Page loading... Please wait.
7|1|2 - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌
॥ तस्मै पाणिनये नमः ॥
7|1|2
SK 475
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌   🔊
सूत्रच्छेदः
आयन्-एय्-ईन्-ईय्-इयः (प्रथमाबहुवचनम्) , फ-ढ-ख-छ-घाम् (षष्ठीबहुवचनम्) , प्रत्ययादीनाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
प्रत्ययादीनाम् फ-ढ-ख-छ-घाम् आयन्-एय्-ईन्-ईय्-इयः
सूत्रार्थः
प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति ।
अस्मिन् सूत्रे पञ्च-स्थानिनः पञ्च-आदेशाश्च प्रोक्ताः सन्ति । यथासङ्ख्यमनुदेशः समानाम् 1|3|10 इत्यनेन एते आदेशाः यथासङ्ख्यम् भवन्ति -
फ् → आयन् ।
ढ् → एय् ।
ख् → ईन् ।
छ् → ईय् ।
घ् → इय् ।

एते आदेशाः प्रत्ययस्य आदिवर्णस्य भवन्ति इति स्मर्तव्यम् । उदाहरणानि एतानि -

1) फकारस्य आयन्-आदेशः
नड + फक् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे नडादिभ्यः फक् 4|1|99 इति फक्-प्रत्ययः]
→ नड + आयन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति फ्-इत्यस्य आयन्-आदेशः]
→ नाड + आयन [किति च 7|2|117 इति आदिवृद्धिः]
→ नाड् + आयन [आकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ नाडायन

2) ढकारस्य एय्-आदेशः
विनता + ढक् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे स्त्रीभ्यो ढक् 4|1|120 इति ढक्-प्रत्ययः]
→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ वैनता एय [किति च 7|2|117 इति आदिवृद्धिः]
→ वैनत् + एय [एकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य आकारस्य लोपः]
→ वैनतेय

3) खकारस्य ईन्-आदेशः
कुल + ख [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे कुल-शब्दात् कुलात्खः 4|1|139 इति ख-प्रत्ययः]
→ कुल + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति खकारस्य ईन्-आदेशः]
→ कुल् + ईन [ईकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ कुलीन

4) छकारस्य ईय्-आदेशः
शाला + छ वृद्धात् छः 4|2|114 इत्यनेन वृद्ध-संज्ञकात् भिन्नेषु अर्थेषु छ-प्रत्ययः ।]
→ शाला + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति छकारस्य ईय्-आदेशः]
→ शाल् + ईय [ईकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य आकारस्य लोपः]
→ शालीय

5) घकारस्य इय्-आदेशः
क्षत्र + घ क्षत्राद् घः 4|1|138 इत्यनेन तस्यापत्यम् 4|1|92 अस्मिन् अर्थे क्षत्र-शब्दात् घ-प्रत्ययः।]
→ क्षत्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति घकारस्य इय्-आदेशः]
→ क्षत् र् इय [इकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ क्षत्रिय

ज्ञातव्यम् -
1. प्रत्यययोः विद्यमानयोः ढकार/छकारयोः चुटू 1|3|7 इत्यनेन एतयोः इत्संज्ञा न भवति, अपितु वर्तमानसूत्रेण तयोः आदेशः विधीयते ।
