`सर्वनामसंज्ञायाम्` इत्यादि। कथं पुरेतदवगतम्- अभ्युपगतस्तदन्तविधिरिति? अत एव प्रतिषेधात्, अन्यथा हि निष्फलः प्रतिषेधः स्यात्। तदन्तविध्यभ्युपगमे हि `परमसर्वस्मै उत्तमसर्वस्मै` इत्यत्रापि संज्ञा यथा स्यात्। `इह च` इत्यादि। अस्य `प्रतिषेध आरभ्यते` इत्यनेन सम्बन्धः। `त्वं पिताऽस्य, अहं पिताऽस्य` इति विगृह्र बहुव्रीहौ कृतेऽज्ञाताद्यर्थविवक्षायाम् असति प्रतिषेधे। `अव्ययसर्वनाम्नामकच् प्राक् टेः`
5|3|71 इत्यत्राकच् प्रसज्येत। ततश्च `त्वकत्पित-कः, मकत्पितृकः` इत्यनिष्टं रूपं स्यात्। तस्मादकज् मा भूदिति प्रतिषेद आरभ्यते। तेन `प्रागिवात् कः`
5|3|70 इति क एव भवति। तत्र परतः `प्रत्ययोत्तरपदयोश्च`
7|2|98 इति मपर्यन्त-र्योर्युष्मदस्मदोस्त्वमयोः कृतयोः `नद्यृतश्च`
5|4|153 इति समासान्ते कपि च `त्वत्कपितृकः, मत्कपितृकः` इति सिद्ध्यति। ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकज् न भविष्यति-न ह्रत्र सर्वार्थता सम्भवति, विशेषविषयत्वात्, नैतदस्ति;समुदायो हि विशेषे वत्र्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवत्वनयोरनन्तरयो-रुदाहरणयोरेतत्सूत्रविषयता, `प्रियिआआय` इत्यादिस्तु नपपद्यते; न हि प्रियविआआदयः शब्दाः सर्वेषां नामानि नापि तदवयवभूतानां विआआदिशब्दानां किञ्चित् सर्वनामका-र्यममुपपद्यते; स्मैप्रभृतीनामङ्गकार्यत्वात्, विआआदिशब्दानां चानङ्गत्वात्? एवं मन्यते- `त्वत्कपितृकः, कत्कपितृकः` इत्यत्राकज् मा भूदिति, एतदर्थं तावदेतदार-ब्धव्यम्, `प्रियविआआय` इत्येवमादावपि विस्पष्टार्थं भविष्यतीति।अथ `बहुव्रीहौ` इति वत्र्तमाने किमर्थं पुनर्बहुव्रीहग्रहणमित्याह- `बहुव्रीहौ` इत्यादि। `वस्त्रान्तरवसनान्तराः` इति। वस्त्रमन्तरं येषामिति बहुव्रीहि कृत्वा वस्त्रान्तराश्च वसनान्तराश्चेति द्वन्द्वः कृतऋ। अत्र वत्र्तमा-नत्वाद् द्वन्द्वस्य `द्वन्द्वे च`
1|1|60 , `विभाषा जसि`
1|1|31 इति द्वन्द्वा-श्रितो विभाषाप्रतिषेधः स्यात्, न नित्यो बहुव्रीह्राश्रितः। पुनर्बहुव्रीहिग्रहणा-त्तु भूतपूर्वस्यापि बहुव्रीहेराश्रयमात् तदाश्रयो नित्यः प्रतिषेधो भवति। वसनशब्द-श्चात्र वसत्यस्मिन्नित्यधिकरणसाधनो गृहे वत्र्तते, न वस्त्रे; अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पर्यायत्वाद् द्वन्द्वो न स्यात्, `तुल्यार्थाञ्च विरुपाणामेकशेषः` इत्येकशेषविधानात्।