Page loading... Please wait.
7|1|33 - साम आकम्
॥ तस्मै पाणिनये नमः ॥
7|1|33
SK 400
साम आकम्   🔊
सूत्रच्छेदः
सामः (षष्ठ्येकवचनम्) , आकम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
साम इति षष्थीबहुवचनम् आगतसुट्कं गृह्यते। तस्य युष्मदस्मद्भ्याम् उत्तरस्य आकम् इत्ययम् आदेशो भवति। युष्माकम्। अस्माकम्। अथ किमर्थम् आगतसुट्को गृह्यते, न घादेशविधानकाले सुड् विद्यते? तस्य एव तु भाविनः सुटो निवृत्त्यर्थम्। आदेशे कृते हि शेषेलोपे युष्मदस्मदोरकारान्तत्वात् सुट् प्राप्त्नोति, स स्थान्यन्तर्भूतत्वात् निवर्तते। दीर्घोच्चारणं सवर्णदिर्घार्थम्। अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति? तत्सामर्थ्यम् एत्वं प्रति भविष्यति इति अकारकरणमेत्वनिवृत्त्यर्थम् इति। अतो गुणे पररूपत्वं स्यात्।
`सम इति षष्ठीबहुवचनमागतसुट्कं परिगृह्रते` इति। युष्मदस्मद्भ्यामुत्तरस्यान्यस्य सामशब्दस्यासम्भवात्। आगतः सम्प्राप्तः सुट्? यत्र येन वा तत्तथोक्तम्। `अथ` इत्यादौ वाक्य `आगतसुट्कः` इत्याम्प्रत्ययापेक्षया पुंल्लिङ्गत्वं वेदितव्यम्! `अथ किमर्थमागतसुट्कः परिगृह्रते` इति पृष्टस्य ससुट्कस्यादेशो यथा स्यादिति प्रतिवचनमाशह्क्याह--`न हि` इत्यादि। `आमि सर्वनाम्नः सुट्` 7|1|52 इत्यत्र `आज्जसेरसुक्` 7|1|50 इत्यत आदिति वत्र्तते, तेनाकारान्तात्? सर्वनाम्नः सुङ्? विधीयते। अकारान्तता च युष्मदस्मदोः `शेषे लोपः` 7|2|90 इत्यन्तलोपे सति भवति। शेषेलोपेनाप्याकमादेशे कृते भवितव्यम्। तस्मादादेशविधानकाले सुण्न विद्यते। ततश्च ससुट्कस्यादेशो यथा स्यादित्येतत्प्रयोजनं नोपपद्यत इत्यन्यद्वक्तवयमित्यभिप्रायेणाह--`तस्यैव` इत्यादि। यद्यसुट्को गृह्रते `निर्दिश्यमानस्यादेशा भवन्ति` (व्या।प।106) इत्यसुट्कस्यैवादेशः स्यात्। एवञ्चाभिनिवृत्ते स्थान्यादेशभावे पश्चाद्भवतः सुटः केन निवृत्तिः स्यात्? इष्यते च तस्यापि निवृत्तिः। अतस्तस्य भाविनोऽपि निवृत्तिर्यथा स्यादित्येवमर्थं समुट्को गृह्रते। ननु च युष्मदस्मद्भ्यामुत्तरस्यामः सुडेव न प्राप्नोति, अकाराद्धि सर्वनाम्नः सुङ्? विधीयते, युष्मदस्मादोश्च त्यदाद्यत्वं नास्ति, `द्विपर्यन्तास्त्यदादयः` इति त्यदाद्यत्वस्याभावाच्छेषेलोपस्य च टिलोपादकारान्तता न सम्भवति; अतो भाविनोऽपि सुटो निवृत्तिर्नैव प्रयोजनमुपपद्यते? एतच्चोद्यमपाकर्त्तुम्? ``शेषे लोपः` इत्यन्तलोपः` इति ह्मदि कृत्वाऽ‌ऽह--`कृते हि` इत्यादि। अथ क्रियमाणे समुट्कस्य ग्रहणे कथमसौ निवत्र्तते, शास्त्रान्तराद्धि प्रसक्तस्य शास्त्रेण निवृत्तिः क्रियते, न चादेशविधानकले सुट्प्रसङ्गोऽस्ति? इत्याह--`स च स्थान्यन्तर्भूतत्वात्` इत्यादि। यद्यादेशविधानकाले सुटः प्रसङ्गः सम्भवेत्? ततो भावी न निवत्र्तते, न चासावादेशकाले सम्भवति। तस्माद्भाविनः सुटः ससुट्कग्रहणेन स्थान्यन्तर्भूतत्वाद्यस्यामवस्थायां तस्य प्राप्तिस्तस्यां प्रसक्तः स निवत्र्तते; मन्यथा हि तस्य स्थान्यन्तर्भावोऽनर्थकः स्यात्। स्यादेतत्--यदि `शेषे लोपः` 7|2|90 इत्यन्तलोपस्ततः समुटकस्योपादानमर्थवद्भवति, यदा तु सेषेलोपष्टिलोपस्तदा नार्थः कस्मान्नाश्रीयते, तस्यानुपपत्तेः। अनुपपत्तिस्तु लक्षणाभावात्। अन्त्यलोपस्यास्यैतदेवास्ति