2. खकारघकारयोः अस्य सूत्रस्य विषये प्राप्तानि उदाहरणानि तद्धितप्रकरणे एव दृश्यन्ते । तत्र लशक्वतद्धिते 1|3|8 इत्यस्य प्रसक्तिः नैव विद्यते, अतः एतयोः इत्संज्ञा नैव भवितुम् अर्हति। कृत्-प्रत्ययेषु विद्यमानौ खकारघकारौ तु लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञकौ स्तः, अतः तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ख, खश्, घिनुण् एतेषु प्रत्ययेषु वर्तमानसूत्रेण आदेशः न क्रियते ।
One-line meaning in English
The letters फ्-ढ्-ख्-छ्-घ् occurring at the beginning of a प्रत्यय are converted respectively to आयन्-एय्-ईन्-ईय् and इय्
काशिकावृत्तिः
आयनेयीनीयियित्येते आदेशाः भवन्ति यथासङ्ख्यं फ ढ ख छ घ इत्येतेषा प्रत्ययादीनाम्। फ इत्येतस्य आयनादेशो भवति। नडाऽदिभ्यः फक् 4|1|99 नाडायनः। चारायणः। ढस्य एयादेशो भवति। स्त्रीभ्यो ढक् 4|1|130 सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति कुलात् खः 4|1|139 आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्य ईयादेशो भवति। वृद्धाच् छः 4|2|114 गार्गीयः। वात्सीयः। घ इत्येतस्य इयादेशो भवति। क्षत्राद् धः 4|1|138 क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणम् किम्? ऊरुदघ्नम्। जानुदघ्नम्। एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति, तथा च घच्छौ च 4|4|117 इति घचश्चित्करनमर्थवद् भवति। शङ्खः, षण्ढः इत्येवम् आदीनां हि उणादयो बहुलम् इति बहुलवचनादादेशा न भवन्ति। ऋतेरीयङ् 3|1|29 इति वावचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। एजेः खश् 3|2|28, पदरुजविशस्पृशो घञ् 3|3|16 इत्येवम् आदिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनम् अवकाशवदिति इत्संज्ञां बाधितुं न उत्सहते। आयन्नीनोः नकारस्य इत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति।
फादयोऽपीह शास्त्रे लाघवार्थमुपदिष्टाः, ततस्तेषामायन्नादय आदेश विधीयन्ते। तेन च विधीयमानाः फकारादेर्हल्मात्रस्य भवन्तीति वेदितव्यम्। कुत एतत्? अन्ते घामित्यनच्कनिर्द्देशात्; इतरथा हि घानामित्येवं ब्राऊयात्। अन्यत्र त्वागन्तुकोऽकार उच्चारणार्थ एव। अत एव प्रत्ययादौ वत्र्तमानस्य फादेव्र्यञ्जनमात्रस्य स्थानित्वेनोपादानान्निरनुबन्धकपरिभाषात्र (व्या।प।53) नोपतिष्ठते; सर्वत्र हि फादयो निरनुबन्धकाः। यत्र चोभयं सम्भवति तत्रैवास्या उपस्थानम्, `नाडायनः` इति। `नडादिभ्यः फक्` 4|1|99 अपत्यार्थे फक्प्रत्ययः। उत्तरेष्वप्युदाहरणेष्वीयादेशोदाहरणादन्यत्रापत्यार्थे वेदितव्यः। `सौपर्येणः, वैनतेयः` इति। सुपर्णाविनताभ्यां ढक्। `आठकुलीनः` इति। `अपूर्वपदादन्यतरस्यां यङ्ढकञौ` 4|1|140 इत्यत्रापूर्वपदादिति वचनात्? `कुलात्खः` 4|1|139 इत्यनेन सपूर्वपदादपि खो भवति। `गार्गीयः, वात्सीयः` इति। गाम्र्यवात्स्यशब्दाभ्यां यञन्ताभ्यां `तस्येदम्` इत्यर्थविवक्षायां छः, `यस्येति च` 6|4|148 इत्यकारालोपः, `आपत्यस्य च तद्धितेऽनाति` 6|4|151 इति यकारलाह्_> `फक्कति, ढौकते` इति। `फक्क नीचैर्गतौ` (धातुपाठः-116), `ढोकृ गतौ` (धातुपाठः-98), `खनु अवदारणे` (धातुपाठः-878), `छिदिर्? द्वैधीकरणे` (धातुपाठः-1440), `घूण घूर्ण भ्रमणे`[`घुण`--धातुपाठः-] (धातुपाठः-437,438)-इत्येतेषां