Page loading... Please wait.
5|4|160 - निष्प्रवाणिश्च
॥ तस्मै पाणिनये नमः ॥
5|4|160
SK 897
निष्प्रवाणिश्च   🔊
सूत्रच्छेदः
निष्प्रवाणिः (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निष्प्रवाणिः इति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयते ऽस्याम् इति प्रवाणी। प्रवयन्ति तया वा इति प्रावाणी। करणसाधनो ऽयं ल्युट्। तन्तुवायशलाका भ्ण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः। अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवकः उच्यते। इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पदःषष्टो ऽध्यायः प्रथमः पादः।
इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्यचतुर्थः पादः॥समाप्तश्चायं पञ्चमोऽध्यायः* * *षष्ठोऽध्यायःप्रथमः पादः
प्रोयतेऽस्यामिति प्रवाणीति। वेञोऽधिकरणे ल्युट्, ठ्कृत्यचःऽ इति णत्वम् ॥
सिद्धान्तकौमुदी
कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥
निष्प्रवाणिश्च - निष्प्रवाणिश्च । प्रपूर्वादिति । "वेञ्तन्तुसंताने" इत्यस्मात्प्रपूर्वात्करणाधिकरणयोश्चे॑त्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । समाप्तवान इति । समाप्तं वानं=वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.