Page loading... Please wait.
6|3|37 - न कोपधायाः
॥ तस्मै पाणिनये नमः ॥
6|3|37
SK 838
न कोपधायाः   🔊
सूत्रच्छेदः
(अव्ययम्) , कोपधायाः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। वेलिपिकायाः धर्म्यं वैलेपिकम्। कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्। इह मा भूत्, पाकभार्यः, भेकभार्यः इति।
पुर्वेण प्रकारेण प्राप्तस्य पुंवद्भावस्यायं प्रतिषेधः। `पाचिकाभार्यः, कारिकाभार्यः` इति। पाचककारक शब्दभ्यां ण्वुलन्ताभ्यां टाप्। `प्रत्ययस्थात्? कात्पूर्वस्यात इदाप्यसुपः` 7|3|44 इतीत्त्वम्। अत्र `स्त्रियाः पुंवत्` 6|3|33 इत्यादिना प्राप्तिः। `मद्रिकाभार्यः वृजिकाभार्यः` इति। मद्रेषु भवा, वृजिषु भवेति `मद्रवृज्योः कन्? 4|2|130 इति कन्। अत्रापि `स्त्रियाः पुंवत्? 6|3|33 इत्यादिना प्राप्तिः। `मद्रिकाकल्पा; वृजिकाकल्पा` इति। अत्र `तसिलादिष्वाकृत्वसुचः` 6|3|34 इत्यनेन प्राप्तिः। `मद्रिकायते` इत्यादौ `क्यङ्मानिनोश्च` 6|3|35 इति प्राप्तिः। `विलेपिकाया धम्र्यम्` इति। `लिप उपदेहे` (धातुपाठः-1433) इत्यस्माण्ण्वुल्। `वैलेपिकम्` इति। `अण्? महिष्यदिभ्यः` 4|4|48 इत्यण्। अत्र `भस्याढे तद्धिते` (वा।731) इति वा प्राप्तिः। `कोपधप्रतिषेधे` इत्यादि। अस्मिन्? कोपधप्रतिषेधे तद्धितवुग्रहणं कत्र्तव्यम्। तद्धितसम्बन्धी वुसम्बन्धी ककार उपधा यस्य तत्रैव प्रतिषेधो यथा स्यात्। इह मा भूत्--`पाकभार्यः` इति। पाकशब्दोऽयं `अर्भकपृथुकपाका वयसि` (द।उ।3।50) इत्यनेन कन्प्रत्ययान्तो निपातितः। अत्रासति वुग्रहण इहापि प्रतिषेधः स्यात्। यदि तद्धितवुग्रहणं क्रियते, तर्हि `पूर्वत्रासिद्धम्` 8|2|1 इत्यत्र यद्वक्ष्यति--`शुष्कजङ्घ` इत्यत्र--`शुषः कः` 8|2|51 इत्यस्यासिद्धत्वात्? `न कोपधयाः` 6|3|36 इति प्रतिषेधो न प्राप्नोतीत्यसिद्धाधिकारस्य प्रयोजनम्` इति तन्नोपपद्यते, असत्यपि `शुषः कः` इत्यस्यासिद्धत्वेनैवात्र `न कोपधायाः` 6|3|36 इति प्रतिषेधेन भवितव्यम्, न ह्रत्र तद्धितसम्बन्धो ककारः नापि वुसम्बन्धी? दर्शनभेदमाश्रित्य तथाऽभिधानाददोषः। इदं हि वार्तिककारमतमाश्रित्योक्तम्। तत्? पुनः श्लोकवार्तिककारस्य सूत्रकारमतानुसारिणो दर्शनमाश्रित्य वक्ष्यति॥
मद्रेषु भवा मद्रिका, वृजिका, मद्रवृज्योः कन् । वैलेपिकमिति । अण्महिष्यादिभ्यः, अत्र भास्याढेअ तद्धिते एइति ह्याइपसंख्यानिकी प्राप्तिः प्रतिषिद्ध्यते । पूर्वेषु तु सौत्री । तद्धितवुयग्रहणमिति । तद्धितस्य यः ककारः वोश्च यः ककारः तस्येति वक्तव्यमित्यर्थः । पाकभार्य इति । पाकशब्दः प्रथमवयोवाची, ततो ङीबपवादोऽजादित्वाट्टाप् ॥
सिद्धान्तकौमुदी
कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥कोपधप्रतिषेधे तद्धितवुग्रणम् (वार्तिकम्) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥
