Page loading... Please wait.
8|1|2 - तस्य परमाम्रेडितम्‌
॥ तस्मै पाणिनये नमः ॥
8|1|2
SK 83
तस्य परमाम्रेडितम्‌   🔊
सूत्रच्छेदः
तस्य (षष्ठ्येकवचनम्) , परम् (प्रथमैकवचनम्) , आम्रेडितम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
सर्वस्य द्वे  8|1|1
सम्पूर्णसूत्रम्
सर्वस्य द्वे, तस्य परम् आम्रेडितम्
सूत्रार्थः
"सर्वस्य द्वे" अस्मिन् अधिकारे द्वित्वे कृते द्विरुक्तस्य यत् द्वितीयम्, तस्य आम्रेडितम् संज्ञा भवति ।
"सर्वस्य द्वे" अस्मिन् अधिकारे उक्तानां शब्दानाम् द्वित्वं भवति । द्वित्वे कृते द्वयोः शब्दयोः मध्ये यः द्वितीयः शब्दः, तस्य अनेन सूत्रेण "आम्रेडित" संज्ञा भवति । यथा - "नित्यं भुक्त्वा व्रजति" इत्यत्र नित्यवीप्सयोः 8|1|4 इत्यनेन "भुक्त्वा" इत्यस्य द्वित्वं विधीयते, अतः "भुक्त्वा भुक्त्वा व्रजति" इति प्रयोगः सिद्ध्यति । अत्र द्वितीयः यः "भुक्त्वा" शब्दः, तस्य अनेन सूत्रेण आम्रेडितसंज्ञा भवति ।

ज्ञातव्यम् - आम्रेडित-संज्ञा केवलं "सर्वस्य द्वे" अधिकारे एव कृता अस्ति । अतः अस्मिन् अधिकारे यत्र द्वित्वं भवति, तत्रैव द्वितीयस्य आम्रेडितसंज्ञा भवति । अन्यत्र न ।

आम्रेडितसंज्ञायाः प्रयोगः नाम्रेडितस्यान्त्यस्य तु वा 6|1|99, आम्रेडितं भर्त्सने 8|2|95 एतादृशेषु सूत्रेषु कृतः दृश्यते ।
One-line meaning in English
When a word gets replicated in the "सर्वस्य द्वे" अधिकार, the second occurrence is known as आम्रेडित.
काशिकावृत्तिः
तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदाम्रेडितसंज्ञं भवति। चौर चौर 3, वृषल वृषल 3, दस्यो दस्यो 3 घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने 8|2|95 इत्येवम् आदयः।
`तस्य` इत्वयवषष्ठी। तस्य द्विरुक्तस्य यत्? परमवयवभूतं शब्दरूपं तस्याभ्रेडितसंज्ञा विधीयते। अथ द्विष्प्रयोगद्विर्वचनपक्षे कथं परमिति व्यपदेशः? कथञ्च न स्यात्? तस्य भेदनिबन्धनत्वात्। परव्यपदेशो हि भेदनिबन्धनः। न च द्विष्प्रयोगद्विर्वचनपक्षे शब्दभेदोऽस्ति, आवृत्तिमात्रं हि तत्र भिद्यते, न शब्दः? नैष दोषः; अभिन्नस्यापि शब्दस्य धर्मभेदादौपचारिकमन्यत्वं भविष्यति। भवति हि धर्मभेदादभिन्नेऽपि वस्तुनि भेदव्यवहारः। तथा हि वक्तारो वदन्ति--परुद्भवान्? पटुरासीत्? पटुतरश्चैषमोऽन्य एवासि संवृत्त इति। `चौर चौर` इति। `एङ्ह्यस्वात्सम्बुद्धेः` 6|1|67 इति सुलोपः, `वाक्यादेरामन्त्रितस्य` 8|1|8 इत्यादिना भत्र्सने द्विर्वचनम्, `आर्म्रेडितं भत्र्सने` 8|2|95 इति प्लुतः। `दस्यो दस्यो` इति। `सम्बुद्धौ च` 7|3|106 इति गुणः। अथ तस्यग्रहणं किमर्थम्, यावता `द्वे` इत्यनुवर्त्तिष्यते, तत्रैवं विज्ञायते--द्वयोर्यत्? परमिति? नैवं शक्यम्; `एकाचो द्वे प्रथमस्य` 6|1|1 इत्यत्रापि परमाम्रेडितसंज्ञं स्यात्। तस्यग्रहणे सति यत्रैतद्वक्ष्यमाणं द्विर्वचनं तस्य परमिति विज्ञायते। तेन न भवत्यतिप्रसङ्गः। आम्रेडितमिति महत्याः संज्ञायाः करणमन्वर्थसंज्ञाविज्ञानार्थम्। आम्रेडत आधिक्येनोच्यत इत्याम्रेडितम्। तेनेहापि भवति--अहो दर्शनीया अहो दर्शनीया, मह्रं रोचते मह्रं रोचत इति। दर्शनीयत्वस्य रुचेश्चाधिक्यं द्योतयितुमत्र द्रष्टव्यं द्विर्वचनम्। एतदेव महत्याः संज्ञायाः करणं ज्ञापकम्--आधिक्याभिधाने द्विर्वचनं भवतीति॥
ठ्तस्यऽ इत्यवयवयोगे षष्ठी, परशब्दोऽवयवचनः । ठ्दिक्शब्दाञ्चूतरपदऽ इत्यत्र यद्यपि ठ्दिशि दृष्टः शब्दो दिक्शब्दःऽ---इत्याश्रयणात्सम्प्रत्यदिक्शिब्दत्वेऽपि पञ्चमी विहिता, तथाप्यस्मादेव निर्देशादवयववाचिभिर्योगे षष्ठी भवति । एवं च पूर्वं कायस्येत्यादि सिद्धं भवति । उदाहरणे---ठाम्रडितं भर्त्सनेऽ इति प्लुतः । तस्य ग्रहणं विषयावधारणार्थम्--तस्यैतस्यानन्तरस्य द्विरुक्तस्येति, तेन पाष्ठिके द्विर्वचने इयं संज्ञा न भवति । ननु आम्रेडितशब्दो निघण्टुअषु प्रसिद्धः---ठार्म्रडितं द्विस्त्रिरुक्तम्ऽ इति ? सत्यमर्थे प्रसिद्धः; इह तु शब्दे परिभाष्यते महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ॥
सिद्धान्तकौमुदी
द्विरूक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥
तस्य परमाम्रेडितम् - अभियुक्ताश्चाहुः — ॒क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु ।॑ इति । ननु किमाम्रेडितं नाम , तत्राह — तस्य परमाम्रेडितम् । "सर्वस्य द्वे" इत्यनन्तरमिदं सूत्रं पठते । ततश्चतस्ये॑त्यनेन द्विरुक्तस्येति लभ्यते । अवयववाचिपरशब्दयोगे अत एव ज्ञापकात्षष्ठी । तदाह — द्विरुक्तस्येत्यादिना । पटत्पटेतीति । पटत् पटत् इति इति स्थिते तकारस्येकारस्य च पररूपमिकारः । ततश्च आद्गुणः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.