऐ ओ औ संबोधने। पशु सम्यगर्थे। `पशु मन्यमानाः`। शुकं---शैध्ये। यथाकथाचेत्यानादरे। पाट्प्रभृतयः सप्त संबोधने। द्येति हिंसाप्रतिलोभ्यपादपुरणेषु। विषु--नानार्थे। एकपदे---इत्यकस्मादित्यर्थे। युत्--कुत्सायाम्। आत इति---इतोऽपीत्यर्थे। आकृतिगण इति। तद्यथा--यत्तदिति हेतौ। आहोस्विद्विकल्पे। सीम---सर्वतोभावे। शुकम्--अतिशये। अनुकं वितर्के। शम्बट्--अन्तःकरणे आभिमुख्ये च। व पादपूरणे इवार्थे च। दिष्ट�एत्यानन्दे। चटु चाटु प्रियवाक्ये। हुमिति भत्र्सने। इवेति सादृश्ये। अद्यत्वे इति इदानीमित्यर्थे इत्यादि। अत्र स्वरादिचाद्योराकृतिगणत्वाऽविशेषेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तूङयत्रबोध्यः।
लघुसिद्धान्तकौमुदी
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः। स्वर्। अन्तर्। प्रातर्। पुनर्। सनुतर्। उच्चैस्। नीचैस्। शनैस्। ऋधक्। ऋते। युगपत्। आरात्। पृथक्। ह्रस्। श्वस्। दिवा। रात्रौ। सायम्। चिरम्। मनाक्। ईषत्। जोषम्। तूष्णीम्। बहिस्। अवस्। समया। निकषा। स्वयम्। वृथा। नक्तम्। नञ्। हेतौ। इद्धा। अद्धा। सामि। वत्। ब्राह्मणवत्। क्षत्रियवत्॥ सना। सनत्। सनात्। उपधा। तिरस्। अन्तरा। अन्तरेण। ज्योक्। कम्। षम्। सहसा। विना। नाना। स्वस्ति। स्वधा। अलम्। वषट्। श्रौषट्। वौषट्। अन्यत्। अस्ति। उपांशु। क्षमा। विहायसा। दोषा। मृषा। मिथ्या। मुधा। पुरा। मिथो। मिथस्। प्रायस्। मुहुस्। प्रवाहुकम्, प्रवाहिका। आर्यहलम्। अभीक्ष्णम्। साकम्। सार्धम्। नमस्। हिरुक्। धिक्। अथ। अम्। आम्। प्रताम्। प्रशान्। प्रतान्। मा। माङ्। आकृतिगणोऽयम्।ँह। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। भूयस्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिः। माकिम्। नकिः। नकिम्। माङ्। नञ्। यावत्। तावत्। त्वे। द्वै। त्वै। रै। श्रौषट्। वौषट्। स्वाहा। स्वधा। वषट्। तुम्। तथाहि। खलु। किल। अथो। अथ। सुष्ठु। स्म। आदह। (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च)। अवदत्तम्। अहंयुः। अस्तिक्षीरा। अ। आ। इ। ई। उ। ऊ। ए। ऐ। ओ। औ। पशु। शुकम्। यथाकथाच। पाट्। प्याट्। अङ्ग। है। हे। भोः। अये। द्य। विषु। एकपदे। युत्। आतः। चादिरप्याकृतिगणः॥तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। अम्। आम्। कृत्वोर्थाः। तसिवती। नानाञौ। एतदन्तमप्यव्ययम्॥
महाभाष्यम्
स्वरादिनिपातमव्ययम् किमर्थं पृथग् ग्रहणं स्वरादीनां क्रियते, न चादिष्वेव पठ्येरन्। चादीनां वै असत्त्ववचनानां निपातसञ्ज्ञा । स्वरादीनां पुनः सत्त्ववचनानामसत्त्ववचनानां च। अथ किमर्थमुभे संज्ञे क्रियेते, न निपातसंज्ञैव स्यात्। नैवं शक्यम्। निपात एकाजनाङ् इति प्रगृह्यसंज्ञोक्ता सा स्वरादीनामप्येकाचां प्रसज्येत। क्व इव क्वेव। एवं तर्ह्यव्ययसंज्ञैवास्तु। तच्चाशक्यम्। वक्ष्यत्येतत्- अव्यये नञ्ञ्कुनिपातानामिति। तद् गरीयसा न्यासेन परिगणनं कर्तव्यं स्यात्। तस्मात् पृथग्ग्रहणं कर्तव्यम्। उभे च संज्ञे कर्तव्ये।।37।।