`पूर्वस्य परनिपात` इति। लिप्तवासिताद्युप्तगाढपर्यन्तेषु। उदूखलमसलादयो ये द्वन्द्वाः, तत्र क्वचिदल्पाच्तरत्वात् पूर्वनिपातः प्राप्नोति, क्वचिद् ध्यन्तत्वात् पूर्वनिपातः, क्वचिदजाद्यन्तत्वात्; क्वचितुल्यादनियमः। `दृष्दुपलम्` इति प्रमादाच्चायं पाठो लक्ष्यते। अल्पाच्तरत्वादद्दृषच्छब्दस्य पूर्वनिपातः सिद्धः। `अक्षिभ्रुवम्, दारगवम्` इति। अचतुरादिसूत्रेणाच्
5|4|79 समासान्तः। `स्थूलपूलासम्` इति। प्रमदपाठोऽयं लक्ष्यते;पूर्वोक्तादेव कारणात्॥