Page loading... Please wait.
6|3|25 - आनङ् ऋतो द्वंद्वे
॥ तस्मै पाणिनये नमः ॥
6|3|25
SK 921
आनङ् ऋतो द्वंद्वे  
सूत्रच्छेदः
आनङ् (प्रथमैकवचनम्) , ऋतः (षष्ठ्येकवचनम्) , द्वन्द्वे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऋकारान्तानां विद्यायोनिसम्भन्धवाचिनां यो द्वन्द्वस् तत्र उत्तरपदे पूर्वपदस्य आनङादेशो भवति। होतापोतारौ। नेष्टोद्गातारौ। प्रशास्ताप्रतिहर्तारौ। योनिसम्बन्धेभ्यः मातापितरौ। याताननान्दरौ। मकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। ऋतः इति किम्? पितृपितामहौ। पुत्रे इत्यत्र अनुवर्तते, ऋतः इति च। तेन पुत्रशब्दे ऽप्युत्तरपदे ऋकारान्तस्य अनङादेशो भवति। पितापुत्रौ। मातापुत्रौ।
`ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वः` इत्यादि। अथ ऋकारान्तसय द्वन्द्व आनङ् भवतीत्येवं कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्; इहापि प्रसज्येत--पितृपितामहाविति। ङकारोऽन्त्यादेशार्थः। इह हि वर्णानामुपदेशः--कार्यार्थः, श्रवणार्थो वेति, नकारश्चायं न क्वचित्? श्रूयते, सर्वत्रैव ह्रस्य `नलोपः प्रातपदिकान्तस्य` 8|2|7 इति लोपेन भवितव्यम्, नापि किञ्चित्? कार्यमस्योपलभ्यते, तत्? किमर्थं नकारस्योच्चारणम्? इत्याह--`नकारोच्चारणम्` इत्यादि। असति नकार ऋकारस्या स्थानेऽणेव शिष्यते, ततश्च `उरण्? रपरः` 1|1|50 इति रपरत्वं स्यात्। नकारे तु सति नायमणेव शिष्यते, अपि तवण्? चानङ् चेति न भवति रपत्वप्रसङ्गः। न हि यत्राण्? अनण्? चेति शिष्यते तत्र रपरत्वं भवति। यथा `सुधातुरकङ्? च` 4|1|97 इति सौधातकिरित्यत्र। तस्मादत्र रपरत्वनिवृत्त्यर्थ नकारोच्चारणम्। अथ पितापुत्रौ, मातापुत्रौ इत्यतर कथमानङादेशः, न ह्रत्र ऋकारान्तानां द्वन्द्वः? इत्याह--`पुत्र इत्यत्रानुवत्र्तते` इति। `पुतरेऽन्यतरस्याम्` 6|3|21 इत्यतः पुत्र इत्येतदत्रानुवत्र्तत इत्यभिप्रायः। यदि तु पुत्र इत्यनुवर्तते, तदा `विभाषा स्वसृपत्योः` 6|3|24 इत्यत्र पुत्रेऽपि विभाषा प्राप्नोति? नैष दोषः; मण्डूकप्लुतिन्यायेन तदनुवत्र्तते। अत एवात्रेत्युक्तं तत्रैवानुवत्र्तते, न पर्वत्रेति प्रतिपादनार्थम्। नन्वेवमपि पुत्रशब्द उत्तरपदे पूर्पदमात्रस्यानङ् प्राप्नति; कार्यिणेहानिर्देशादुत्तरपदशब्देन च पूर्वपदमात्रस्याक्षिप्तत्वात्, न च शक्यते वक्तुम्--ऋत इति वचनादृकारस्य भविष्यतीति, तस्मादेकमिह ऋत इति वचनं द्वन्द्वस्य विशेषणम्, न कार्यिणः? इत्याह--`ऋत इति च` इति। अत्रानुवत्र्तत इति सम्बन्धः। `ऋतो विद्यायोनिसम्बन्धेभ्यः` 6|3|22 इत्यत ऋत इत्यनुवत्र्तते, तत्? कार्यिणो विशेषणं भविष्यति। ननु