रूपाणि। ढौकतिधूर्णत्योरनुदात्तेत्त्वादात्मनेपदम्। `ऊरुदध्नम्, जानुदध्नम्` इति। ऊरू प्रमाणमस्य `प्रमाणे द्वयसच्` 5|2|37 इत्यादिना दध्नच्। इहैत आयन्नादयोऽह्गाधिकारे विधीयमानाः प्रकृतिप्रत्ययावपेक्ष्य भवतीति बहिरङ्गाः, प्रत्ययाद्युदात्तत्वं तु प्रकृत्यनपेक्षत्वात्? प्रत्ययमात्रमाश्रित्य भवतीत्यन्तरङ्गम्; ततो बहिरङ्गा यावदायन्नादयो न भवन्ति तावदेव प्रत्ययाद्युदात्तत्वेन भवितव्यम्, तस्मिन्? कृते सत्यादेशा भवन्तो यत्र स्वरार्थोऽनुबन्धो न विधीयते `शिलाया ढः` 5|3|102 , `वृद्धाच्छः` 4|2|113 इत्यादौ तत्रानियतस्वराः प्राप्नुदन्तीत्यस्य चोद्यस्य निरासायाह--`इहैत आयन्नादयः` इत्यादि। अयमभिप्रायः-आयन्नादयोऽप्यन्तरङ्गा एव। यदि हि `अङ्गस्य` 6|1|4 इत्यत्राभिसम्बध्यते तदा स्यात्? तेषां प्रकृतिप्रत्ययापेक्षया बहिरङ्गत्वम्। न चात्र तदभिसम्बध्यते; प्रयोजना भावात्। तथा हि--अङ्गस्य निमित्तं ये प्रत्ययास्तदादीनां फादीनामायन्नादयो यथा स्युः, अन्येषां मा भूवन्नित्येतत्? प्रयोजनम्। एतच्च विनाप्यङ्गाधिकारं सामथ्र्यादेव लभ्यते। न हि फादीनां मद्ये सोऽस्ति प्रत्ययो योऽङ्गस्य निमित्त न भवति। तस्मात्? प्रयोजनाभावादङ्गस्येत्येतन्नाभिसम्बध्यते। तेन स्थानिमात्रमेवादेशा अपेक्षन्ते, न प्रकृतिमिति तेऽप्यन्तरङ्गा एव। ततश्च परत्वात्? प्रत्ययोपदेशकाले तैरेव तावद्भवितव्यम्, ततश्च प्रत्ययाद्युदात्तत्वेनेति प्रत्ययोपदेशकाल एवायन्नदयो भवन्तीति तेषु कृतेषु प्रत्ययाद्युदात्तत्वं भवतीति। अत्र ज्ञापकमप्याह--`तथा च` इत्यादि। एवञ्चेत्यर्थः। घचश्चित्कारणस्यैतत्? प्रयोजनम्--`चितः` 6|1|157 इत्यन्तोदात्तत्वं यथा स्यात्। यदि च प्रत्ययोपदेशावस्थायामेवायन्नादयो भवन्ति, एवं सति घचश्चित्करणमर्थवद्भवति; नान्यथा। अन्यथा हि यद्युपदेशादस्थाया उत्तरकालमेते स्युस्ततो यत्रैवासति चित्करण उदात्तत्वं भवति, धकाराकारे सत्यपि चित्करणे तत्रैव तेन भवितव्यमिति चित्करणमनर्थकं स्यात्। तस्माच्चित्करणादवसीयते--प्रत्ययोपदेशकाल एवैत आयन्नाद्यादेशास्तावद्भवन्ति, पश्चात्? प्रत्ययाद्युदात्तत्वमिति भावः। ननु च व्यञ्जनस्यैते विधीयन्ते, तच्च व्यञ्जनमस्वरम्, एवाञ्चावश्यं येन केनचित्? स्वरेण भवितव्यम्, उदात्तादिगुणरहितस्याचोऽसम्भवात्। तत्र स्थानिनः स्वराभावादान्तरतम्यं नास्तीति स्थानेन्तरतमपरिभाषया 1|1|49 अनुपस्थाने सत्यनियतस्वरैरेभिर्भवितव्यम्, ततश्च यदि चित्त्वं न स्यात्, पश्चाद्विधीयमानानामेषां यदाद्युदात्तस्वरो भवति तदा स एव स्वरः प्रसज्येत; सतिशिष्टत्वात्। तस्मात्? तमपि सतिशिष्टस्वरं बाधित्वाऽन्तोदात्तत्वं यथा स्यादित्येवमर्थं घचश्चित्करणम्। ततः कुतो ज्ञापकत्वमेतच्चिन्त्यम्। अथ `शमेः खः` (प्।उ।1।104) शङ्खः, `षणो ढः` (पं।उ।4।