Page loading... Please wait.
6|3|14 - तत्पुरुषे कृति बहुलम्
॥ तस्मै पाणिनये नमः ॥
6|3|14
SK 972
तत्पुरुषे कृति बहुलम्   🔊
सूत्रच्छेदः
तत्पुरुषे (सप्तम्येकवचनम्) , कृति (सप्तम्येकवचनम्) , बहुलम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अलुग्  6|3|1 उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति। कुरुचरः। मद्रचरः।
`स्तम्बेरमः, कर्णेजपः` इति। `स्तम्बकर्णयो रमिजपोः` 3|2|13 इत्यच्, `उपपदमितङ्` 2|2|19 इति तत्पुरुषः। `कुरुचरः, मद्रचरः` इति। `चरेष्टः` 3|2|16 विभाषायां प्रकृतायां बहुलग्रहणं क्वचित्प्रवृत्त्यादीनामर्थानां संग्रहार्थम्। तेनालुक्प्रवृत्तिः क्वचिदेव भवति--`स्तम्बेरमः` इत्यादौ। क्वचिदप्रवृत्तिरेव--`कुरुचरः` इत्यादौ। क्वचिदुभयम्--`सरजिम्, सरोजम्` इत्यादौ। क्वचिदन्यदेव--`ब्राआहृणाच्छंसी` इत्यादौ। सप्तम्या अलुगुक्तः पञ्चम्या अपि भवति। तथा कृदन्त उत्तरपदेऽलुगुक्तस्तद्धितेऽपि भवति--अप्सु भवोऽप्सव्य इति। दिगादित्वाद्यत्--`ओर्गुणः` 6|4|146 इति गुणः, `वान्तो यि प्रत्य` 6|1|76 इति वान्तादेशः।तदेवं सर्वत्र बहुलग्रहणेन सिद्धमिति `ब्राआहृणाच्छंसिन उपसंख्यानम्` (वा।716) इत्यादि। यदुक्तम्, यच्च वक्ष्यते--`अपोयोनियन्मतुषु सप्तम्या अलुक्` (वा।721) इत्यादि, तत्? सर्व न वक्तव्यं भवतीति। यद्येवम्? स्तोकान्मुक्त इत्यादपि सर्वमनेनैव सिद्धमिति `पञ्चम्याः स्ताकादिभ्यः` 6|3|2 इति न वक्तव्यं भवति? सत्यमेतत्; अस्यैव प्रपञ्चार्थं तद्वेदितव्यम्। एवञ्च सति सुसंगृहीतं लक्ष्यं भवति। तथा चाह--त एव विषयाः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च॥
अत्रापि कृदन्तस्य ग्रहण्, न कृन्मात्रस्य, तत्र परतः सप्तम्या असम्भवत् इह कस्मान्न भवति - परमे कारके परमकारक इति उच्यते - अन्तरङ्गा कृत्प्रतिपाद्यक्रियानिमिता सप्तमी, इह तु क्रियान्तरनिमितापरमे कारके निधेहीति, तेन बहिरङ्गत्वान्नास्या ग्रहणम् । कुरुचर इति । हलदन्तात् इत्यधिकारमनाश्रित्यैतदुदादृतम् । विभाषाग्रहणे प्रकृते बहुलग्रहणं क्वचित् प्रकृत्यादीनामुपसंग्रहार्थम् । तेन कर्णेजपादावलुगेव, मद्रचरादौ लुगेव, ब्राह्मणाच्छ्ंअस्यादौ असप्तम्या अप्यलुक् । एवं च सर्वमेवालुक्प्रकरणमस्यैव प्रपञ्चः ॥
सिद्धान्तकौमुदी
स्तम्बेरमः । कर्णेजपः । क्वचिन्न । कुरुचरः ॥
तत्पुरुषे कृति बहुलम् - तत्पुरुषे कृति । तत्पुरुषे सप्तम्या बहुलमलुक्स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती । कर्णेजप इति । कर्णे जपति=परदोषमुपांआआविष्करोतीति कर्णेजपः पिशुनः ।स्तम्बकर्णयो रमिजपो॑रित्यच् । उपपदसमासः । क्वचिन्नेति । बहुवग्रहणादिति भावः । कुरुचर इति । "चरेष्टः" इत्यधिकरण उपपदेः चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धेहलदन्ता॑दिति नानुवत्र्तनीयमिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
ङेरलुक्। सरसिजम्, सरोजम्॥
महाभाष्यम्
तत्पुरुषे कृति बहुलम् (2873) (6407 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - तत्पुरुषे कृति बहुलमकर्मधारये - तत्पुरुषे कृति बहुलमित्यत्राकर्मधारय इति वक्तव्यम् । इह मा भूत् ‐ - परमे कारके ‐ - परमकारक इति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । बहुलवचनान्न भविष्यति ।। (वार्तिकावतरणभाष्यम्) अथ किमर्थं लुगलुगनुक्रमणं क्रियते, न तत्पुरुषे कृति बहुलम् इत्येव सिद्धम् ।। (6408 अनुक्रमणप्रयोजनवार्तिकम् ।। 2 ।।) - लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नत्वात् - लुगलुगनुक्रमणं क्रियते, अकृत्स्नं बहुलवचनमिति ।। यद्यकृत्स्नं बहुलवचनम्, यदनेन कृतमकृतं तत् । एवं तर्हि न ब्रूमः ‐ - अकृत्स्नमिति, कृत्स्नं च ‐ - कारकं च, साधकं च, निर्वर्तकं च, यदनेन कृतं सुकृतं तत् । किमर्थं तर्हि लुगलुगनुक्रमणं क्रियते ? उदारणभूयस्त्वात् । ते वै खल्वपि विधयः सुपरिगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च । केवलं लक्षणं केवलः प्रपञ्ञ्चो वा न तथा कारकं भवति ।। अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम् ‐ - बहुलम्, अन्यतरस्याम्, उभयथा, एकेषामिति । सर्ववेदपारिषदं हीदं शास्त्रम्, तत्र नैकः पन्थाः शक्य आस्थातुम् ।।