तत्? पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैषदोषः; पुत्र इत्येषा सप्तमी ऋत इत्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति--`तस्मिन्निति निर्दिष्टे पूर्वस्य` 1|1|65 इति। नन्वेवमपि विरोधः, तथा हि--यदि पुत्रशब्द उत्तरपदम्, कथं तदा ऋकारान्तानां द्वन्द्वः, ऋकारान्तानां द्वन्द्वो न तर्हि पुत्रशब्द उत्तरपदमिति? नैतदस्ति; अन्य एव हि स द्वन्द्वो यस्य ऋत इत्येतद्विशेषणम्। अन्यशाच स यस्य पुत्रशब्द उत्तरपदमिति कोऽत्र विरोधः॥
अत्र यद्यःकारस्य द्वन्द्वे आनङ् भवतीत्यवं विज्ञायेत, पितृपितामहादप्याङ् स्यात् ऋतः त्येतिच्चानर्थकं प्रकृतत्वात्, तस्माद् द्वन्द्वविशेपणमृत इति । जातौ चेदमेकवचनमिति मन्यमान आह - ऋकारान्तानामित्यादि। इह कार्यार्थः श्रवणार्थो वा वर्णानामुपदेशः, नकारश्चायं न क्वचित् श्रूयते सर्वत्र नलोपः प्रातिपदिकान्तस्य इति नलोपेन भवितव्यम्, कार्यमपि चास्य न किञ्चिदुपदिश्यते, तस्मान्नार्थ एतेन इत्यत आह - नकारोञ्चारणमित्यादि । असति नकारे उः स्थानेऽणेव शिष्यते इति उरण् रपरः इति रपरत्वं स्यात्, तस्मिश्च न्यमणेव शिष्यते, किं तर्हि थाण् चान्यच्चेति, नास्ति रपरत्वप्रसङ्गः । तस्माद्रपरत्वनिवृत्यर्थं नकारोच्चारणम् । ङ्कारः ङ्च्चि इत्यन्त्यादेशार्थः । यत्र च निर्दिश्यमानं कार्यिणो विशेषणम्, तत्र निर्दिश्यमानस्यादेशा भवन्तीत्येतद्भवति, नात्र ऋतः इति कार्यिणो विशेषणम्, किं तर्हि द्वन्द्वस्य विशेषणम् । पुत्र इत्यत्रानुवर्तत इति । पुत्रेऽन्यतरस्याम् इत्यतः । यद्यत्र पुत्र थैति वर्तते, विभाषा स्वसृपत्योः इत्यत्रानुवर्तेत, ततश्च भ्रातुष्पुत्र इत्यादावनाक्रोशेऽपि विकल्पप्रसङ्गः एवं तर्हि व्याख्यानादत्रैव सम्बध्यते, अत एव ह्यत्रेत्युक्तम् । एवमपि पुत्र उतरपदे पूर्वपदमात्रस्यानङ् प्रप्नोति, कार्यिणोऽनिर्देशात्, ऋतः इति श्रुतस्य द्वन्द्वविशेषमत्वादत ताअह - ऋत इति चेति । अनुवर्तते इत्युषङ्गः । ञतोविद्यायोनि इत्यतः ञतः इत्यनुवर्तते, तत्कार्यिणं विशेषयिष्यतीत्यर्थः । यद्यपि तत् पञ्चम्यन्तम्, तथापि तदिह व्याख्यानात्षष्ठ।ल्न्तं विपरिणम्यते ॥
सिद्धान्तकौमुदी
विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥
देवताद्वंद्वे च - देवताद्वन्द्वे च । मित्रावरुणाविति । इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम्,वेदे ये सहनिर्वापनिर्दिष्टाः॑ इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेआरावित्यादावतिप्रसङ्गाच्च ।
