॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|28
SK 292
1|1|28
विभाषा दिक्समासे बहुव्रीहौ   🔊
SK 292
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम् , दिक्समासे - सप्तम्येकवचनम् , बहुव्रीहौ - सप्तम्येकवचनम्
अनुवृत्ति:
सर्व-आदीनि सर्वनामानि - प्रथमाबहुवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
न बहुव्रीहौ 1|1|29 इति प्रतिषेधं वक्ष्यति । तस्मिन् नित्ये प्रतिषेधे प्राप्ते विभाषेयम् आरभ्यते । दिशां समासः दिक्समासः । दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसंज्ञानि भवन्ति - उत्तरपूर्वस्यै, उत्तरपूर्वायै ; दक्षिणपूर्वस्यै, दक्षिणपूर्वायै । दिग्ग्रहणं किम् ? न बहुव्रीहौ 1|1|29 इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा, क्व प्रतिषेधः इति । दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेधः इति । समासग्रहणं किम् ? समास एव यो बहुव्रीहिः, तत्र विभाषा यथा स्यात् । बहुव्रीहिवद् भावेन यो बहुव्रीहिः, तत्र मा भूत् - दक्षिणदक्षिणस्यै देहि । बहुव्रीहौ इति किम् ? द्वन्द्वे विभाषा मा भूत् - दक्षिणौत्तरपूर्वाणाम् इति द्वन्द्वे च 1|1|32 इति नित्यं प्रतिषेधो भवति ॥
`दिगुपदिष्टे` इति। दिशामुपदिष्ट उक्तो दिगुपदिष्टः। स पुनः`दिङनामान्यन्तराले` 2|2|26 इति यः समासस्तस्यात्र ग्रहणम्। स पुनर्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते। प्रतिपदोक्तसमासाश्रयणं तु या पूर्वा दिक् सोत्तराऽस्योन्मु-ग्धस्य, `अस्मै पूर्वोत्तराय देहि` इत्यत्रा मा भूत्। `उत्तरपूर्वस्मै` इति।उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति पूर्वोक्तेन सूत्रेण बहुव्रीहिः, `सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः` (जै।प।वृ।103) इति पूर्वपदस्य पुंवद्भावः, चतुर्थ्येकवचनम्, `सर्वनाम्नः स्याड्ढ्रस्वश्च` 7|3|114 इति याट्, `आटश्च` 6|1|87 इति वृद्धिः।`समासग्रहणं किम्` इति। यावता न बहुव्रीहिः समासत्वं व्यभिचरत्येव, ततोऽपार्थकं विसेषणमित्यभिप्रायः। `समास एव यो बहुव्रीहि` इति। यस्यातिदेशेन बहुव्रीहिवद्भावो न विधीयते स वेदितव्यः समास एव बहुव्रीहिरिति। स पुनर्यः समासाधिकारे विहितः। `बहुव्रीहिवद्भावेन` इति। यस्यातिदेशिकं बहुव्रीहित्वं स बहुव्रीहिवद्भावेनबहुव्रीहिः। `दक्षिणदक्षिणस्यै` इति। `एकं बहुव्रीहिवत्` 7|1|9 इत्यतो बहुव्रीहिवदिति वत्र्तमाने `आबाधे च` 8|1|10 इति दक्षिणाशब्दस्य द्विर्वचनम्। बहुव्रीहि-वद्भावाच्च सुब्लुक्। अयं बहुव्रीहिवद्भावेन बहुव्रीहिरिति विभाषा न प्रवत्र्तते। योऽपि `न बहुव्रीहौ` 1|1|28 इति वक्ष्यमाणः प्रतिषेधः सोऽपीह न भवति; तत्रापि समासाधिकारात। `दक्षिणोत्तरपूर्वाणाम्` इति। अत्र `द्वन्द्वे च` 1|1|30 इति नित्य एव प्रतिषेधो भवति, तेन पक्षे सुण्न भवति। यद्येवम्, `सर्वनाम्नो वृत्तिमात्रे` (जै।प।वृ103) इति पुंवद्भावोऽत्र न स्यात्; नैतदस्ति; अवयवस्याद्वन्द्वत्वात्। ननु विनाऽपि बहुव्रीहिग्रहणेनात्र `द्वन्द्वे च` 1|1|30 इति प्रतिषेधेन भाव्यमेव; तदपार्थकं बहुव्रीहिग्रहणम्, नैतदस्ति; यो हि दिग्द्वन्द्वो न भवति स तस्य विषयः स्यात्। दिग्द्वन्द्वे त्वसति बहुव्रीहिग्रहणे एषैव विभाषा स्यात्। तस्माद्बहुव्री-हिग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्। कस्मान्न भवति? `दक्षिणोत्तरपूर्वाणाम्` इत्यत्र प्रतिपदोक्तसमासस्येह ग्रहणात्। एवं तर्ह्रुत्तरार्थं बहुव्रीहिग्रहणम्। `न वहुव्रीहौ` 1|1|28 इत्यत्रास्य प्रयोजनं वक्ष्यति। वृत्तिकारस्य त्वेषोऽभिप्रायः- `उत्तरार्थमवश्यकत्र्तव्यम्, तदुत्तरार्थं कृतमिहापि स्पष्टार्थं भविष्यति` इति।
