Page loading... Please wait.
7|1|81 - शप्श्यनोर्नित्यम्
॥ तस्मै पाणिनये नमः ॥
7|1|81
SK 446
शप्श्यनोर्नित्यम्   🔊
सूत्रच्छेदः
शप्-श्यनोः (षष्ठीद्विवचनम्) , नित्यम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शप् श्यनित्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति। पचन्ती कुले। पचन्ती ब्राह्मणी। दीव्यन्ती कुले। दीव्यन्ती ब्राह्मणी। सीव्यन्ती कुले। सिव्यन्ती ब्राह्नणी। नित्यग्रहणम् वा इत्यस्य अधिकारस्य निवृत्त्यर्थम्। इहारम्भसामर्थ्यान् नित्यम् उत्तरत्र विकल्प एव अशङ्क्येत।
Text Unavailable. Please use feedback link below to provide the text if you have.
इत्येतयोः शतुरिति । एतयोः सम्बनधी यः शता तस्येत्यर्थः, म्बन्धश्च निमितनिमितिभावः । क्वचितु सम्बन्धिन इति पठ।ल्ते । नित्यग्रहणमिति । ननु चारम्भसामर्थ्यादेव नित्यं भविष्यति तत्राह - इहेति ॥
सिद्धान्तकौमुदी
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । स्वब् । स्वपी । नित्यात्परादपि नुमः प्राक् अप्तृन् (कौमुदी-277)इति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । स्वपा । अपो भि (कौमुदी-442) ॥ स्वद्भ्याम् । स्वद्भिः । अर्तिपॄवपि इत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्त (कौमुदी-317) इति दीर्घः । नुम्विसर्जनियेति षत्वम् । धनूंषि । धनूषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः क्विप् । र्वोः (कौमुदी-433) इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि । पयः । पयसी । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥.। इति हलन्तनपुंसकलिङ्गप्रकरणम्‌ ।
Text Unavailable. Please use feedback link below to provide the text if you have.
शप्श्यनोर्नित्यम् - पचन्ती इति । कर्तरि शपि नित्यं नुम् । दीव्यन्ती इति । दिवादिभ्यः श्यनि नित्यं नुम् । पचन्ति दीव्यन्तीति बहुवचने तुनपुंसकस्य झलचः॑इति नुम्बोध्यः । स्वबिति । शोभना आपो यस्मिन्सरसीति बहुव्रीहिः ।ऋक्पूर॑बिति समासान्ते प्राप्तेन पूजना॑दिति निषेधः ।द्द्यन्तरुपसर्गेभ्य॑इति ईन्ब भवति, तत्रअप इति कृतसमासान्तस्यानुकरण॑मिति वक्ष्यमाणत्वात् । निरवकाशत्वं प्रतिपदोक्तत्वमिति । अयमेव पक्षः प्रबल इतिछदिरुपधिबलेर्ढ॑ञिति सूत्रे मनोरमायां स्थितम् । धनेरुसिति.॒जनरेसिः॑इत्यतउसि॑रित्यनुवर्तमानेअर्तिपृवपियजितनिधनितपिभ्यो नि॑दित्यौणादिकेनेत्यर्थः । धनुभ्र्यामिति.इहर्वोरिपधाया॑इत्यादिना दीर्धो न शङ्क्यः, रेफान्तस्याऽधातचुत्वात् । एवमिति ।चक्षेः शिच्च॑चादुसि । चक्षुः ।अर्चिशुचिहुसृपि॑इत्यादिना जुहोतेरिसिः ।आदि॑शब्देन सर्पिरर्चिरादयो ग्राह्राः । सुपुमांसीति ।पुंसोऽसुङ्इति सूत्रेसुटी॑ति व्याचक्षाणस्य प्राचो मते जसीष्टिसिद्धावपि शसि नैतत्सिध्येत् । औङिचाऽतिप्रसङ्गः ।इतोऽत्सर्वनामस्थाने॑इत्यतोऽनुवृतिंत पर्यालोच्य सर्वनामस्थान इति यथाश्रुतं ब्राउवतां तु सर्वेष्टसिद्धिः । इति तत्त्वबोधिन्यां हलन्तनप#उ#ंसकलिङ्गप्रकरणम् ।अथ हल्सन्धिप्रकरणम् । — — — — — — — — -
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शप्श्यनोर्नित्यम् नित्यग्रहणं किमर्थम् ? ।। विभाषा माभूत् ।। नैतदस्ति प्रयोजनं सिद्धोऽत्र पूर्वेणैव, तत्रारम्भसार्मथ्यान्नित्यो विधिर्भविष्यति ।। तदेतन्नित्यग्रहणं सांन्यासिकं(3) ‐ तिष्ठतु तावत् ।। (शप्श्यनोर्नित्यम्) ।।