104) षण्ढः--इत्येवमादीनां कस्मादादेशा न भवन्ति? इत्याह--`शङ्खः, षण्ढः` इत्यादि। `लशक्वतद्धिते` 1|3|8 , `चूटू` 1|3|7 इतीत्संज्ञापि बहुलवचनादेव न भवतीति वेदितव्यम्। `ऋतेरीयङ` इत्यादि। यदयं `ऋतेरीयङ` 3|1|29 इतीयङं शास्ति तज्ज्ञापयति--धातुप्रत्ययानामायन्नादयो न सन्तीति। यदि हि स्युः, `ऋतेश्छङ` इति। ब्राऊयात्। ननु सिद्धे विधिरारभ्यमाणो ज्ञापकाय भवतीति? न च च्छङा सिध्यतीति, छङि हि सति वलादिलक्षण इट्? प्रसज्येत, ततश्चानादित्वादादेशो न स्यात्? नैतदस्ति; यस्मादन्तरङ्गत्वादादेशेनैव भवितव्यम्। अन्तरङ्गत्वन्तु तस्योपदेशावस्थायामेव विधीयमानत्वात्। आदेशे च कृते वलादित्वाभावादिट्प्रसङ्गो नास्ति। तदेतदीयङ्वचनं ज्ञपकमेव। `एजेः खश्` इत्यादि। तु शब्दः शङ्खः, षण्ढ इत्येदमादिभ्यो विशेषप्रदर्शनार्थः। यत्रेत्संज्ञा नास्ति--शङ्खादौ, तत्रादेशप्रसङ्गे सति तन्निरासार्थं बहुलवचनमिति, `ऋतेरीयङ्` 3|1|29 इति वावचनमुपन्यस्तम्। `एजेः खश्` 3|2|28 इत्येवमादौ तु `लशक्वतद्धिते` 1|3|8 इतीत्संज्ञया भवितव्यमित्यादेशप्रसङ्गो नास्त्येव। ततो न तत्र तदभावार्थं बहुलवचनम्, `ऋतेरीयङ` इति वावचनमुपन्यसनीयमिति भावः। आदिशब्देन `प्रियवसे वदः खच्` 3|2|38 , `पुंसि संज्ञायां घः प्रायेण` 3|3|118 इत्येवमादीनां ग्रहणम्। स्यादेतत्--अनवकाशं खकारघकारयोरादेशवचनम्, अतस्तेन बाध्यमानेत्संज्ञा कथमत्र स्यात्? इत्याह--`तद्धिते` इत्यादि। `खित्यनव्ययस्य` 6|3|65 इति ह्यस्वविधानम्, `चजोः कु घिण्ण्यतोः` 7|3|52 इति कुत्वविधानं ज्ञापकम्--न ह्रादेशविधानेनेत्संज्ञायां बाधितायां तदुपपद्यते; खितो घितश्चात्यन्तासम्भवात्। `आयन्नीनोर्नकारस्य` इत्यादि। आयन्नीनोर्नकारोऽन्ते वत्र्तत इति तस्य `हलन्त्यम्` 1|3|3 इतीत्संज्ञा प्राप्नोति, तस्याञ्च स्त्यां `तस्य लोपः` 1|3|9 इति कृते नाडायनः, आढकुलीन इत्यादि न सिध्यति। तस्मादायरुआईनोर्नकारस्येत्संज्ञायां प्राप्तायां तत्प्रतिविधानं कत्र्तव्यम्। स्यादेतत्। प्रयोजनाभावादेवेत्संज्ञा न भविष्यति? इत्यत आह--`नित्कार्थं हि` इत्यादि। तत्पुनः `ञ्नित्यादिर्नित्यम्` 6|1|191 इत्याद्युदात्तत्वम्। प्रतविधानं पुनरत्र `प्राचामवृद्धात्? फिन्? बहुलम्` 4|1|160 इत्यत्र फिनो नकारानुबन्धकरणम्। तस्यांतत्? प्रयोजनम्--नित्त्वादाद्युदात्तत्वं यथा स्यात्। तत्र यद्यायन्नीनोर्नकारस्येत्संज्ञा स्यात्, नित्त्वे सत्याद्युदात्तत्वस्य सिद्धत्वात्? फिनो नित्करणमनवर्थकं स्यात्। ननु `फेश्छ च` 4|1|149 इत्यततर सामान्यग्रहणार्थं स्यात्, तस्मिन्नसति निरनु बन्धकपरिभाषयास्यैव ग्रहणं स्यात्, न फिञः? नैतदस्ति; तत्र हि `वृद्धाट्ठक्? सौवीरेषु बहुलम्` 4|1|148 इति बहुलग्रहणानुवृत्तेः फिञ एव ग्रहणमिष्यते, न फिनः। तदेतत्? फिनो नित्करणमित्संज्ञाभावस्य ज्ञापकमेव। योगपक्षं चेदं ज्ञापकम्--अनेन योगेन विहितस्यादेशस्य यो नकारस्तस्मेत्संज्ञा न भवतीति। तेनेनोऽपि नकारस्येत्संज्ञाऽभावो न भवति सिद्धः॥
