॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|34
SK 218
1|1|34
पूर्वपरावरदक्षिणोत्तरापराधराणि
SK 218
सूत्रच्छेद:
पूर्व-पर-अवर-दक्षिण-उत्तर-अपर-अधराणि - प्रथमाबहुवचनम् , व्यवस्थायाम् - सप्तम्येकवचनम् , असंज्ञायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर - इत्येषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषा आरभ्यते । पूर्वादीनि विभाषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायाम् असंज्ञायाम् । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । पूर्वे, पूर्वाः ; परे, पराः ; अवरे, अवराः ; दक्षिणे, दक्षिणाः ; उत्तरे, उत्तराः ; अपरे, अपराः ; अधरे, अधराः । व्यवस्थायाम् इति किं ? दक्षिणा इमे गाथकाः - प्रवीणाः इत्यर्थः । असंज्ञायाम् इति किम् ? उत्तराः कुरवः । सत्याम् एव व्यवस्थायाम् इयं तेषां संज्ञा ॥
`असंज्ञायाम्` इति। संज्ञायामसत्याम् पूर्वादयश्चेत् संज्ञारूपा न भवन्ती-त्यर्थः। `स्वाभिधेयापेक्ष` इत्यादि अवधिर्मर्यादा,तस्य नियमोऽवश्यम्भावः; अवधिभा-वादभ्रंशः।किंविशिष्टोऽवधिनियमः? स्वाभिधेयापेक्षः ह्रर्थानाम्- पूर्वादिशब्दाभिधयानां यत् पूर्वादित्वम्, तन्नियोगतः कञ्चनावधिमपक्ष्य सम्पद्यते, न त्ववधिनिरपेक्षम्; यथा- पूर्वदेशस्य यत् पूर्वत्वम्,तत्परं देशमपेक्ष्य भवति; परस्यापि यत् परत्वम्, तत् पूर्वदेशम्; तस्मात् पूर्वादिशब्दवाच्यापेक्षेणावश्यं केनचिदवधिना भाव्यम्। तत्र तस्यैवावधेः यः पूर्वादिशब्दार्थापेक्षोऽवधिभाव ऐकान्तिकः, स नियमो व्यवस्था, तस्यां गम्यमानायां पूर्वादीनां शब्दानां स्वाभिधेय एव वत्र्तमानानामियं संज्ञा भवति; न तु वाच्यायाम्। यो हि पूर्वादिशब्दाभिधेयादन्यस्यार्थस्यावधिभूतस्यनियमः, स कतं पूर्वादिशब्दवाच्यो भविष्यति!`पूर्वे,पर्वाः` इति। अत्र परसमादेवावधेरिति गम्यते। `परे,पराः`इति। पूर्व-स्मादेवावदेरिति गम्यते। `प्रवीणाः` इति। कुशला इत्यर्थः। अत्र प्रावीण्यमात्रेण निमित्तेनावधिनिरपेक्ष एव दक्षिणशब्दो वत्र्तत इति व्यवस्था न गम्यते। `सत्यामेव`इत्यादि। जम्बूद्वीपं वावधिमपेक्ष्य तत्रोत्तरशब्दो वत्र्तत इति विद्यत एव व्यवस्था।
असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं दिक्कालयोरपि द्रष्टव्यम् । तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति, न तु वाच्यायाम् । प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥
सिद्धान्तकौमुदी
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥
अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे--पूर्वपरा। `सर्वानामानी`ति`विभाषा जसी`ति चानुवर्तते। तदाह--एतेषामिति। पूर्वादिसप्तानामित्यर्थः। गण इति। सर्वादिगण इत्यर्थः। या प्राप्तेति। `सर्वादीनि`त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः। अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम्। अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम्। स्वाभिधेयेति। अपेक्ष्यत इत्यपेक्षः। कर्मणि घ??। स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति। व्यवस्थायां किमिति। पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः। दक्षिणा गाथका इति। अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः। दक्षिणपार्�आवर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह--कुशला इत्यर्थ इति। यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापि `उत्तरे प्रत्युत्तरे च शक्त` इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः। असंज्ञायां किमिति। `संज्ञोपसर्जनीभूतास्तु न सर्वादयः` इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः। उत्तराः कुरव इति। कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः। सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था। किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता। पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः। कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते। केचित्त्वसंज्ञायामित्यस्या।ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः।
पूर्वपरावरेत्यादिना। स्वाभिधेयेति। स्वस्य पूर्वादिशब्दस्याऽभिधेयेनापेक्ष्यमाणस्यावधेर्नियम इत्यर्थः। अपेक्ष्यते इत्यपेक्षः। कर्मणि घञ्। कथं तर्हि `दिशः सपत्नी भव दक्षिणस्या` इति ?। अत्राहुः-अस्त्येवात्रापि व्यवस्था, प्रसिद्धत्वान्नावधिवाची शब्दः प्रयुज्यते। न च संज्ञात्वान्निषेधः। आधुनिकसङ्केतो हि संज्ञा, न च दिक्षु साऽस्तीति। `दिक्षु चिरन्तनः, कुरुष त्वाधुनिकः सङ्केत` इत्यत्र तु व्यख्यातृवचनमेव प्रमाणम्। एतेन `वि�ओषां देवाना`मिति व्याख्यातम्, वेदे प्रसिद्धत्वाद्देवगणविशेषे वि�आशब्दस्याधुनिकसङ्केताऽभावात्। दक्षिणा गाथका इति। `गस्थक`निति शिल्पिनि थकन्। इहामुकस्मात्कुशला इत्यवध्यन्वयसंभवेऽपि तन्नियमो नास्तीति भावः। एवम`धरे ताम्बूलरागः, `उत्तरे प्रत्यत्तरे च शक्तः` इत्यपि प्रत्युदाहर्तव्यम्। उत्तराः कुरव इति। सुमेरुमवधिमपेक्ष्य कुरुषु उत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किं त्वाधुनिकसङ्केतोऽयमित्याहुः।
लघुसिद्धान्तकौमुदी
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम्? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
महाभाष्यम्
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम् ।। अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात् ।।। अवरादीनां च पुनः सूत्रपाठे ग्रहणमनर्थकम्। किं कारणम्? गणे पठितत्वात्। गणे ह्येतानि पठ्यन्ते। कथं पुनर्ज्ञायते स पूर्वः पाठः। अयं पुनः पाठ इति। तानि हि पूर्वादीनि। इमान्यवरादीनि। इमान्यपि पूर्वादीनि। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति स पूर्वः पाठः। अयं पुनः पाठ इति। यदयं पूर्वादिभ्यो नवभ्यो वेति नवग्रहणं करोति। नवैव हि पूर्वादीनि। इदं तर्हि प्रयोजनम् ‐ -व्यवस्थायामसञ्ज्ञायाम् इति वक्ष्यामीति। एतदपि नास्ति प्रयोजनम्। एवं विशिष्टान्येवैतानि गणे पठ्यन्ते। इदं तर्हि प्रयोजनम्। द्वयादिपर्युदासेन पर्युदासो मा भूदिति। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति ‐ - नैषां द्व्यादिपर्युदासेन पर्युदासो भवतीति। यदयं ‐ पूर्वत्रासिद्धमिति निपातनं करोति। वार्तिककारश्च पठति ।। जश्भावादिति चेदुत्तरत्राभावादपवादप्रसङ्ग इति ।। । इदं तर्हि प्रयोजनम्, जसि विभाषां वक्ष्यामीति ।