Page loading... Please wait.
6|1|79 - वान्तो यि प्रत्यये
॥ तस्मै पाणिनये नमः ॥
6|1|79
SK 63
वान्तो यि प्रत्यये  
सूत्रच्छेदः
वान्तः (प्रथमैकवचनम्) , यि (सप्तम्येकवचनम्) , प्रत्यये (सप्तम्येकवचनम्)
अनुवृत्तिः
एचः  6|1|78 (षष्ठ्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
एचः यि-प्रत्यये वान्तः संहियाताम्
सूत्रार्थः
ओकार-औकारयोः यकारादि-प्रत्यये परे क्रमेण अव्/आव् आदेशाः भवन्ति ।
अस्मिन् सूत्रे यद्यपि "एच्" इत्यस्य अनुवृत्तिः क्रियते, तथापि आदेशः "वान्तः" (= वकारान्तः) अस्ति, अतः केवलं ओकार-औकारयोः विषये एव अस्य सूत्रस्य प्रयोगः भवति । यदि ओकारात् / औकारात् परः यकारादि-प्रत्ययः आगच्छति, तर्हि ओकारस्य स्थाने अव्-आदेशः तथा औकारस्य स्थाने आव्-आदेशः विधीयते । यथा -

1) गो + यत् [गोपसोर्यत् 4|3|160 इत्यनेन यत्-प्रत्ययः]
→ गव् + य [वान्तो यि प्रत्यये 6|1|79 इति ओकारस्य अव्-आदेशः]
→ गव्य

2) नौ + यत् [नौवयोधर्मविषमूल... 4|4|91 इति यत्-प्रत्ययः]
→ नाव् + यत् [वान्तो यि प्रत्यये 6|1|79 इति औकारस्य आव्-आदेशः]
→ नाव्य

3) बभ्रु + यञ् [मधुबभ्र्वोर्ब्राह्मणकौशिकयोः 4|1|106 इति यञ्-प्रत्ययः]
→ बाभ्रु + यञ् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः ]
→ बाभ्रो + यञ् [ओर्गुणः 6|4|146 इत्यनेन गुणः]
→ बाभ्रव् + य [वान्तो यि प्रत्यये 6|1|79 इति ओकारस्य अव्-आदेशः]
→ बाभ्रव्य

अत्र वार्तिकद्वयं ज्ञातव्यम् । एतौ द्वौ अपि वार्तिकौ "यूति" शब्दस्य विषये वदतः । "यूति" इति शब्दः ऊतियूतिजूतिसातिहेतिकीर्तयश्च 3|3|97 अनेन सूत्रेण निपात्यते । यद्यपि अयं शब्दः प्रत्ययः नास्ति, "गो + यूति" इत्यत्र कासुचन स्थितिषु गो-शब्दस्य ओकारस्य अवादेशं कृत्वा "गव्यूति" इति रूपं सिद्ध्यति । अस्यैव विषये एते द्वे वार्तिके वदतः -

1. गोर्यूतौ छन्दस्युपसङ्ख्यानम् । इत्युक्ते, वेदेषु "यूति"-शब्दे परे गो-शब्दस्य ओकारस्य स्थाने अव्-इति वान्तादेशः भवति । यथा - "आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्" (ऋग्वेदः - 3.62.16) - अत्र "गव्यूति" इति शब्दः प्रयुक्तः अस्ति । अत्र गव्यूति इत्युक्ते गावः यस्मिन् भूमौ चरन्ति सा ।

2. अध्वपरिमाणे च । इत्युक्ते, मार्गपरिमाणम् (= अन्तरस्य गणना) दर्शयितुम् "गो + युति" इत्यस्य लौकिकसंस्कते अपि वान्तादेशः क्रियते । यथा - "गव्यूतिमात्रम् अध्वानं गतः" (सः केवलं "एकगव्युति" अन्तरं गतवान् - इत्यर्थः । अद्यतनपरिमाणे 4 गव्युतिः = 1 योजनम् = 9.09 मैलम् = 14.6 किलोमीटर).

