॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|23
SK 258
1|1|23
बहुगणवतुडति संख्या   🔊
SK 258
सूत्रच्छेद:
बहु-गण-वतु-डति - प्रथमैकवचनम् , संख्या - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
बहु-गण-वतु-डति संख्या
सूत्रार्थ:
बहु-शब्दः, गण-शब्दः, वतु-प्रत्ययान्तशब्दः, डति-प्रत्ययान्तशब्दः च संख्यासंज्ञां प्राप्नुवन्ति ।
अनेन सूत्रेण "संख्या" इति संज्ञा दीयते । बहु-शब्दस्य, गण-शब्दस्य, वतु-प्रत्ययान्त-शब्दस्य, डति-प्रत्ययान्त-शब्दस्य च अनेन सूत्रेण "संख्या" इति संज्ञा भवति ।
एतेषां शब्दानां विषये किञ्चित् अधिकम् ज्ञातव्यम् -

"बहु" शब्दः -
अस्य शब्दस्य अर्थद्वयम् अस्ति । बहु इत्युक्ते अनेके (यथा - "वृक्षे बहूनि फलानि सन्ति"), तथा बहु इत्युक्ते विपुलम् (यथा - "नद्यां बहु जलं दृश्यते") । एतयोः केवलं "अनेके" अस्मिन् अर्थे एव बहुशब्दस्य सङ्ख्यासंज्ञा भवति । "विपुलम्" इत्यस्मिन् अर्थे न भवति ।

"गण" शब्दः -
अस्यापि शब्दस्य अर्थद्वयम् अस्ति । गण इत्युक्ते गणना (यथा - "तारकानां गणं न कर्तुं शक्यते" ।), तथा गण इत्युक्ते सङ्घः (यथा - "संस्कृतस्य छात्राणां अयम् गणः") । एतयोः केवलं "गणना" अस्मिन् अर्थे एव गणशब्दस्य सङ्ख्यासंज्ञा भवति । "सङ्घ" इत्यस्मिन् अर्थे न भवति ।

वतुप्-प्रत्ययः
"वतुप्" इति कश्चन तद्धितप्रत्ययः । यद्तदेतेभ्यः परिमाणे वतुप् 5|2|39 इत्यनेन यद् / तद् इत्येतयोः वतुप्-प्रत्ययः विधीयते , याभ्यां "यावत्" / "तावत्" एतौ शब्दौ सिद्ध्यतः । किमिदंभ्यां वो घः 5|2|40 इत्यनेन किम् / इदम् इत्येतयोः वतुप्-प्रत्ययः विधीयते, याभ्यां "कियत्", "इयत्" एतौ शब्दौ सिद्ध्यतः । एतेषां सर्वेषाम् अपि सङ्ख्यासंज्ञा भवति ।

डति-प्रत्ययः
"डति" इत्यपि एकः तद्धितप्रत्ययः । किमः सङ्ख्यापरिमाणे डति च 5|2|41 इत्यनेन किम्-शब्दात् डति-प्रत्ययः विधीयते, तेन च कति शब्दः सिद्ध्यति । अस्य शब्दस्यापि "सङ्ख्या" संज्ञा भवति ।

अत्र एकः विशेषः ज्ञातव्यः । एक / द्वि एतादृशाः सङ्ख्यावाचिनः शब्दाः अपि सङ्ख्यासंज्ञां स्वीकुर्वन्ति । तदर्थम् अष्टाध्याय्यां भिन्नं सूत्रम् नास्ति, यतः "सङ्ख्या" अयं शब्दः लौकिकभाषायां यस्मिन् अर्थे प्रयुज्यते तस्मिन् एव अर्थे व्याकरणशास्त्रे अपि प्रयुज्यते । अतः अष्टाध्याय्यां यत्र कुत्रापि "सङ्ख्या" इत्युक्तम् अस्ति, तत्र सर्वत्र एक / द्वि एतादृशाः सङ्ख्यावाचिनः शब्दाः अपि गृह्यन्ते, तथा अस्मिन् सूत्रे पाठिताः बहु-गण-आदयः शब्दाः अपि गृह्यन्ते ।

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः 6|3|47 , दिक्संख्ये संज्ञायाम्‌ 2|1|50 एतादृशेषु सूत्रेषु "संख्या" संज्ञायाः प्रयोगः कृतः अस्ति ।