एफकारादिष्वकार उञ्चारणार्थः । व्यञ्जनमात्रं स्थानि अन्ते फढखच्छघाम् इत्यनच्कनिर्देशात् । एवं च निरनुवन्धकपरिभाषा न प्रवर्तते । आढ।ल्कुलीन इति । अपूर्वपदात् इति वचनात् कुलात्खः इत्यनेन सपूर्वपदादपि खो भवति । फक्क नीचैर्गतौ ढोकृ तौकृ गत्यर्थौ । इह प्रत्ययाद्यौदातत्वं संज्ञासन्नियोगेन विधानादन्तरङ्गम् । एते त्वायन्नादयोऽङ्गाधिकारे विधानाद्वहिरङ्गाः, ततश्च यत्र स्वरार्थोऽनुबन्धो नास्ति - शिलाया ढः , एवृद्धच्छः इत्यादौ तत्राद्यौदातत्वे कृते पश्चाद्भवन्त एते आदेशा अस्वरकस्याच उच्चारणसम्भवादनियतस्वराः स्युः इत्याङ्क्याह - आयन्नादय इत्यादि । अयमभिप्रायः - प्रत्ययादीनां फकारादीनामङ्गसम्बन्धाव्यभिचारात्प्रयोजनाभावादिह अङ्गस्य इति न सम्बध्यते, तेन एतेऽप्यन्तरङ्गा, तत्र परत्वादेतेषु कृतेषु पश्चादाद्यौदातत्वमिति । अत्रैय ज्ञापकमाह - तथा चेति । यदि प्रत्ययस्वरे कृते आयन्नादय आदेशाः स्युः, ततो घशब्दाकारस्योदातत्वे कृते घकारस्य हलः स्रंसनधर्मिणः स्रंसनधमिण्यनुदात आदेशे कृतेऽन्तोदातत्वं सिद्धमिति चित्करणमनर्थकं स्यादिति भावः । इयङिति । वावचनं ज्ञापकमिति । यदि धातुप्रत्ययानामप्येते आदेशाः स्युः ऋतेश्च्छङ् इत्येष ब्रूयात् । न च च्छङ् सिति वलादिलक्षणे इटि कृते अनादित्वादियादेशो न स्यादिति वाच्यम्, इदानीमेव ह्युक्तम् - अन्तरङ्गा आदेशा इति । अपर आह - यदि धातुप्रत्ययेष्वेतज्ज्ञापकं प्रातिपदिकप्रत्ययेष्वपि शख्यं वक्तुअं यदयमीयसुनं शास्ति, तज्ज्ञापयत्याचार्यः न प्रातिपदिकप्रत्ययानामिमे आदेशा इति । यदि स्युस्तर्हि च्छसुनमेव विदध्यात् । एतावन्तश्च प्रत्ययाः - धातुप्रत्ययाः, प्रतिपदिकप्रत्ययाश्चेति, उच्यन्ते चादेशाः ते वचनात्सर्वत्रैव स्युरिति । इत्संज्ञया भवितव्यमिति । न च वचनसामर्थ्यादित्संज्ञाया बाधनमित्याहतिद्धितेषु हीति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं तु प्राचामवृद्धात्फिन् बहुलम् इति फिनो नित्करणादित्संज्ञाया अभाव इति । न च फेश्च्छ च इत्यत्र फिनः, फिञश्च सामान्यग्रहणार्थं नित्करणम् , वृद्धादित्यधिकाराद्धि फिञ एव तत्र ग्रहणम्, न फिनः ॥
सिद्धान्तकौमुदी
प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा (कौमुदी-498) इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् - आयनेयीनीयियः । आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्ख्यपरिभाषया क्रमेणान्वयः । तदाह — प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः । यद्यपीहटाम्ङीपो॑रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह — तद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह — वक्ष्यमाणो ङीषिति ।षिद्गौरादिभ्यश्चे॑त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह — षित्त्वसामथ्र्यादिति । ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः । गाग्र्यायणीति । गर्गस्यापत्यं स्त्रीति विग्रहः । गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः,यस्येति चे॑ति यकारादकारस्य लोपः,हलस्तद्धितस्ये॑ति तु न भवति, ईतीत्यनुवृत्तेः ।आपत्यस्य चे॑त्यपि न, अनातीति निषेधात् । षित्त्वान्ङीष् । णत्वमिति भावः ।
