`षिद्भ्यः प्रातिपदिकेभ्यः` इति। षकार इद्येषां तानि। कथं पुनः प्रातिपदिकानि षिन्ति भवन्ति, यावता ध्वुनादेः प्रत्ययस्य षकार इत्संज्ञकः,न तु तेषाम्? नैष दोषः; अवयवगतं हि षित्त्वं समुदायस्य विशेषणं भविष्यति, यथा-- अक्षिगतं काणत्वं पुरुषस्य --काणः पुरुष इति। यद्येवम्, धातुगतमपि षित्त्वं समुदायस्य विशेषणं प्राप्नोति, `त्रपूष् लज्जायाम्` (धातुपाठः-347), अङ, अपत्रपेति? नैतदस्ति; यो ह्रनुबन्धोऽवयवे निष्प्रयोजनः स समुदायार्थो विज्ञायते। धातोस्तु विद्यत एव षित्करणस्य नान्यत् प्रयोजनमस्ति, अतः समुदयार्थमेव तद्विज्ञायते। `रजकी` इति। अत्र `रञ्जेश्च`
6|4|26 इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादनुनासिकलोपः।गौरादिषु गौरशब्दस्य सत्यपि वर्णवाचित्वे प्रातिपदिकस्वरेणान्तोदात्तत्वात् पूर्वेण प्राप्नोतीतीह पाठः। मत्स्यादीनां यकारोपधानाम् `अयोपधात्`
4|1|63 इति जातिलक्षणस्य ङीषः प्रतिषेधे प्राप्ते। शृङ्गशब्दस्य प्राक् आञ्शब्दात् पुटादीनाञ्चानन्दवर्ज्जितानां स्त्रीविषयत्वात् शृङ्गशब्दस्य प्राप्ते पुटादीनां चास्त्रीविषया
4|1|63 दिति प्रतिषेधे प्राप्ते। आनन्दशब्दस्याजातिवाचित्वान्ङीष्यप्राप्ते। आंस्तक्षन्नित्येतयोः `ऋन्नेभ्यो ङीप्`
4|1|5 इतिङीपि प्राप्ते। अनुडुह्रनड्वाहीत्यनयोरनकारान्तत्वान्ङीप्यप्राप्ते। इकारान्तयोः सप्रत्ययोर्गणे पाठः पुंवद्भावप्रति,#एधार्थः-- अनडुहीभार्यः, अनड्वाहीभार्य इति। एतदेव वचनं ज्ञापकम्-- अनडुहः स्त्रियां विकल्पेनाम्भवतीति। तेन यदुक्तम्-- `अनडुहः {स्त्रियां वेति -- वा।पाठ।} स्त्रियाञ्चेति वक्तव्यम्` (वा।829) इति, तन्न वक्तव्यमिति भवति। `{एषणः का।वृ।}एषणं करणे` इति। एषणशब्दः करणे कारके ङीषमुत्पादयतीति। इष्यतेऽनयेत्येषणी। करण इति किम्? इष्यतेऽस्यामित्यधिकरणे ङीपि। मेध इत्यस्याजातित्वान्ङीष्यप्राप्ते। गौतमस्य शार्ङ्रगरवादित्वान्ङीनि प्राप्ते। पक्षे च वचनात्सोऽप#इ भवत्येव। आयस्थूणादीनामालिपिशब्दपर्यन्तानां `अणिञोरनार्षयोः`
4|1|78 इति ष्यङि प्राप्ते। आयस्थूणशब्दः शिवाद्यणन्तः। `{भौरि,भौलिकि-गणपाठः} भौरिक्यादयः `अत इञ्`
4|1|95 इतीञन्ताः। आपिच्छिकस्य ङीषि प्राप्ते। आपिच्छिकानां राजानः, तेषामपत्यं स्त्री। `जनपदशब्दात् क्षत्रियादञ्`
4|1|166 इत्यञ्, तस्य `अतश्च`
4|1|175 इति लुकि कृतेप्रत्ययलक्षणेन ङीप्प्राप्नोति। आरटादीनां प्राक् शातनशब्दात् स्त्रीविषयत्वान्ङीष्यप्राप्ते। शातनादीनां ल्युडन्तत्वान्ङीपि प्राप्ते। अधिकरणान्ङीपि। अग्रे हायनमस्य इत्याग्रहायणी। स्वार्थिकोऽण्, णत्वं निपातनात्। अणन्तत्वान्ङीपि प्राप्ते। ईकारान्तस्य पाठः पुंवद्भावप्रतिषेधार्थः-- आग्रहायणीभार्य इति। प्रत्यवरोहणसेवनयोर्ल्युडन्तयोष्टित्वान्ङीपि। केचित्तु पुंद्भावप्रतिषेधार्थं प्रत्यवरोहिणीति पठन्ति--प्रत्यवरोहिणीभार्य इति। `सुमङ्गलात्संज्ञायाम्` (इति)। `नित्यं संज्ञाच्छन्दसोः`
4|1|29 इति वत्र्तमाने `केवलमामक`
4|1|30 इत्यादिना ङीपि प्राप्ते। पक्षे वचनात् सोऽपि भवति। संज्ञायामिति किम्? सुमङ्गला। सुन्दरादीनां प्राक् तरुणशब्दात् स्त्रीविषयत्वात् ङीष्यप्राप्ते। तरुणतलुनशब्दयोर्वयोलक्षणे ङीपि प्राप्ते। `नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्` (वा।338) इत्यत्र तु वयोग्रहणम्। बृहन्महच्छब्दयोरुगित्वान्ङीपि प्राप्ते। `रोहिणी नक्षणे` इति। नक्षत्र इति किमर्थम्? रोहिता। `रेवती नक्षत्रे` इति किम्? येषां रेवतशब्दोऽत्राकारान्त इति दर्शनं तेषां प्रत्युदाहरणं टाप्-- रेवतेति। येषां त्विदं वचनम्-- राविद्यतेऽस्या इति रेशब्दान्मतुप्, निपातनाद्वत्वमिति, तेषां प्रत्युदाहरणम् `उगितश्च`
4|1|6 इति ङीप्-- रेवतीति। स्वरे विशेषः। विकलादीनां टापि प्राप्ते। कटशब्दाच्छोण्यभिधाने ङीष्। कटी श्रोणिरित्यर्थः। श्रोणिरिति किम्? कटा। `पिप्पल्यादयश्च` इति। एतावद्गणे पठते। तांस्तु पिप्पस्यादीन् दर्शयितुं पिप्पली हरीतकीत्यादिकं वृत्तिकावचनम्।`पृथिवी` इति। ईकारान्तनिपातनं पुंवद्भावनिवृत्त्यर्थम्-- पृथिवीभार्य इति। क्रोष्टुशब्दस्य `स्त्रियां च`
7|1|96 इतितृज्वद्भावः।`मातरि षिच्च` इति। `पितृष्यमातुलमातामहपितामहाः`
4|2|35 इत्यत्र पितृमातृभ्यां पितरि वाच्ये डामहज्निपातयिष्यते। मातरि डामहजेव। तस्यापि षित्त्वम्। `दंष्ट्रा` इति। `{दन्श धातुपाठः-} दंश दशने` (धातुपाठः-989), `दाम्नीशस्`
3|2|182 इत्यादिनाष्ट्रन्। षिल्लक्षणस्यानित्यत्वान् ङीषष्टाब्भवति॥