Page loading... Please wait.
6|3|76 - एकादिश्चैकस्य चादुक्
॥ तस्मै पाणिनये नमः ॥
6|3|76
SK 811
एकादिश्चैकस्य चादुक्   🔊
सूत्रच्छेदः
एकादिः (प्रथमैकवचनम्) , च (अव्ययम्) , एकस्य (षष्ठ्येकवचनम्) , च (अव्ययम्) , आदुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एकादिश्च नञ् प्रकृत्या भवति, एकशब्दस्य च आदुकागमो भवति। एकेन न विंशतिः कान्नविंशतिः। एकान्नत्रिंशत्। तृतीया इति योगविभागात् समासः। पूर्वान्तो ऽयम् आदुक् क्रियते पदान्तलक्षणो ऽत्र अनुनासिको विकल्पेन यथा स्यातिति।
एकादिरिति बहुव्रीहिः। `एकान्नविंशतिः` इति। पूर्वं नञो विंशतिशब्देन समासं कृत्वा ततस्तृतीयसमासः कत्र्तव्यः। किमर्थं पुनरयं पूर्वान्त आदुक्? क्रियते, न परादिरेवादुट्? क्रियेत? तत्राण्यमर्थः--एकस्य चेत्येष आगमिनो दिर्देशो न कत्र्तव्यो भवति। परादौ हि क्रियमाणे नञेवागमो भवति, स च प्रकृतत्वादेव लक्ष्यते; तत्रायं वक्यार्थो भवति--`एकादिश्च नञ्? प्रकृत्या भवति, आदुट्? च तस्यागमो भवति` इति सिद्धमिष्टम्? इत्याह--`पूर्वान्तोऽयम्` इत्यादि। `यरोऽनुनासिकेऽनुनासिको वा` 8|4|44 इत्यत्र हि `न पदान्ताट्टोरनाम्` 8|4|41 इत्यतः पदन्तादित्यनुवत्र्तते। तत्र यदि परदिः क्रियते पदान्तताऽस्य न स्यात्, ततश्च पदान्तलक्षणोऽनुनासिकविकल्पो न स्यात्, इष्यते च। तस्माद्विकल्पेन यथा स्यादित्येवमर्थं पूर्वान्त आदुक्? क्रियते। अथ किमर्थमादुक् क्रियते? आदुगेव नोच्येत, अदुक्यपि क्रियमाणेऽकः सवर्णो दीर्घत्वेन 6|1|101 सिध्यति? न सिध्यति; `अतो गुणे` 6|1|94 पररूपत्वं प्राप्नोति, तदपयकारोच्चारणसामथ्र्यान्न भविष्यति, यदि ह्रत्र पररूपत्वं स्याद्दुकमेव विदध्यात्, तर्हि सवर्णदीर्घत्वमप्यकारोच्चारणसामथ्र्यान्न स्यात्? नैतदस्ति; तथा हि--यं विधिं प्रत्युपदेशोऽनर्थकः स्यात्? स विधिर्बाध्यते (व्या।प।56) यस्य तु विधेस्तदेव निमित्तं नासौ विधिर्बाध्यते। पररूपत्वं च प्रत्यकारोच्चारणमनर्थकम्, सवर्मदीर्घत्वं तु प्रति निमित्तमेव। एवं तह्र्रदुगेवायम्। तुल्या हि संहिता॥
एकादिरिति बहुव्रीहिः । आदिशब्दो व्यवस्था वचनः । एकान्नविशतिरिति । पूर्वं नञो विशत्यादिभिः समासं कृत्वा पश्चात् तृतीयासमासः कर्तव्यः । किमर्थं पुनः पूर्वान्तोऽयमादुक् क्रियते, न परदिरादुट् क्रियेत, एवमेकस्येत्यागमिनिर्देशार्थं न कर्तव्यं भवति, प्रकृतस्य नञ एवागमित्वात् इत्यत आह - पूर्वान्तश्चायमिति । यरोऽनुनासिकेऽनुनासिको वा इत्यत्र न पदान्ताट्टोरनाम् इत्यतः पदन्तग्रहणमनुवर्तते, अविध्नः, बध्नातीत्येवमादिषु मा भूदिति । परादौ सति दकारः पदान्तो न स्यादिति अनुनासिको न स्यात् । अथानुट् क्रियेत, एवमपि पत्रे दकारश्रवतणं न स्यात् तदिदमुक्तम् - अनुनासिको विकल्पेन यथा स्यादिति । किमर्थं पुरादुक् क्रियते, अदुगेव नोचज्येत, सवर्णदीर्घत्वे तावत् सिद्धम्, अतो गुणे इति पररुपत्वं चाकारोच्चारणसामर्थ्यादेव न भविष्यति, यदि स्याद् दुकमेव विदध्यात् । सवर्णदीर्घत्वं तु यं विधिं प्रत्युपदेशोऽनर्थकः इति न्यायाद्भविष्यति । वृत्तिकारेण तु प्रतिपतिलाघवार्थमादुगयं व्याख्यातः ॥ नगोऽप्राणिप्वन्यतरस्याम् ॥ गमेर्हप्रत्यय इति । डप्रकरणे अन्यत्रापि दृश्यते इति ॥
