Page loading... Please wait.
6|3|9 - हलदन्तात्‌ सप्तम्याः संज्ञायाम्
॥ तस्मै पाणिनये नमः ॥
6|3|9
SK 966
हलदन्तात्‌ सप्तम्याः संज्ञायाम्  
सूत्रच्छेदः
हलदन्तात् (पञ्चम्येकवचनम्) , सप्तम्याः (षष्ठ्येकवचनम्) , संज्ञायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अलुग्  6|3|1 उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हलन्ताददन्ताच् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः 8|3|95 इत्यत एव वचनादलुक्। अदन्तात् अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्बजकाः। पुर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायाम् इति किम्? अक्षशौण्डः। हृद्द्युभां ङेः। हृद् दिवित्येतेभ्याम् उत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्।
`युधिष्ठिरः` इति। `संज्ञायाम्` 2|1|43 इति समासः, `गवियुधिभ्यां स्थिरः` 8|3|95 इति षत्वम्। अथ गविष्ठिर इत्यत्र कथमलुक्, न हि गोशब्दो हलन्तः, नाप्यदन्तः? स्यादेतत्--गो+इ+स्थिर इति स्थितेऽन्तरङ्गत्वादवादेशे कृते हलन्तत्वाद्भविष्यति, एतच्च नास्ति; यतः `अन्तरङ्गानपि विधीन्? वहिरङ्गो लुग्? बाधते` (व्या।प।128) इति, अवश्यं चैतदभ्युपेयम्; अन्यथा हि नद्यां कुक्कुटिका नदीकुक्कुटिक, भूम्यां पाशो भूमिपाश इत्यत्रापि यणादेशे कृतेऽलुक्? प्रसज्येत? इत्यत आह--`गविष्ठिर इत्यत्र तु` इत्यादि। `ह्मद्द्युभ्याम्` इति। असंज्ञार्थमिदम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं चोत्तरत्र करिष्यते। अथ वेहापि क्रियते--इहान्तग्रहणं न कत्र्तव्यम्, विनापि तेन सपतम्या प्रातिपदिके सन्निधापिते हलदन्तता लभ्यत एव, तसमादधिकमिहान्तग्रहणं क्रियते, तदधिकं क्रियमाणमेतत्? सूचयति--अधिकेनायमलुग्भवतीति। तेन क्वचिदसंज्ञायामलुग्भवतीति। `ह्मदिस्पृग्दिविस्पृक्` इति। `स्पृशोऽनुदके क्विन्` 3|2|58 `क्विन्प्रत्यस्य कुः` 8|2|62 ति शकारस्य खकारः, तस्य `झलां जशोऽन्ते` 8|2|39 इति जश्त्वम्--गकारः, तस्यापि `वाऽवसाने` 8|4|55 इति चत्र्वम्--ककारः। अत्र चायमर्थः--ह्मदयं स्पृशति, दिवं स्पृशतीति। तथा हि भाष्ये उक्तम्--`द्वितीयार्थे सप्तमी चैषा द्रष्टवया, ह्मदयं स्पृशति, दिवं स्पृशतीति `ह्मविस्पृक्, दिविस्पृक` इति। कथं पुनः द्वितीयार्थे सा भवति? अत एव भाष्यकारवचनात्। अथ वा--ह्मदयं यः स्पृशति स ह्मदये स्पृशत्येव, दिवं यः स्पृशति स दिवि स्पृशत्येव अत्र `अधिकरणे` 2|3|36 इत्येवं भविष्यति सप्तमी। आख्याग्रहणे प्रकृते पुनः संज्ञाग्रहणं विस्पष्टार्थम्॥
उदाहरणेषु संज्ञायाम् इति समासः । गविष्ठिर इत्यादि । अन्यथा अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इत्यवादेशस्याकरणादहलदन्तत्वान्न स्यात्, यथा - भूम्यां पाशो भूमिपाश इत्यत्रेति भावः । हृद्द्यौभ्यामिति । असंज्ञार्थमिदम् । हृदिस्पृक्, दिविस्पृगिति । द्वितीयार्थे चैषा सप्तमी । तथा हि भाष्यम् - अन्यार्थे चैषा सप्तमी द्रष्टव्या, हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् इति । आख्याग्रहणस्योपसमस्तत्वादिह संज्ञाग्रहणम् । तत्रैव त्वसमास्तमाख्याग्रहणं कर्तव्यम् ॥
सिद्धान्तकौमुदी
हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥
हलदन्तात् सप्तम्याः संज्ञायाम् - हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॑ इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति — युधिष्ठिर इति । अत्रअजिरशिशिसस्थिरे॑त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः)। प्रपतितपर्णः, प्रपर्णः। (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः॥
महाभाष्यम्
हलदन्तात्सप्तम्याः संज्ञायाम् (2868) (6398 उपसंख्यानवार्तिकम् ।। 1 ।।) - हृद्युभ्यां ङेरुपसंख्यानम् - हृद्युभ्यां ङेरुपसंख्यानं कर्तव्यम् । हृदिस्पृक्, दिविस्पृक् ।। (6399 उपसंख्यानवार्तिकम् ।। 2 ।।) - अन्यार्थे च - अन्यार्थे चैषा सप्तमी द्रष्टव्या ‐ - हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् ।। (6400 एकदेशिन उपसंख्यानवार्तिकम् ।। 3 ।।) - हलदन्ताधिकारे गोरुपसंख्यानम् - हलदन्ताधिकारे गोरुपसंख्यानं कर्तव्यम् । गविष्ठिरः ।। न कर्तव्यम् । लुकोऽवादेशो विप्रतिषेधेन । लुक्क्रियतामवादेश इति ‐ - अवादेशो भविष्यति विप्रतिषेधेन । अवादेशे कृते हलदन्तादित्येव सिद्धम् ।। (6401 विप्रतिषेधाक्षेपवार्तिकम् ।। 4 ।।) - लुकोऽवादेशो विप्रतिषेधेनेति चेत् भूमिपाशेऽतिप्रसङ्गः - लुकोऽवादेशो विप्रतिषेधेनेति चेत् भूमिपाशेऽतिप्रसङ्गो भवति । भूम्यां पाशो भूमिपाशः ।। (6402 समाधानवार्तिकम् ।। 5 ।।) - अकोऽत इति वा तत्सन्ध्यक्षरार्थम् - एवं तर्हि अविशेषेण सप्तम्या अलुकमुक्त्वा अकोऽतः इति वक्ष्यामि, तन्नियमार्थं भविष्यति ‐ - अकोऽत एव भवति नान्यत इति । तत्सन्ध्यक्षरार्थम्, तेन सन्ध्यक्षराणां सिद्धं भवति । सिध्यति । सूत्रं तर्हि भिद्यते । (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु । ननु चोक्तं हलदन्ताधिकारे गोरुपसंख्यानमिति । नैष दोषः । निपातनात्सिद्धम् । किं निपातनम् ? गविष्ठिरशब्दो बिदादिषु पठ्यते । असकृत्खल्वपि निपातनं क्रियते ‐ - गवियुधिभ्यां स्थिरः 8|3|95 इति ।।