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् - आयने । आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामथ्र्यात् । फकारदिष्बकार उच्चारणार्थः । तेन ढ्रक्फिञादीनामादेशः सिध्यति । आदिग्रहणं किम् । ऊरुदन्घं मित्यादौ मा भूत् । प्रत्ययेति किम् । धीतोरादीनां मा भूत् । फक्कति । ढौकते । छादयति । घूर्णते । घञादिषु तुचजोः कुघिण्ण्यतो॑रित्यादिनिदेर्शेनेत्संज्ञया भाव्यमित्यादेशाभावः ।शमेर्ढः — शण्ढ॑इत्येवमादिनामेते आदेशा न भवन्ति,उणादयो बहुल॑मिति बहुलवचनादिति दिक् । क्रमादिति । फ[स्य] — आयन् । ढ[स्य] — एय् । ख[स्य] — ईन् । छ[स्य] — ईय् । घ[स्य] — इय् — इत्यर्थः । स्त्रियामेव ष्फप्रत्ययविधानादत्र ङीष्न स्यादित्याशङ्क्याह — षित्त्वसामथ्र्यादितिष । एकमेव स्त्रीत्वमुभाभ्यामुच्यत इति भावः । सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते बाधकबाधनार्थम् । तेनआवटआच्चे॑ति वक्ष्यमाणं परमपि चापं बाधित्वा प्राचां मते आवटशब्दादपि ष्फ एव भवति । चाब्विधेस्तूदीचां मते सावकाशत्वात् । आवटआयनी । एवं षाद्यञश्चाब्विषयेऽपि प्राचां ष्फ एव, शार्कराक्ष्यायणीति यथा ।
लघुसिद्धान्तकौमुदी
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥
महाभाष्यम्
आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ।। आयनादिषु(1) उपदेशिवद्वचनं स्वरसिध्द्यर्थम् ।। आयन्नादिषूपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामायन्नादयो भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? ।। स्वरसिध्द्यर्थम् । उपदेशावस्थायामायन्नादिषु इष्टः स्वरो यथा स्यादिति । शिलेयम् । तैत्तिरीयः । अक्रियमाणे ह्युपदेशिवद्भावे प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे कृते आन्तर्यत आदेशा अस्वरकाणामस्वरकाः स्युः ।। न वा क्व चिच्चित्करणात् (उपदेशिवद्वचनानर्थक्यम्(2)) ।। न वा वक्तव्यम् ।। किं कारणम् ? ।। क्व चिच्चित्करणात् । यदयं क्व चिद्धादींश्चितः करोति, अग्राहद्यद्धच्छौ च तज्ज्ञापयत्याचार्यः, ‐ उपदेशावस्थायामायन्नादयो भवन्तीति(1) ।। कथं कृत्वा ज्ञापकम् ? ।। चित्करणे एतत्प्रयोजनं चित इत्यन्तोदात्तत्वं यथा स्यादिति । यदि चोपदेशावस्थायामायन्नादयो भवन्ति ततश्चित्करणमर्थवद्भवति ।। ।। तत्रोणादिप्रतिषेधः ।। तत्रोणादीनां प्रतिषेधो वक्तव्यः । शङ्खः षण्ढ इति ।। धातोर्वेयङ्वचनात् ।। अथ वा यदयमृतेरीयङिति धातोरीयङं शास्ति तज्ज्ञापयत्याचार्यो न धातुप्रत्ययानामायन्नादयो भवन्तीति । यदि हि स्युः ऋतेश्छङित्येव ब्रूयात् । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति न च ऋतेश्छङा सिध्यति । छङि सति वलादिलक्षण इट् प्रसज्येत, इटि कृतेऽनादित्वादादेशो न स्यात् । इदमिह संप्रधार्यम् । इट क्रियतामादेश इति; किमत्र कर्तव्यम् ? । परत्वादिडागमः ।। नित्य आदेशः । कृतेऽपीटि प्राप्नोत्यकृतेऽपि ।। अनित्य आदेशो नहि कृत इटि प्राप्नोति ।। किं कारणम् ? ।। अनादित्वात् ।। अन्तरङ्गस्तर्द्यादेशः ।। काऽन्तरङ्गता ? इदानीमेवह्युक्तमायन्नादिषूपदेशिवद्वचनं स्वरसिध्द्यर्थमिति । तदेतदृतेरीयङचनं ज्ञापकमेव न धातुप्रत्ययानामायन्नादयो भवन्तीति ।। ।। प्रातिपदिकविज्ञानाच्च पाणिनेः सिद्धम् ।। प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेराचार्यस्य सिद्धम् ।। उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ।। (आयनेयीनीयियः) ।।