हेतुर्द्विविधः-- शास्त्रीयः,लौकिकश्च। तत्र शास्त्रीयः ` तत्प्रयोजको हेतुश्च`
1|4|55 । लौकिकः फलसाधनयोग्यः पदार्थः। तत्र शास्त्रीये हेतौ `कर्त्तृकरणयोस्तृतीया`
2|3|18 इत्येवं सिद्धा तृतीया। तस्माल्लौकिकस्य हेतोरिदं ग्रहणमित्यत आह-- `फलसाधनयोग्यः` इत्यादि। अनिष्पादयन्नपि फलं तासाशनयोग्यः पदार्थो लोके हेतुरित्युच्यत इति योग्यग्रहणम्। `धनेन कुलम्` इत्यादौ कुलादीन्यकुर्वन्त्यपि धनादीनि तत्करणयोग्यतया लोके हेतुवय्पबदेशमासादयन्तीति तेभ्यस्तृतीया। इह यूपाय दार्विति सदपि दारुणो हेतुत्वं न विवक्षितम्। किं तर्हि? कारणस्यान्यथात्वम्। तेन तादर्थ्ये चतुर्थी भवति॥