Page loading... Please wait.
4|1|29 - नित्यं संज्ञाछन्दसोः
॥ तस्मै पाणिनये नमः ॥
4|1|29
SK 487
नित्यं संज्ञाछन्दसोः   🔊
सूत्रच्छेदः
नित्यम् (प्रथमैकवचनम्) , संज्ञा-छन्दसोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 स्त्रियाम्  4|1|3 अनुपसर्जनात्  4|1|14
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्नन्ताद् बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप् प्रत्ययो भवति। विकल्पस्य अपवादः। सुराज्ञी, अतिराज्ञी नामः ग्राम। छन्दसि गौः पञ्चदाम्नी। एकदाम्नी। द्विदाम्नी। एकमूर्ध्नी। समानमूर्ध्नी।
नित्यग्रहणं विस्पष्टार्थम्। पूर्वणैव हि विकल्पेन ङीप् सिद्धः, तदारम्भसामथ्र्यादेव ङीब्नित्यं भविष्यति, अन्यथा हीदं वचनमनर्थकं स्यात्॥
ननु च्छन्दसि दृष्टमेवानुविधीयते नापूर्वमुत्प्रेक्ष्यते; तत्र च ङीबेव चेद् दृश्यते तस्य च लक्षणमस्ति, क इदानीं तदभावं प्रयोक्तुअं प्रभवति, संज्ञाशब्दा अप्यनदिप्रयुक्ता नियतानुपूर्वीकास्तत्रापि ङबेव चायं दृश्यते न तदभावः शक्यते कर्तुम्, किमर्थमिदं सूत्रम् ? संज्ञाच्छन्दसोरिति पदमुतरार्थं वक्तव्यम् । नित्यग्रहणमुतरत्र विकल्पनिवृत्यर्थम् ॥
सिद्धान्तकौमुदी
अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
नित्यं संज्ञाछन्दसोः - नित्यं सञ्ज्ञाछन्दसोः ।अन उपधालोपिनः॑इति विकल्पस्याऽपवादः । आरम्भसामथ्र्यात्सिद्धेऽपि नित्यत्वे नित्यग्रहणमुत्तरत्र विकल्पाननुवृत्तितसूचनाय कृतमित्याहुः । शतमूर्न्धीति । इहपञ्चदाम्नि॑ति क्वचित्पाठः, स चाऽयुक्तःदामहायनान्ताच्चे॑त्यनेनैव सिद्धत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.