विशेषः - भाष्यकारः अत्र द्वे वार्त्तिके अपि पाठयति । एताभ्यां वार्त्तिकाभ्यां केषाञ्चन शब्दानाम् केवलम् विशिष्टासु अवस्थासु एव सङ्ख्यासंज्ञा भवति (नित्यम् न) । एतानि वार्त्तिकानि एतादृशानि -

1. अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम् । इत्युक्ते, यस्य शब्दस्य पूर्वपदम् "अर्ध" इति शब्दः अस्ति, उत्तरपदम् च पूरणप्रत्ययान्तः शब्दः अस्ति, सः शब्दः नित्यम् सङ्ख्यासंज्ञकः न भवति, अपितु समासविधौ तथा कन्-प्रत्ययस्य प्रयोगे एव सङ्ख्यासंज्ञां प्राप्नोति । यथा - "अर्धपञ्चम" अस्य शब्दस्य विषये -
अ) "अर्धपञ्चमेन शूर्पेण क्रीतम्" अस्मिन् अर्थे द्विगुसमासस्य निर्माणे "अर्धपञ्चम" शब्दस्य सङ्ख्यासंज्ञा भवति, अतः च शूर्पादञन्यतरस्याम् 5|1|26 इत्यनेन विहितः अञ्-प्रत्ययः प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम् अनेन वार्त्तिकेन "अर्धपञ्चम"शब्दात् अपि भवति ।
अर्धपञ्चमेन शूर्पेन क्रीतम्
= अर्धपञ्चम + शूर्प + अञ्
→ अर्धपञ्चम + शूर्प [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इति लुक्]
→ अर्धपञ्चमशूर्पः ।
आ) "अर्धपञ्चमम् परिमाणम् अस्य" अस्मिन् अर्थे संख्याया अतिशदन्तायाः कन् 5|1|22 इत्यनेन कन्-प्रत्ययं कृत्वा "अर्धपञ्चमक" इति रूपम् सिद्ध्यति -
अर्धपञ्चम + कन्
→ अर्धपञ्चमक

एतौ द्वौ बिन्दू विहाय अन्यत्र "अर्धपञ्चम"शब्दस्य सङ्ख्यासंज्ञा न भवति । यथा, तस्य पूरणे डट् 5|2|48 इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः "अर्धपञ्चम" शब्दस्य विषये न प्रवर्तते ।

2. अध्यर्धग्रहणं च समासकन्विध्यर्थ - इत्युक्ते "अध्यर्ध" अयम् शब्दः अपि समासविधौ तथा कन्-प्रत्ययस्य प्रयोगे एव सङ्ख्यासंज्ञां प्राप्नोति । यथा -
अ) अध्यर्धेन शूर्पेण क्रीतम् अध्यर्धशूर्पम् ।
आ) अध्यर्धम् परिमाणम् अस्य तत् अध्यर्धकम् ।
अत्रापि प्रक्रिया पूर्ववदेव विद्यते ।