देवताद्वंद्वे च - देवता । अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आनङ् ऋतो द्वन्द्वे (2884) (आनङोऽधिकरणम्) (नकारप्रयोजनभाष्यम्) क्वायं नकारः श्रूयते ? न क्वचिच्छ्रूयते, लोपोऽस्य भवति नलोपः प्रातिपदिकान्तस्य 8|2|7 इति । यदि न क्वचिच्छ्रूयते, किमर्थमुच्चार्यते ? रपरत्वं मा भूदिति ।। क्रियमाणेऽपि वै नकारे रपरत्वं प्राप्नोति । किं कारणम् ? नलोपे कृते एषोऽपि हि उः स्थाने अण् शिष्यते । नैष दोषः । उः स्थाने अण् प्रसज्यमान एव रपरो भवतीत्युच्यते, न चायमुः स्थाने अणेव शिष्यते । किं तर्हि ? अण् चानण् च ।। (वार्तिकावतरणभाष्यम्) कथं पुनरिदं विज्ञायते ‐ - किमृकारान्तानां यो द्वन्द्व इति, आहोस्वित् द्वन्द्वे ऋकारान्तस्येति ? कश्चात्र विशेषः ? (6415 पूर्वस्मिन् पक्षे उपसंख्यानवार्तिकम् ।। 1 ।।) - ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् - ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानं कर्तव्यम् । पितापुत्रौ ।। (6416 पूर्वस्मिन् पक्षे दोषवार्तिकम् ।। 2 ।।) - कार्यी चानिर्दिष्टः - कार्यी चानिर्दिष्टो भवति । ऋकारान्तानां द्वन्द्वे न ज्ञायते ‐ कस्यानङा भवितव्यमिति ।। (द्वितीयपक्षोपस्थापकभाष्यम्) अस्तु तर्हि द्वन्द्वे ऋकारान्तस्येति ।। (6417 द्वितीयपक्षे दोषवार्तिकम् ।। 3 ।।) - अविशेषेण पितृपितामहादिष्वतिप्रसङ्गः - अविशेषेण पितृपितामहादिष्वतिप्रसङ्गो भवति । पितृपितामहाविति ।। (प्रथमपक्षे दोषोद्धारभाष्यम्) अस्तु तर्हि ऋकारान्तानां यो द्वन्द्व इति । ननु चोक्तम् ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् इति । नैष दोषः । पुत्रग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? पुत्रेऽन्यतरस्याम् (22) इति । यदि तदनुवर्तते, विभाषा स्वसृपत्योः (24) पुत्रे च ‐ - इति पुत्रेऽपि विभाषा प्राप्नोति । नैष दोषः । सम्बन्धमनुवर्तिष्यते । षष्ठ्या आक्रोशे (21) । पुत्रेऽन्यतरस्याम् (22), षष्ठ्या आक्रोशे ।। ऋतो विद्यायोनिसम्बन्धेभ्यः (23), पुत्रेऽन्यतरस्याम्, षष्ठ्या आक्रोशे ।। विभाषा स्वसृपत्योः (24), पुत्रेऽन्यतरस्याम्, षष्ठ्या आक्रोशे ।। आनङ् ऋतो द्वन्द्वे । पुत्रग्रहणमनुवर्तते, षष्ठ्या आक्रोश इति निवृत्तम् ।। (द्वितीयदोषनिवारकभाष्यम्) यदप्युच्यते ‐ - कार्यी चानिर्दिष्टः इति, कार्यी च निर्दिष्टः । कथम् ? उत्तरपद इति वर्तते । ङिच्चायं क्रियते । सोऽन्तरेणापि कार्यिनिर्देशमृकारान्तस्यैव भविष्यति ।। पुत्रे तर्हि कार्यी अनिर्दिष्टः । पुत्रे च कार्यी निर्दिष्टः । कथम् ? ऋकारग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ऋतो विद्यायोनिसम्बन्धेभ्यः इति । तद्वै पञ्चमीनिर्दिष्टं, षष्ठीनिर्दिष्टेन चेहार्थः । पुत्र इत्येषा सप्तमी ऋत इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति ‐ - तस्मिन्निति निर्दिष्टे पूर्वस्य इति ।।