अत्र समासावयवानां सर्वादीनां संज्ञा विकल्प्यत इत वृतौ लक्ष्यते, यथाह- दिगुपदिष्ट इत्यादि । दिशामुपदिष्ट उक्ते "दिङ्नामान्यतराले" इत्यस्मिन्समासेऽवयवत्वेन वर्तमानानीत्यर्थः । न चावयवानां संज्ञाविकल्पे किञ्चित्प्रयोजनमस्ति, स्मायादिकं तावदङ्गाश्रयम्, काकचोश्च नास्ति विशेषः, दिग्वाचिनामकारान्तत्वात् । शर्वनाम्नो वृत्तिमात्रे" इति पूर्वपदस्य पुंवद्भावोषऽपि न प्रयोजनम्, तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां संप्रत्यसर्वनामत्वेऽपि यथा स्यात्, तथा च दक्षिणपूर्वाया इति संज्ञाभावपक्षेऽपि भवति । स्यादेतत्--अवयवानामेव संज्ञा, कार्यं तु "अङ्गाधिकारे तस्य च तदुतरपदस्य च" इति । एवमपि दक्षिणपूर्वतः, दक्षिणपूर्वत्रत्यत्र तसिलादयो न स्युः; तस्मात्सर्वाद्यन्ते बहुव्रीहौ संज्ञा विकल्प्यते । "सर्वादीनि" इत्ययं तु वृत्तिग्रन्थः शर्वाद्यन्ते प्रवर्तमाना संज्ञा सर्वादीन्यपि गोचरयति" इत्येवंपरो व्याख्येयः । यद्वा--अवयवानां संज्ञाविधानेन तदन्तस्यापि सिद्ध्यति, तदन्तविधेरभ्युपगमादिति । समासग्रहणं किमिति । न बहुव्रीहिः समासत्वं व्यभिचरतीति प्रश्नः । दक्षिणदक्षिणस्यै इति । "एकं बहुव्रीहिवत्" इत्यनुवृतौ "आबाधे च" इति दक्षिणशब्दस्य द्विर्वचनम् ङ बहुव्रीहौ" इत्ययमपि निषेधो न भवति, तत्रापि समासाधिकारात् । दक्षिणोतरपूर्वाकणामिति । असति बहुव्रीहिग्रहणे यथा ङ बहुव्रीहौ" इति प्रतिषेधं बाधते, एवं "द्वन्द्वे च" इत्येतमपि बाधेत । अथ क्रियमाणऽपि बहुव्रीहिग्रहणे या पूर्वा सोतरा यस्योन्मुग्धस्य तस्मै पूर्वोतराय देहीत्यत्र कस्मान्न भवति ? प्रतिपदोक्तो यो दिक्समासः-"दिङ्नामान्यन्तराले" इति, तस्य ग्रहणम् । यद्येवम्, तत एव हेतोर्द्वन्द्वे न भविष्यति ? सत्यम्; उतरार्थमवश्यं कर्तव्यं बहुव्रीहिग्रहणमिहापि विस्पष्टार्थं भविष्यतीति मन्यते ॥
सिद्धान्तकौमुदी
अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥
तत्र विशेषं दर्शयितुमाह--विभाषा दिक्समासे। `सर्वादीनी`त्यतः `सर्वनाम`ग्रहणमनुवर्तते। तदाह--अत्रेति। दिक्समासे इत्यर्थः। `न बहुव्रीहौ` इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित्। गौणत्वादप्राप्ते विभाषेयमित्यन्ये। सर्वनामत्वपक्षे उदाहरति--उत्तरपूर्वस्यै इति। स्याड्ढ्रस्वौ। उत्तरपूर्वायै इति। सर्वनामत्वाऽभावपक्षे याट्। उत्तरपूर्वायाः-उत्तरपूर्वस्याः। उत्तरपूर्वासाम्--उत्त्रपूर्वाणाम्। उत्तरपूर्वस्याम्--उत्तरपूर्वायाम्। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः` इति मात्रग्रहणात्संप्रत्यसर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम्। ननूत्तरा दिगिति गत्वा मोहवशात्पूर्वा दिक् यस्याः सा उत्तरपूर्वा। `अनेकमन्यपदार्थ` इति बहुव्रीहिः। अत्रापि दिक्शब्दघटितसमासत्वात्सर्वनामताविकल्पे उत्तरपूर्वस्यै--उत्तरपूर्वायै इति रूपद्वयं स्यात्। स्याडागमस्तु नेष्यते। तत्राह--दिङ्नामानीति। `दिङ्नामान्यन्तराले` इति बहुव्रीहिः प्रतिपदोक्तो दिक्समासः, दिक्शब्दमुच्चार्यं विहितत्वात्। नतु `अनेकमन्यपदार्थे ` इति बहुव्रीहिरपि। ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्येह ग्रहणमित्यर्थः। योत्तरेति। उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छब्दौ। सामानाधिकरण्याऽभावे `अनेकमन्यपदार्थे` इति बुहुव्रीहेरसंभवात्, `बहुव्रीहिः समानाधिकरणानां वक्तव्य)` इति वचनात्। उन्मुग्धाया इति। तेन पूर्वोत्तरयोर्विरोधात्कथं सामानादिकरण्यमिति शङ्का निरस्ता। ननु `विभाषा दिक्समासे` इत्येवास्तु, बहुव्रीहिग्रहणं न कर्तव्यं, प्रतिपदोक्तत्वेन `दिङ्नामानी`ति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह--बहुव्रीहिग्रहणं स्पष्टार्थंमिति। बाह्यायै इत्यर्थ इति। `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि चे`ति कोशात्। अर्थान्तरपरत्वेन तु सर्वनामत्वाऽभावान्न स्यादिति भावः। अपुरीत्युक्तेरिति। `अन्तरं बहिर्योगेति गणसूत्रे` इति शेषः।
वभाषा दिक्समासे। गौणत्वादप्राप्ते विभाषेयं, न तु `न बहुव्रीहा`विति निषेधे प्राप्ते इति भ्रमितव्यम्। तंस्याऽलौकिकप्रक्रियावाक्यान्तर्गतसर्वादिविषयत्वादस्य च समासविषयत्वात्। स्पष्टार्थमिति। प्रतिपदोक्समासविधायके `दिङामानी`ति सूत्रे `शेषो बहुव्रीहि`रित्यतो `बहुव्रीहि`रित्यधिकारादिति भावः।
लघुसिद्धान्तकौमुदी
सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥
महाभाष्यम्
विभाषा दिक्समासे बहुव्रीहौ दिक्ग्रहणं किमर्थम् ? न बहुव्रीहाविति प्रतिषेधं वक्ष्यति। तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेध इति। दिग्ग्रहणे पुनः क्रियमाणे न दोषो भवति। दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः। अथ समासग्रहणं किमर्थम् ? समास एव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति। दक्षिणदक्षिणस्यै देहि। अथ बहुव्रीहिग्रहणं किमर्थम् ? द्वन्द्वे मा भूत्। दक्षिणोत्तरपूर्वाणाम् इति। नैतदस्ति प्रयोजनम्। द्वन्द्वे चेति प्रतिषेधो भविष्यति। नाप्राप्ते प्रतिषेधे इयं विभाषा आरभ्यते सा यथैव न बहुव्रीहावित्येतं प्रतिषेधं बाधते एवं द्वन्द्वे चेत्येतमपि बाधेत। न बाधेत। किं कारणम्। येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते न बहुव्रीहावित्येतस्मिन् प्रतिषेधे इयं विभाषा आरभ्यते। द्वन्द्वे चेत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च। अथवा पुरस्तादपवादा अनन्तरान् विधीन्नोत्तरानि इत्येवमियं विभाषा न बहुव्रीहावित्येतं प्रतिषेधं बाधिष्यते, द्वन्द्वे चेत्येतं प्रतिषेधं न बाधिष्यते। अथवा इदं तावदयं प्रष्टव्यः, इह कस्मान्न भवति या पूर्वा सोत्तरा अस्योन्मुग्धस्य सोऽयं पूर्वोत्तर उन्मुग्धः। तस्मै पूर्वोत्तराय देहीति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। यद्येवं नार्थो बहुव्रीहिग्रहणेन। द्वन्द्वे कस्मान्न भवति। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति। उत्तरार्थं तर्हि बहुव्रीहिग्रहणं कर्तव्यम्। न कर्तव्यम्। क्रियते तत्रैव न बहुव्रीहाविति। द्वितीयं कर्तव्यम्। बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूत्। एकैकस्मै देहि। एतदपि नास्ति प्रयोजनम्। समास इति वर्तते तेन बहुव्रीहिं विशेषयिष्यामः। समासो यो बहुव्रीहिरिति। इदं तर्हि प्रयोजनम्। अवयवभूतस्यापि बहुव्रीहेः प्रतिषेधो यथा स्यात्। इह मा भूत्। वस्त्रमन्तरमेषां त इमे वस्त्रान्तराः। वसनमन्तरमेषां त इमे वसनान्तराः। वस्त्रान्तराश्च वसनान्तराश्च वस्त्रान्तरवसनान्तराः।