सिद्धान्तकौमुदी
एकादिर्नञ्प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन नविंशतिः एकान्नविंशतिः । एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः ॥ ।षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् (वार्तिकम्) ॥ षोडन् । षोडश । षोढा । षड्धा ॥
एकादिश्चैकस्य चादुक् - एकादिश्च । "नलोपो नञः" इत्यतो "नञ" इति षष्ठन्तमनुवर्तते । तच्चप्रथमया विपरिणम्यते । "नभ्राण्नपात्" इत्यतः प्रकृत्येत्यनुवर्तते । तदाह — एकादिर्नञ्प्रकृत्येति । एक आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदु॑गितिअदु॑गिति वा च्छेदः । नञो विंशत्येति । न विंशतिरिति विग्रहे नञ्समासे सति "नवंशति" शब्दस्यैकशब्देन तृतीयान्तेन सह एकेन नवंशितिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृतत्वाद्यभावात्कथमिह तृतीयासमास इत्यत आह — योगविभागादिति । अनुनासिकविकल्प इति । तृतीयासमासे कृते सुब्लुकि एक नविंशतिरिति स्थिते "न लोपो नञः" इति प्राप्तस्य नकारलोपस्य प्रकृतिभान्निवृत्तौ एकशब्दस्याऽ‌ऽदुगागमः, तत्र ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्-नविंशतिरिति स्थिते "यरोऽनुनासिके" इति दकारस्य पक्षेऽनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारमसामथ्र्यान्न भवति । एकेन न विंशतिरिति । विग्रहवाक्यम् । एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्नविंशतिः, एकाद्नविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति ।पर्यवस्यती॑ति शेषः । एकेन ऊनेति विग्रहः ।पूर्वसदृशे॑ति समासः । सा चासौ विंशतिश्च ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
एकादिश्चैकस्य चादुक् (2935) (आदुस्थापकभाष्यम्) किमर्थमादुगुच्यते न अदुगेवोच्येत ? का रूपसिद्धिः ? एकान्नविंशतिः ‐ - एकान्नत्रिंशत् सवर्णदीर्घत्वेन सिद्धम् । न सिध्यति । अतो गुणे 6|1|97 इति पररूपत्वं प्राप्नोति ।। एवं तर्ह्यदुट् करिष्यते । अदुट् चाशक्यः कर्तुम् । आनुनासिक्यं हि न स्यात् । यद्धि तत् यरोऽनुनासिकेऽनुनासिको वा 8|4|45 इति, पदान्तस्येत्येवं तत् । किं पुनः कारणं पदान्तस्येत्येवं तत् इति ? इह मा भूत् ‐ - ब्रध्नः,बुध्नः, बध्नाति, गृभ्णाति इति ।। एवन्तर्ह्यनुट् करिष्यते । अनुट् चाशक्यः कर्तुम् । विभाषयाऽऽनुनासिक्यम् । तेनेदमेव रूपं स्यात् ‐ - एकान्नविंशतिरिति । इदं न स्यात् ‐ - एकाद्नविंशतिरिति ।। (सिद्धान्तभाष्यम्) अस्तु तर्ह्यदुगेव । ननु चोक्तं अतो गुण इति पररूपत्वं प्राप्नोति इति । नैष दोषः । अकारोच्चारणसार्मथ्यान्न भविष्यति । यदि तर्हि प्राप्नुवन् विधिरकारोच्चारणसार्मथ्यात् बाध्यते, सवर्णदीर्घत्वमपि तर्हि न प्राप्नोति । यं विधिं प्रत्यकारोच्चारणमनर्थकं भवति स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । पररूपं च प्रत्यकारोच्चारणमनर्थकम्, सवर्णदीर्घत्वस्य पुनर्निमित्तमेव ।।