विशेषः - अस्य वार्त्तिकस्य आधारेणैव भाष्यकारः अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 अस्मिन् सूत्रे अध्यर्थग्रहणम् अनावश्यकम् अस्ति - इति प्रतिपादयति । काशिकाकारस्तु अत्र अध्यर्धग्रहणं च समासकन्विध्यर्थ एतत् वार्त्तिकमेव न पाठयति, अपितु अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यत्र अध्यर्धग्रहणस्य प्रयोजनम् "अध्यर्धशब्दस्य विशिष्ट-अवस्थासु सङ्ख्यासंज्ञा ज्ञेया" इति ज्ञापयति । अस्मिन् विषये अधिकम् पिपठिषवः अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इति सूत्रम् पश्येयुः ।
One-line meaning in English
The words बहु and गण, and the words ending in वतु and डति प्रत्यय are known as "संख्या".
काशिकावृत्तिः
बहु, गण, वतु, डति - इत्येते सङ्ख्यासंज्ञा भवन्ति । बहुकृत्वः, बहुधा, बहुकः, बहुशः, गणकृत्वः ; गणधा, गणकः, गणशः ; तावत्कृत्वः, तावद्धा, तावत्कः, तावच्छः ; कतिकृत्वः, कतिधा, कतिकः, कतिशः । बहुगणशब्दयोः वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव । भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासंज्ञा विधीयते । अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम् । अर्धपञ्चमशूर्पः - अर्धं पञ्चमं येषाम् इति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः । तद्धितार्थो.. [2।1।51] इति समासः । तत्र दिक्सङ्ख्ये संज्ञायाम् 2|1|50 इत्यनुवृत्तेस्ततः सङ्ख्यापूर्वस्य द्विगुसंज्ञायां 2|1|52 शूर्पादञन्यतरस्याम् 5|1|26 इति अञ् ठञ् च । अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इति लुक् । अर्धपञ्चमकः । सङ्ख्याप्रदेशाः सङ्ख्या वंश्येन 2|1|19 इत्येवम् आदयः ॥
अत्र बहुगणशब्दौ प्रातिपदिके, वतुडती प्रत्ययौ। `बहुकृत्वः` इति- `सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्` 5|4|17 । `बहुधा` इति- `सख्याया विधार्थे धा` 5|3|42 `बहुकः` इति- `सख्याया अतिशदन्तायाः कन्` 5|1|22 `तावत्कृत्वः` इत्यादि- तच्छब्दात् `यत्तदेतेभ्यः परिमाणे वतुप्` 5|2|39 इति वतुपि कृते `आ सर्वनाम्नः` 6|3|90 इत्यात्त्वे कृते `तावत्` इति भवति; किंशब्दात् किमः संख्यापरिमाणे डतौ कृते टिलोपे च `कति` इति भवति; ताभ्यां पूर्ववदेव कृत्वसुजादयः।`बहुगणशब्दयोः` इत्यादि। बहुशब्दोऽयं संख्यावचनोऽप्यस्ति, वैपुल्यवचनोऽपि; गणशब्दः संख्यावचनोऽप्यस्ति, सङ्घवचनोऽपि; तत्र यौ वैपुल्य्सङ्घवचनौ,तयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव तयोस्त्वेषा सङ्ख्यासंज्ञा विधीयते,तत्कथं संख्ये-त्यन्वर्थसंज्ञेयम्- संख्यायतेऽनया संख्या ! न च यो वैपुल्ये बहुशब्दो वत्र्तते,यश्च सङ्घे गणशब्दः, ताभ्यां संख्यायते। तथा हि- `बहुरोदनः` इत्युक्ते वैपुल्यंगम्यते; तथा `महान् भिक्षौउमां गणः` इत्युक्ते सङ्घः,न तु संख्यानम्। तस्मादन्वर्थसंज्ञाकरणाद् यावेकद्विसंख्याव्यवच्छेदेन संख्याविशेषमाहतुः, तयोरेव ग्रहणम्।यद्येवम्,किमर्थं तयोरियं संज्ञा विधीयते, यावता संख्यावाचिनौ तौ लौकिकसंख्यायामन्तर्भूतौ? लौकिकी च संख्या शास्त्रे गृह्रत एव; अन्यथा `संख्याया अतिशदन्तायाः कन्` 5|1|22 इत्यत्र `अतिशदन्तायाः` इति प्रतिषेधोऽनर्थकः स्यात्, शास्त्रीयायाः संख्याया अतिशदन्ताया अभावादित्यत् आह- `भूर्यादीनां निवृत्त्यर्थम्` इति। भूरि-प्रभूतमित्येवमादयस्तज्जातीयाः प्रचुरविशेषवाचिनः सन्ति, तेषां मा भूदित्येवमर्थबहुगणशब्दयोः संख्यासंज्ञा विधीयते। तदेतेन नियमार्थमेतयोः संज्ञाविधानमेतदिति दर्शयति। तुल्यजातीयापेक्षया हि नियमः। अतस्तुल्यजातीयानां भूर्यादीनामेव नियमेन व्यावृत्तिः क्रियते, नान्येषाम्।`अर्धपूर्वपदश्च` इति। अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस् सोऽर्ध-पूर्वपदः, स च संख्यासंज्ञो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह- `समासकन्विध्यर्थम्` इति। तत्रेदं व्याख्यानम्- `डति च` 1|1|24 इत्यत्र यश्चकारः, स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते। स चानुक्तसमुच्चयार्थः। तेनार्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति। अर्धपञ्चमशूर्पः` इति। अर्धं पञ्चमं येषामिति बहुव्रीहिः। अर्धपञ्चमैः शूर्पैः क्रीतमिति `तद्धितार्थोत्तरपदसमा-हारे च` 5|1|50 इति समासः। `संख्यापूर्वो द्विगुः` 2|1|51 इति द्विगुसंज्ञा। `शूर्पादञन्यतरस्याम्` 5|1|26 इति विहितस्याञष्ठञो वा `अध्यर्धपूर्वद्विगोर्लुग-संज्ञायाम्` 5|1|28 इति लुक्। `अर्धपञ्चकः` इति। `संख्याया अतिशदन्तायाः कन्` 5|1|22
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
एते सङ्ख्यासंज्ञाः स्युः ॥
अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण। बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः। एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः। फलितमाह-एते इति। बह्वादय इत्यर्थः। बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्येते। न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात्। वतुडती प्रत्ययौ। संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात्। वतुरिह `यत्तदेतेभ्यः परिमाणे वतु`विति तद्धितप्रत्ययो गृह्यते, न तु `तेन तुल्यं क्रिया चेद्वति`रिति वतिरपि, उकारानुबन्धात्। डतिरपि `किमः सङ्ख्यापरिमाणे डति च ` इति विहिस्ततद्धित एव गृह्यते, वतुना साहचर्यात्। न तु भातेर्डवतुरिति विहितः कृदपि। ननु `सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु`जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात्। न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि, `कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः` इति न्यायात्। ततश्च `पञ्चकृत्वः` इत्यादि न स्यादिति चेन्न, `सङ्ख्याया अतिशदन्तायाः कनि`त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात्। नहि विंशतितिं?रशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति। नचैवं सति बहुगणग्रहणवैयर्थ्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात्। अत एव भाष्ये `एतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह` इत्युक्तं सङ्गच्छते इत्यस्तां तावत्।
बहुगणवतु। बहुगणौ प्रतिपादके सङ्ख्यावाचके गृह्यते न तु सङ्घवैपुल्यवाचके अपि, सङ्ख्यायते अन्येत्यान्वर्थसंज्ञाविज्ञानात्। अत एव डतिरपि `किमः सङ्ख्यापरिमाणे डति चे`ति विहितस्तद्धित एव गृह्यते, `वतु`साहचर्याच्च. न तु `पातेर्डतिः`। यद्यपि संज्ञाविधौ प्रत्यग्रहणे तदन्तग्रहणं नास्ति तथापीह वतुडत्योः केवलयोः संज्ञाविधौ फलाऽभावादन्वर्थताबलाच्च तदन्तयोरेव संज्ञा प्रवर्तते। सानुवन्धनिर्देशस्तु `व्राहृणबद्वसति`रित्यदावतिप्रसङ्गशङ्कां निराकर्तुमित्याहुः। न चैवं सङ्ख्याकार्येषु कृत्वसुजादिषु कृत्रिमसङ्ख्याया एव ग्रहणं स्यान्न त्वकृत्रिमाया इति `पञ्चकृत्व`इत्यादि न सिध्येत्, कृत्रिमाऽकत्रिमयोः कृत्रिमे कार्यसंप्रत्ययादिति वाच्यम्; `सङ्ख्याया अतिशदन्तायाः क`न्नित्यत्रातिशदन्तपर्युदासबलेन सङ्ख्याकार्येषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तेः। नन्वेवं भूरिशब्दात्कृत्वसुच्प्रत्ययप्रसङ्ग