आदौ = आदितः, सप्तम्य्रथे तसिः। अयमेव निर्देशो ज्ञापकः-- `आद्यादिभ्यस्तसिर्भवति` इत्यत्र। तेन तसिप्रकरणे `आद्यादिभ्यः उपसंख्यानम्` (वा।634) इत्येतन्न व्कतव्यं भवति। `अद्र्धह्यस्वम्` इति। ह्यस्वस्याद्र्धमित्यर्थः। `अर्धं नपुंसकम्`
2|2|2 इति समासः। ततश्च `परवल्लिङ्गम्`
2|4|26 इत्यादिना पुंल्लिङ्गेन भवितव्यम्, ह्यस्वशब्दस्य पुंल्लिङ्गत्वात्, नैतदस्ति; ह्यस्वशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः, `गुणवनचानाञ्चाश्रयलिङ्गवचनानि` इति गुणवचनत्वाच् शुक्लशब्द एव ह्यस्वशब्दस्त्रिलिङ्गः। `ह्यस्वः` इति मात्रिकस्य संज्ञा कृता, तस्यैव विभागः स्यात्, न तु दीर्घप्लुतयोरित्याशङ्क्याह-- `अद्र्धह्यस्वम्` इत्यादि। ह्यस्वस्याद्र्धमद्र्धमात्रा भवति, अतोऽद्र्धमात्रा भवति, अतोऽद्र्धह्यस्वग्रहणेनाद्र्धमात्रोपलक्ष्यते। तत एव च तस्येत्युक्तम्। त्रयाणां ह्यस्वदीर्घप्लुतानां स्वरितानां निर्देशार्थम्। यदि चाद्र्धह्यस्वग्रहणमद्र्धमात्रोपलक्षणम्, अतस्त्रयाणां निर्देशोऽर्थवान् भवति; नान्यथा।`ह्यस्वग्रहणमतन्त्रम` इति। अतन्त्रप्रधानम्, उपलक्षणार्थत्वात्। यथा काकेभ्यो दधि रक्ष्यतामित्यत्रकाकाः। तेन सर्वेषामेव ह्यस्वादीनामेष स्वरितविभागो भवति। नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति, तस्यासिद्धत्वात्, नैतदेवम्; यस्मात् परविधिः पूर्वविधावसिद्धः। न चायं विधिः, किं तर्हि? तस्य विहितस्य विभागाख्यानार्थः। अथ वा-- `न मु ने`
8|2|3 इत्यत्र नेति योगविभागात् सिद्धं भवति॥।`एवश्रिर्वा` इति। पूर्वो भागोऽयमुदात्तः पटुतरः। तेनोपरज्यमानस्तद्रूपतामिवापन्नः परो भागः स्फटिकमणिरिवोपधानेनोपरक्तः शुद्धेनोदात्तेन भिन्नश्रुतिकत्वादनुदात्तव्यपदेशं नार्हति। उदात्तव्यपदेशमपि नार्हति; उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित्। अन्ये त्वाहुः-- पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्वेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते। यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैकश्रुतिरिति व्यपदिश्यते। पूर्वभागश्रुतेरभिन्नैका तुल्याकारा श्रुतिर्यस्येति कृत्वा। न हि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चित् भेदोऽस्ति; द्वयोरप्युदात्तगुणवत्तया प्रतीयमानत्वनादिति।