न कोपधायाः - न कोपधायाः । पाचिकाभार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि । पुंवत्त्वे टाबित्त्वयोर्निवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका । "अत इनिठनौ" इति ठन् ।ठस्येकः॑ । टाप् । पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायते इति । मद्राख्ये देशविशेषे भवा मद्रिका ।मद्रवृज्योः कन् । टाप् । इत्त्वम् । मद्रिकेवाटचरतीत्यर्थः ।क्यह्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति । मद्रिकां मन्यत इत्यर्थेमनश्चे॑ति णिनिः । उपपदसमासः । इहापिक्यङ्भानिनोश्चे॑ति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वर्योर्निवृत्तिः स्यात् । तद्धितवुग्रहणमिति ।न तद्धितवुकोपधायाः॑ इति सूत्रं पठनीयमिति यावत् । तद्धितसंबन्धी वुसंबन्धी च यः ककारस्तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति ।तद्धितकोपधोदाहरण् । पचिकाभार्य इति तु वुसबन्धिकोपधोदाहरणम् । तद्धितबुग्रहणस्य प्रयोजनमाह — नेहेति । पाकेति ।अर्भकपृथुकपाका वयसी॑त्युणादिषु कप्रत्ययान्तो निपातितः । अयं तद्धितस्य वुप्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः ।
न कोपधायाः - पाचिकाभार्य इति । पचतीति पाचिका । ण्वुल् ।युवो॑रित्यकादेशे टापिप्रत्ययस्था॑दितीत्त्वम् । रसिकाभार्य इति । रसोऽस्त्यास्या इति रसिका ।अत इनिठनौ॑इति ठन् । मद्रिकायत इति ।क्यङ्भानिनोश्चे॑ति पुंवत्त्वप्राप्तिः । मुद्रेषु भवा मद्रिका ।मद्रवृज्योः कन् । सति तु पुंवद्भावे इत्वं न श्रूयेतेति भावः ।तद्धितवुग्रहणमिति । द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं सम्बध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः । पाका भार्येति ।अर्भकपृथुकपाका वयसी॑ति कप्रत्ययान्तोऽयमुणादिषु निपातितः । न चायं तद्धितस्य ककारो, नापि वोः ।वयसि प्रथम् इति ङीपं बाधित्वाऽजादित्वाट्टाप् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न कोपधायाः (2896) (निषेधविषये पक्षद्वयोपस्थापकं भाष्यम्) किमिदमेवमाद्यनुक्रमणं ‐ आद्यस्य योगस्य विषये, आहोस्वित् पुंवद्भावमात्रस्य ? किं चातः ? (प्रथमपक्षे दोषभाष्यम्) यद्याद्यस्य योगस्य विषये, माध्यमिकीयाः ‐ - शालूकिकीयाः ‐ - अत्र न प्राप्नोति । विधिरप्यत्र न सिध्यति । किं कारणम् ? भाषितपुंस्कादनूङित्युच्यते, न ह्येतद्भाषितपुंस्कादनूङ् । इह तर्हि विलेपिकाया र्धम्यम् ‐ - वैलेपिकम्, विधिश्च सिद्धो भवति, प्रतिषेधश्च न प्राप्नोति ।। (द्वितीयपक्षे दोषभाष्यम्) अथ पुंवद्भावमात्रस्य विषये, हस्तिनीनां समूहः ‐ - हास्तिकम् । जातिलक्षणः पुंवद्भावप्रतिषेधः प्राप्नोति ।। (सिद्धान्तपक्षोंपपादकभाष्यम्) एवं तर्हि न कोपधायाः इत्ययं योगः पुंवद्भावमात्रस्य विषये । तत उक्तम् ‐ - एवमाद्यनुक्रमणमाद्यस्य योगस्य विषये ।। (6442 उपसंख्यानवार्तिकम् ।। 1 ।।) - कोपधप्रतिषेधे तद्धितवुग्रहणम् - कोपधप्रतिषेधे तद्धितस्य यः ककारो वोश्च यः, तस्य ग्रहणं कर्तव्यम् । इह मा भूत् ‐ - पाकभार्यः, भेकभार्यः ।।