Page loading... Please wait.
5|4|131 - ऊधसोऽनङ्
॥ तस्मै पाणिनये नमः ॥
5|4|131
SK 483
ऊधसोऽनङ्  
सूत्रच्छेदः
ऊधसः (षष्ठ्येकवचनम्) , अनङ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऊधस्शब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। कुण्डम् इव ऊधः अस्याः सा कुण्दोध्नी। घटोध्नी। ऊधसो ऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत्, महोधाः पर्जन्यः। घटोधो धैनुकम्।
`अनङादेशोऽयं भवति` इति। कथं पुनर्विज्ञायते---आदेशोऽयं न प्रत्यय इति ? यद्येष प्रत्ययः स्यात्? ङित्करणमनर्थकं स्यात्? आदेशो ह्रस्मिन्नन्त्यादेशार्थं ङित्त्वमर्थवद्भवति। तस्मान्ङित्त्वादेवायमादेशो भवतीति विज्ञायते। `कुण्डोध्नी` इति। अनङि कृते `अतो गुणे` 6|1|94 पररूपत्वम्, `बहुव्रीहेरूधसो ङीष्` 4|1|25 इति ङीष्? `अल्लोपोऽनः` 6|4|134 । `स्त्रीग्रहणं कत्र्तव्यम्` इति। स्त्री गृह्रते येनाभिधेयनित्यत्वेन ततः स्त्रीग्रहणं कत्र्तव्यम्। एतदुक्तं भवति--तथा व्याख्यानं कत्र्तव्यं यथा स्त्रियामभिधेयायामनङ् भवतीति। तत्रेदं व्याख्यानम्--`ऊध्र्वाद्विभाषा` 5|4|130 इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यस्थितविभाषा, तेन स्त्रियामेव भवति, नान्यत्रेति। अनङ्ऽकारादित्वमुत्तरार्थम्। इह विनापि तेन सिध्यत्येव॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥
ऊधसोऽनङ् - तत्र विशेषमाह — ऊधसोऽनङ् । बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुवीहावित्यनुवृत्तं षष्ठआ विपरिणम्यते, "ऊधसः" इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — ऊधोऽन्तस्येति । समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम् । इत्यनङि कृते इति । अनङि ङकार इत्, अकार उच्चारणार्थः,ङिच्चे॑त्यन्त्यस्य सकारस्य अन्, पररूपम्, कुण्जोधन् इति स्थिते सतीत्यर्थः । डाब्डीब्निषेधेष्विति ।डाबुभाभ्या॑मिति वैकल्पिके डापि, "अन उपधालोपिनः" इति वैकल्पिके ङीपि, तदुभयाऽभावे "ऋन्नेभ्यः" इति प्राप्तस्य ङीपःअनो बहुव्रीहे॑रिति निषेधे च प्राप्ते इत्यर्थः ।
ऊधसोऽनङ् - ऊधसोऽनङ् । नादेशेनैव सिद्धेऽनङ्करणंधनुषश्चे॑त्युत्तरार्थम्, अन्यथाशाङ्र्गधन्वे॑ति न सिद्ध्येदित्याहुः । वस्तुत इहार्थमप्यावश्यकमेव, अन्यथा अनोलक्षणिकत्वेनाऽल्लोपाऽपर्सङ्गादित्यन्ये । इहबहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवर्तते इत्याह —
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ऊधसोऽनङ् (2408) (5943 उपसंख्यानवार्तिकम्।। 1 ।।) - ऊधसोऽनङि स्त्रीग्रहणम् - (भाष्यम्) ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत् ‐ महोधाः पर्जन्य इति।।