सूत्रच्छेदः
अन्नेन (तृतीयैकवचनम्) , व्यञ्जनम् (प्रथमैकवचनम्)
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तृतीया इति वर्तते। व्यंज्ञवाचि तृतीयान्तम् अनवाचिना सुबन्तेन सहा समस्यते, विभाशा तत्पुरुषश्च समासो भवति। संस्कार्यम् अन्नं, संस्कारकं व्यञ्जनम्। दध्ना उपसिक्त ओदनः दध्योदनः। क्षीरौदनः। वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृतौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृतावन्तर्भूता क्रियेति तद्द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः॥
सिद्धान्तकौमुदी
संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥
अन्नेन व्यञ्जनम् - अन्ने व्यञ्जनम् । व्यञ्जनशब्दं व्याचष्टे — संस्कारेति । संस्क्रियते गुणविशेषवतया क्रियते अनेनेति संस्कारः=उपसेकादिसाधनं दद्यादि, त्दावचकमित्यर्थः । अन्ननेति । अन्नम्-ओदनः । तद्वाचकशब्देनेत्यर्थः ।भिस्सा स्त्री भक्तमन्धोऽन्न॑मिति कोशः । दध्योदन इति । नन्विह दध्नेति करणत्वस्योपसिक्तपदापेक्षत्वादसामथ्र्यात्कथमिह समास इत्यत आह — अन्तर्भूतेति । उपसेकक्रियां विना दध्नोऽन्नसंस्कारकत्वानुपपत्त्या दध्नेत्यस्य दधिकरणकोपसेके वृत्तेर्नाऽसामथ्र्यामिति भावः । तदुक्तं भाष्ये — ॒युक्तार्थसंप्रत्ययाच्च सामथ्र्य॑मिति ।
अन्नेन व्यञ्जनम् - अन्नेन ।भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री॑ इत्यमरः । व्याख्यानान्नेह स्वरूपग्रहणं, तदाह — संस्कारकेत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्नेन व्यञ्ञ्जनम् (382)