इति चेदत्राहुः-`अनियतसङ्ख्यावाचिनां चेत्सङ्ख्याकार्यं स्यात्तर्हि वहुगणयोरेवे`त्येवंभूतनियमफलसङ्ख्याविज्ञानान्नास्त्यतिपर्सङ्ग इति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बहुगणवतुडति सङ्ख्या सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं संख्यासंप्रत्ययार्थम्। सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं कर्तव्यम्। बहुगणवतुडतयः सङ्ख्या सञ्ज्ञा भवन्ति, सङ्ख्या च सङ्ख्या सञ्ज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम्? सङ्ख्या सम्प्रत्ययार्थम्। एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्येत्येष सम्प्रत्ययो यथा स्यात्। ननु चैकादिका सङ्ख्या लोके सङ्ख्येति प्रतीता, तेनास्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययो भविष्यति। एवमपि कर्तव्यम्। किं प्रयोजनम्? इतरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद् यथा लोके। अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्येत्येष सम्प्रत्ययो न स्यात्। किं कारणम्। अकृत्रिमत्वात्। वह्वादीनां कृत्रिमा सञ्ज्ञा। कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति। यथा लोके। गोपालकमानय कटजकमानयेति यस्यैषा सञ्ज्ञा भवति स आनीयते न योगाः पालयति यो वा कटे जातः। यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति नदीपौर्णमास्याग्रहायणीभ्य इत्यत्रापि प्रसज्येत। पौर्णमास्याग्रहणसमार्थ्यान्न भविष्यति। तद्विशेषेभ्यस्तर्हि प्राप्नोति गङ्गायमुने इति। एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति न तद्विशेषेभ्यो भवतीति। यदयं विपाट् शब्दं शरत्प्रभृतिषु पठति। इह तर्हि प्राप्नोति ‐ - नदीभिश्चेति। बहुवचननिर्देशान्न भविष्यति। स्वरूपविधिस्तर्हि प्राप्नोति। बहुवचननिर्देशादेव न भविष्यति। एवं च न चेदमकृतं भवति ‐ - कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति। न च कश्चिद्दोषो भवति। उत्तरार्थं च। उत्तरार्थं च सङ्ख्याग्रहणं कर्तव्यम्। ष्णान्ता षट्। षकारनकारान्तायाः सङ्ख्यायाः षट् सञ्ञ्ज्ञां यथा स्यात्। इह मा भूत् ‐ पामानो विप्रुष इति। इहार्थेन तावन्नार्थः सङ्ख्याग्रहणेन। ननु चोक्तम् ‐ इतरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद् यथा लोके इति ।। नैष दोषः। अर्थात् प्रकरणाद्वालोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति। अर्थो वास्यैवंसञ्ञ्ज्ञकेन भवति प्रकृतं वा तत्र भवति। इदमेवंसञ्ञ्ज्ञकेन कर्तव्यमिति। आतश्चार्थात् प्रकरणाद्वा। अङ्ग हि भवान् ग्राम्यं पांशुरपादमप्रकारणज्ञमागतं ब्रवीतु ‐ गोपालकमानय कटजकमानयेति। उभयगतिस्तस्य भवति। साधीयो वा यष्टिहस्तं गमिष्यति। यथैव तर्ह्यर्थात्प्रकरणाद्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति एवमिहापि प्राप्नोति। जानाति ह्यसौ बह्वादीनामियं सञ्ज्ञा कृतेति। न यथा लोके तथा व्याकरणे। उभयगतिः पुनरिह भवति। अन्यत्रापि नावश्यमिहैव। तद्यथा कर्तुरीप्सिततमं कर्मेति कृत्रिमा कर्म सञ्ज्ञा। कर्मप्रदेशेषु चोभयगतिर्भवति ‐ कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम्। कर्तरि कर्मव्यतिहारे इत्यत्राकृत्रिमस्य। तथा ‐ - साधकतमं करणमिति कृत्रिमा करणसञ्ज्ञा। करणप्रदेशेषु चोभयगतिर्भवति। कर्तृकरणयोस्तृतीयेति कृत्रिमस्य ग्रहणम्। शब्दवैरकलहाभ्रकण्वमेघभ्यः करणे इत्यत्राकृत्रिमस्य। तथा ‐ आधारोऽधिकरणमिति कृत्रिमा अधिकरणसञ्ज्ञा। अधिकरणप्रदेशेषु चोभयगतिर्भवति। सप्तम्यधिकरणेचेति कृत्रिमस्य ग्रहणम्। विप्रतिषिद्धं