ज्ञातव्यम् - "गो + युति" इत्यत्र ओकारस्य अव्-आदेशे कृते लोपः शाकल्यस्य 8|3|19 इत्यनेन प्राप्तः वैकल्पिकः यकारलोपः न भवति । (अस्मिन् विषये भाष्ये किमपि उक्तम् नास्ति । कौमुद्यां दीक्षितः प्रश्लेषस्य आधारं स्वीकृत्य अस्य स्पष्टीकरणं दातुम् प्रयतते । परन्तु अस्मिन् विषये शास्त्रे भिन्नानि मतानि सन्ति ।)
One-line meaning in English
An ओकार and an औकार are respectively converted to अव् and आव् when followed by a यकारादि प्रत्यय.
काशिकावृत्तिः
यो ऽयम् एचः स्याने वन्तादेशः ओकारस्य अव्, औकारस्य आव्, स यकारादौ प्रत्यये परतो भवति। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। नाव्यो ह्रदः। वान्तः इति किम्? रायम् इच्छति रैयति। यि इति किम्? योभ्याम्। नौभ्याम्। प्रत्यये इति किम्? गोयानम्। नौयानम्। गोर्यूतौ छन्दसि। गोशब्दस्य यूतौ परतः छन्दसि विसये वान्तादेशो वक्तव्यः। आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्। छन्दसि इति किम्? गोयूतिः। अध्वपरिमाणे च। गोर्यूतौ परतो वान्तादेशो वक्तव्यः। गव्यूतिमात्रम् अध्वानं गतः।
यीति दर्णग्रहणम्, तेन `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति यकारादौ प्रत्यये कार्यं विज्ञायत इत्यत आह--`यकारादौ प्रत्यये` इति। यद्यपीह स्थानी न निर्दिष्टः, तथाप्यावादेश ओकारस्य स्थाने, आवादेशोऽयौकारस्थ स्थाने भवतीति वेदितव्यम्। कथम्? पूर्वयोगे हि यद्धर्मा वान्त आदेशो दृष्टः, इहापि तदद्धर्मेवानुवत्र्तते। कश्च पूर्वयोगे तद्धर्मा दृष्टः? अवादेशस्यौकारस्य स्थानित्वम्। आवादेशस्याप्यौकारस्य स्थानित्वम्, अत इहापि स्वधर्ममजहतोऽनुवृत्तस्य वान्तादेशस्य पूर्वक एव स्थानि विज्ञायते। `बाभ्रव्यः` इति। बभ्रूशपब्दादपत्येऽर्थे `मधूबभ्व्रोब्र्राआहृणकौशिकयोः 4|1|106 इति यञ्? `ओर्गुण-` 6|4|140 इति गुणः। `माण्डव्यः` इति। `गर्गादिभ्यो यञ्` 4|1|105 इति यञ्। `शङ्कव्यम्` इति। शङ्कुशब्दात्? `तस्मै गुणः। `माण्डव्यः` इति। `गर्गादिभ्यो यञ्` 4|1|105 इति यञ्। `शङ्कव्यम्` इति। शङ्कुशब्दात्? `तस्मै हितम्` 5|1|5 इति `उगवादिभ्यो यत्` 5|1|2 इति यत्। `नाव्यः` इति। नावा तर्यत इति `नौवयोधर्मविष` 4|4|91 इत्यादिना यत्। `रैयति` इति। `सुप आत्मनः क्यच्` 3|1|8 इति क्यच्। `गोयानम्` इति। षष्ठीसमासः। `गोर्यूतो छन्दसि` इत्यादि। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थो वेदितव्यः। तत्रेदं व्याख्यानम्--`वान्तो यि` इति योगविभागोऽत्रि क्रियते तेन गोशब्दस्य यूतौ परतश्चन्दसि विषयेऽवादेशो भवति।`अध्वपरिमाणे च` इति। `गौर्यूतौ` इति वर्तते। तत्रापि वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि तदेव। इदं च सामान्येन वचनम्, तेन भाषायामध्वपरिमाणे भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् (कौमुदी-1538) इति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मं (कौमुदी-1643) इत्यादिना यत् ॥गोर्यूतौ छन्दस्युपसङ्ख्यानम् (वार्तिकम्) ॥ ।अध्वपरिमाणे च (वार्तिकम्) (कौमुदी-3544) ॥ गव्यूतिः । ऊतियूति (कौमुदी-3274) इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वली (कौमुदी-873)ति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥
वान्तो यि प्रत्यये - वान्तो यि प्रत्यये ।यि॑इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते ।यस्मिन्विधिस्तदादावल्ग्रहणे॑ इति वार्त्तिकात् । तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम् । अलिति वर्णपर्यायः । सप्तम्यन्ते वर्णग्रहणे यो विधिः स तद्वर्णादौ ज्ञेय इति तदर्थः । येन विधिरित्यस्यायमपवादः । वकारोऽन्ते यस्य स वान्तः । पूर्वसूत्रोपात्तोऽवादेश आवादेशश्च विवक्षितः । तौ च कयोर्भवत इत्याकाङ्क्षायामोदौतोरित्यर्थाल्लभ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन क्लृप्तत्वात् । तदाह — यकारादावित्यादिना । गव्यमिति । गो — य इति स्थिते ओकारस्याऽच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र यु इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः नाव्यमिति । नौ-य इति स्थिते औकारस्य अचपरकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — गोपयसोर्यदिति ।अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय॑ इति शेषः । नाव्यमिति । नौ — य इति स्थिते औकारस्य अच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्ते वचनमिदम् । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह — नौवय इति । गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात्, इह च भत्वेन पदत्वबाधात् । गोर्यूतौ छन्दस्युपसंख्यानम् । छन्दसि=वेदे यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य स्थाने अविति वान्तादेसो भवतीति उपसंख्यानम्धिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते ।आ नो मित्रावरुणा घृतैर्गंव्यूतिमुक्षत॑मित्युदाहरणम् । गव्यूतिः=गोप्रचारभूमिः । गावो यूयन्ते मिश्र्यन्तेऽस्यामित्यधिकरणे युधातो क्तिनिति वेदभाष्ये भट्टभास्करः । अत्र यूतिशब्दस्य प्रत्ययत्वाऽभावात्तस्मिन् परतोवान्ते यि प्रत्यये॑ इत्यप्राप्तौ वचनमिदम् । अध्वपरिमाणे च मार्गपरिमाणविशेषे गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अविति वान्तादेशस्य उपसङ्ख्यानं कर्तव्यमित्यर्थः । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयं, तथाप्यत्राऽनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यासः । गव्यूतिरिति । यावति गोशब्दो यूयते मिश्र्यते श्रूयते तावानध्वा गव्यूति-क्रेशयुगम् ।गव्यूतिः स्त्री कोशयुग॑मित्यमरः । युधातोरधिकरणे क्तिन् । कथमिह युधातोदीर्घ इत्यत आह — ऊतियूतीति । निपातनादेव दीर्घ इति भावः । सिद्धप्रक्रियस्य निर्देशो निपातनम् । ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधाल्लोपः शाकल्यस्येतिहलि सर्वेषा॑-मिति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोपः स्यात्, अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादि-स्वादिप्रत्यत्वाऽभावेन तस्मिन् परतो भत्वाऽभावाच्चेत्यत आह — वान्त इत्यत्रेत्यादि । "वान्तो यि प्रत्यय" इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः । तर्हि व् वान्त इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपो व्योरितिलोपेनेति । "अन्तर्हित" इति शेषः । ननु प्रश्लेष#ए सति किमायातमित्यत आह — तेनेति ।वान्ते यी॑ति सूत्रे वकरात् प्राग्विति प्रश्लिष्यमाणं वान्तस्य विशेषणम् । विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तत्ववचनसामथ्र्यात्च्छयमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते । गोर्यूतावित्यत्र चेदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते । गोर्यूतावित्यत्र छकारात्प्राग्विति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त #इत्यस्य विशेषणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्कतत्ववचनसामथ्र्याच्छयमाणवकारवानिति लभ्यत इत्यर्थः । नन्वेतावता गव्यूतिरित्यत्राऽवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिह्मतेत्यत आह — वकारो न लुप्यत इति यावदिति । वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव, लोपशब्दार्थत्वादिति बावः । यद्यपिवान्तो यी॑ति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेनोक्तलोपस्याऽप्राप्तेः । लव्यमित्यादौ स्वत #एव पदत्वाऽभावाल्लोपस्याऽप्राप्तिः । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, " न क्ये" इति नियमेन तत्र पदत्वाऽभावात् । तथापि गोर्यूताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवं च वार्तिक एवन तत्प्रश्लेष उचितः । एतस्मादेवाऽस्वरसाच्छकाराद्वेत्युक्तम् । वस्तुतस्तु वकार प्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात् । न चलोपो व्यो॑रिति लोपात्तदश्रवणमिति वाच्यम्,वकारलोपस्य उदाहरणाऽभावाद्वकारग्रहणं न कर्तव्य॑मिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात् । अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः । प्रक्रियाप्रकाशे तुसंज्ञापूर्वको विधिरनित्य॑ इति वचनाद्रव्यूतिरित्यत्र न वकारलोप इत्युक्तम् । अन्येत्विको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्त्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहुः ।
वान्तो यि प्रत्यये - वान्तो यि प्रत्यये । यीति किम् । गोभ्याम् । नौभ्याम् । प्रत्यये किम् । गोयानाम् । यकारादाविति ।येन विधि॑रिति सूत्रस्यापवादभूतेनयस्मिन्विधिस्तदादावल्ग्रहणे॑ इति वार्तिकेनाऽयमार्थो लभ्यते । ओदौतोरिति । [॒उपस्थितानुपस्तितयोरुपस्थितं बलीयः॑ ।] पूर्वसूत्रे तयोरेव वान्तौ प्रति स्थानित्वेन निर्णीतत्वादिति भावः ।अद्वेति । भाषार्थमिदम् । गोर्यतौ लोकेऽपि वान्तादेशः स्यात्समुदायेनाऽध्वनः परिमाणं गम्यते चेदित्यर्थः ।गव्यूतिः स्त्री क्रोशयुग॑मित्यमरः । निपातित इति । क्तिन्नन्तत्वेनेत्यर्थः । ननुगव्य॑नाव्य॑मित्यत्र भत्वेनाऽपदत्वाद्वलोपाभावेऽपिगव्यूति॑रित्यत्रहलि सर्वेषा॑मिति,लोपः शाकल्यस्ये॑ति वा लोपः स्यादत आह — वान्तैत्यत्रेति । वकारो न लुप्यत इति । एवं चहलि सर्वेषा॑मिति सूत्रेव्यो॑रित्यनुवृत्तावपि वकारं परित्यज्ययस्य लोपः स्या॑दिति व्याख्यास्यमानं सङ्गच्छते । एतच्च तत्रैव स्फुटीकरिष्यते ।
लघुसिद्धान्तकौमुदी
यकारादौ प्रत्यये परे ओदौतोः अव् आव् एतौ स्तः। गव्यम्। नव्यम्। (अध्वपरिमाणे च) गव्यूतिः।
महाभाष्यम्
वान्तो यि प्रत्यये (2516) (आयाद्यादेशाधिकरणम्) (6109 पूर्वपक्षिवार्तिकम् ।। 1 ।।) - वान्तादेशे स्थानिनिर्देशः - वान्तादेशे स्थानिनिर्देशः कर्तव्यः । ओकारौकारयोरिति वक्तव्यम् । एकारैकारयोर्मा भूदिति ।। (वार्तिकप्रत्याख्यानभाष्यम्) स तर्हि वक्तव्यः । न वक्तव्यः । वान्तग्रहणं न करिष्यते । एचो यि प्रत्ययेऽयादयो भवन्तीत्येव सिद्धम् । यदि वान्तग्रहणं न क्रियते ‐ - चेयम् जेयम् ‐ - इत्यत्रापि प्राप्नोति । क्षय्यजय्यौ शक्यार्थे 6|1|81 इत्येतन्नियमार्थं भविष्यति ‐ - क्षिज्योरेवैच इति । तयोस्तर्हि शक्यार्थादन्यत्रापि प्राप्नोति ‐ - क्षेयं पापम्, जेयो वृषल इति । उभयतो नियमो विज्ञास्यते ‐ - क्षिज्योरेवैचः, तयोश्च शक्यार्थ एव ‐ - इति । इहापि तर्हि नियमान्न प्राप्नोति ‐ - लव्यम्, पव्यम्, अवश्यलाव्यम्, अवश्यपाव्यम् । तुल्यजातीयस्य नियमः । कश्च तुल्यजातीयः ? यथाजातीयकः क्षिज्योरेच् । कथं जातीयकः क्षिज्योरेच् ? एकारः । एवमपि रायमिच्छति ‐ रैयति, अत्रापि प्राप्नोति । रायिश्छान्दसः, दृष्टानुविधिश्छन्दसि भवति ।। (6110 उपसंख्यानवार्तिकम् ।। 2 ।।) - गोर्यूतौ छन्दसि - गोर्यूतौ छन्दस्युपसंख्यानं कर्तव्यम् । आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । गोयूतिमित्येवान्यत्र ।। (6111 उपसंख्यानवार्तिकम् ।। 3 ।।) - अध्वपरिमाणे च - अध्वपरिमाणे च गोर्यूतावुपसंख्यानं कर्तव्यम् । गव्यूतिमध्वानं गतः । गोयूतिमित्येवान्यत्र ।।