चानधिकरणवाची त्यत्राकृत्रिमस्य। अथवा ‐ नेदं सञ्ज्ञाकरणं तद्वदतिदेशोऽयम्। बहुगणवतुडतयः सङ्ख्यावद् भवन्तीति। स तर्हि वतिनिर्देशः कर्तव्यः। न कर्तव्यः। न ह्यन्तरेण वतिमतिदेशो गम्यते । अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा ‐ एष ब्रह्मदत्तः। अब्रह्मदत्तं ब्रह्मदत्त इत्याह तेन मन्यामहे ब्रह्मदत्तवदयं भवतीति। एवमिहापि असख्यां सङ्ख्येत्याह। सङ्ख्यावदिति गम्यते। अथवाचार्यप्रवृत्तिर्ज्ञापयति भवत्येकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सम्प्रत्यय इति। यदयं सङ्ख्याया अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? न हि कृत्रिमात्यन्ता शदन्ता वा सङ्ख्यास्ति। ननु चेयमस्ति डतिः। यत्तर्हि शदन्तायाः प्रतिषेधं शास्ति। यच्चापि त्यन्तायाः प्रतिषेधं शास्ति। ननु चोक्तं इत्यर्थमेतत् स्यात्। अर्थवद्ग्रहणे नानर्थकस्येति अर्थवतस्तिशब्दस्य ग्रहणं, न च डतेस्तिशब्दोऽर्थवान्। अथवा महतीयं सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महात्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत। सङ्ख्यायते अनयेति सङ्ख्या। एकादिकया चापि सङ्ख्यायते। उत्तरार्थेन चापि नार्थः सङ्ख्याग्रहणेन। इदं प्रकृतमुत्तरत्रानुवर्तिष्यते। इदं वै सञ्ज्ञार्थमुत्तरत्र च सञ्ज्ञिविशेषणेनार्थः। न चान्यार्थे प्रकृतमन्यार्थं भवति। न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद् भवति। न हि गोधा सर्पन्ती सर्पणादहिर्भवति। यत्तावदुच्यते ‐ - न चान्यार्थं प्रकृतमन्यार्थं भवतीति। अन्यार्थमपि प्रकृतमन्यार्थं भवति। तद्यथा ‐ शाल्यर्थं कुल्याः प्रणीयन्ते। ताभ्यश्च पानीयं पीयते। उपस्पृश्यते च। शालयश्च भाव्यन्ते। यदप्युच्यते ‐ न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद् भवति। न हि गोधा सर्पन्ती सर्पणादहिर्भवतीति। भवेद् द्रव्येष्वेतदेवं स्यात्। शब्दस्तु खलु येन येन विशेषेणाभिसंबध्यते तस्य तस्य विशेषको भवति। अथवा सापेक्षोऽयं ष्णान्ता इति निर्देशः क्रियते। न चान्यत् किंचिदपेक्ष्यमस्ति। तेन सङ्ख्यामेवापेक्षिष्यामहे। अध्यर्धग्रहणं च समासकन्विध्यर्थम्। अध्यर्धग्रहणं च कर्तव्यम्। किं प्रयोजनम्? समासकन्विध्यर्थम्। समासविध्यर्थम्। कन्विध्यर्थं च। समासविध्यर्थं तावत् ‐ अध्यर्धशूर्पम्। कन्विध्यर्थम् ‐ अध्यर्धकम्। लुकि चाग्रहणम्। लुकि चाध्यर्धग्रहणं न कर्तव्यं भवति ‐ अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायामिति। द्विगोरित्येव सिद्धम्। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? समासकन्विध्यर्थमेव। समासविध्यर्थं कन्विध्यर्थं च। समासविध्यर्थं तावत्। अर्धपञ्चमशूर्पम्। कन्विध्यर्थम्। अर्धपञ्चमकम्। अधिकग्रहणं चालुकि समासोत्तरपदवृद्ध्यर्थम्। अधिकग्रहणं चालुकि कर्तव्यम्। किं प्रयोजनम्? समासोत्तरपदवृद्ध्यर्थम्। समासविध्यर्थमुत्तरपदवृद्ध्यर्थं च। समासविध्यर्थं तावत्। अधिकषाष्टिकः। अधिकसाप्ततिकः। उत्तरपदवृद्ध्यर्थम्। अधिकषाष्टिकः। अधिकसाप्ततिकः। अलुकीति किमर्थम्? अधिकषाष्टिकः। अधिकसाप्ततिकः। बहुव्रीहौ चाग्रहणम्। बहुव्रीहौ चाधिकशब्दस्य ग्रहणं न कर्तव्यं भवति। संख्ययाव्ययासन्नादूराधिकसंख्याः सङ्ख्येये इति सङ्ख्येत्येव सिद्धम्। बह्वादीनामग्रहणम्। बह्वादीनां ग्रहणं शक्यमकर्तुम्। केनेदानीं सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययो भविष्यति। ज्ञापकात् सिद्धम्। ज्ञापकं किम् ? यदयं वतोरिड् वेति सङ्ख्याया विहितस्य कनो वत्वन्तादिटं शास्ति। वतोरेव तज्ज्ञापकं स्यात्। नेत्याह। योगापेक्षं ज्ञापकम्।