लक्षणमिति स एवाश्रितः। यद्येवम्, युष्मद्ब्राआहृणीभ्योगच्छतीत्यन्त्यलोपे सति `अजाद्यतष्टाप्` 4|1|4 इति टाप्प्रसज्येत? `अलिङ्गे युष्मदस्मदी` इति नैषोऽस्तप्रसङ्गः। `दीर्घोच्चारणम्` इत्यादि। ननु चाकम्यपि अकः सवर्णदीर्घत्वे 6|1|101 न सिध्यत्येव? न; सिध्यति। `अतो गणे` 6|1|97 इति पररूपत्वमपवादः प्राप्नोतीति चेत्? न; अकारोच्चारणसामथ्र्यात्। यदि अतो गुणे` 6|1|97 पररूपत्वं स्यात्? तदाकारोच्चारणमनर्थकं स्यात्, कमित्येव ब्रायादित्यत आह--`अकमि तु` इत्यादि। तुशब्दो दीर्घोच्चारणापेक्षया समुच्चयार्थः। इतिकरणो हेतौ। यदि ह्रकारोच्चारणस्य प्रयोजनं न स्यात्, शक्यते वक्तुम्--अकारोचचारणसामथ्र्यान्न भविष्यतीति; अस्ति च तसय प्रयोजनम्, किं तत्? `ब्राहुवचने झल्येत्` 7|3|103 इत्येत्त्वं मा भूत्। तस्मात्? सत्यप्यकारोच्चारण एतत्त्वनिवृत्त्यर्थे `अतो गुणे` 6|1|94 पररूपत्वं स्यात्, न सवर्णदीर्घत्वम्। अतस्तदर्थं दीर्घोच्चारणं क्रियते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥ 1 ॥ सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते । त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ 2 ॥ एते परत्वाद्बाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3 ॥ द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ 4 ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् 2 । अतिमाम् 2 । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् 2 । अतिमत् 2 । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु ॥ युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुवाम् 3 । अत्यावाम् 3 । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् 3 । अत्यावाभ्याम् 3 । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् 2 । अत्यावत् 2 । ओसि । अतियुवयोः 2 । अत्यावयोः 2 । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् 3 । अत्यस्माम् 3 । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् 3 । अत्यस्माभ्याम् 3 । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः 2 । अत्यस्मयोः 2 । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥
साम आकम् - साम आकम् । आभ्यामिति ।युष्मदस्मद्भ्यां ङसो॑शित्यतस्तदनुवृत्तेरिति भावः । साम इति । सकारेण सहित आम्-साम्, तस्येत्यर्थः, ससुट्कस्य आम इति यावत् । ननु युष्मद् आम्, अस्मद् आमिति स्थिते अवर्णात्परत्वाऽभावात्सुटो न प्रसक्तिः । नच "शेषे लोपः" इति तस्य लोपे कृते ।ञवर्णात्परत्वमस्तीति वाच्यम्, आकमादेशात्प्रागनादेशतया शेषेलोपस्यैवात्राऽप्रसक्तेः ससुट्कनिर्देशोऽनुपपन्नो व्यर्थश्चेत्यत आह — भाविन इति । भविष्यत इत्यर्थः । यदि तु "आम आकम्" इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषेलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्त्वात्तस्य चाऽवर्णात्परत्वात्सुडागमः स्यात् । तत एत्वषत्वयोर्युष्मेषाकम्, अस्मेषाकमिति स्यादतः ससुट्कनिर्देशः । यद्यपि आकमादेशप्रवृत्तकाले सुटो न प्रसक्तिस्तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट भविष्यति, तस्यापि स्थानषष्ठआ स्वीकरणान्निवृत्तिर्भवति । अन्यता ससुट्कनिर्देशवैयथ्र्यादिति भावः । यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽप्याकमादेशेऽदो लोपेऽवर्णात्परत्वाऽभावादेव सुटः प्रसक्त्यभावलात्ससुट् कनिर्देशो मास्तु । युष्माकम् अस्माकमिति । आकमादेशे कृतेऽदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घः । एतदर्थमेव दीर्घोच्चारणम् । अन्यता पररूपापत्तेः । न चाऽकारोच्चारणसामथ्र्यादेव पररूपनिरास इति वाच्यं,क॑मादेशे प्राप्तबहुवचने झल्ये॑दित्येत्त्वनिवृत्त्या चरितार्थत्वादित्यलम् । त्वयि मयीति । युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयोर्योऽची॑ति दस्य यत्वे पररूपे रूपमिति भावः । युवयोः #आवयोरिति । प्राग्वत् । युष्मासु अस्मास्विति । युष्मदस्मदोरनादेशे॑ इति दकारस्य आत्वे सवर्णदीर्घ इति भावः । "त्वमावेकवचने" इत्यत्र "युवावौ द्विवचने" इत्यत्र च एकवचनद्विवचनशब्दौ यौगिकौ, नतु प्रत्ययपराविति स्थितम् । तत्फलं श्लोकचतुष्टयेन सङ्गृह्णाति — समस्यमाने इति । तत्र प्रथमश्लोकेचे॑दित्यनन्तरम्अपी॑त्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी द्व्येकत्ववाचिनी तदा समासार्थोऽन्यसङ्ख्यश्चेदपि युवावौ त्वमावपि स्त इत्यन्वयः । त्वां मां वा अतिक्रान्तः; अतिक्रान्तौ, अतिक्रान्ता इति, युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे-॒अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा तदा समासार्थः मुख्यविशेष्यभूतोऽन्यसङ्ख्यश्चेदपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमादेशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात् । एकवचने प्रत्यये परतस्त्वमादेशौ, द्विवचने प्रत्यये परतो युवावादेशौ इत्यर्थाश्रयणे तु त्वां मां वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे अतियुष्मद्शब्दे अत्यस्मच्छब्दे च युष्मदस्मदोर्द्विवचने बहुवचने च प्रत्यये परे त्वमै न स्याताम् । तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिः स्यादित्यर्थः । ननु युष्मद्समदोद्व्र्यर्थकत्वे युवावौ, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम् ।नेत्याह — सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम् ।इती॑त्यनन्तरं "ये" इत्यध्याहार्यम् ।त्वाहौ सौ॑,यूयवयौ जसि॑,तुभ्यमह्रौ ङयि॑,तवममौ ङसी॑ति सुजस्ङेङस्सु ये आदेशा विहितास्ते अतियुष्मदत्यस्मच्छब्दाभ्यामेकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः । ननु तत्रापि द्व्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एति इति । तृतीयश्लोके पूर्वाद्र्धमेकं वाक्यम् ।एते=त्वाहादयः, स्वके=स्वीये विषये सुजसादौ, युवाबौ बाधन्ते । कुतः । परत्वात् । युवावापेक्षया एतेषां परत्वादित्यर्थः । नन्वस्त्वेवं त्वाहादिभिर्युवाबयोर्बाधः, त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह — त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्वं पूर्वविप्रतिषेधः । "सुप्सुपा" इति समासः । तृतीयान्तात्तसिः । विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भावः ।प्रत्ययोत्तरण्दयोश्च॑ इति सूत्रभाष्ये तु "त्वमावेकवचने" इति सूत्रे "शेष" इत्यनुवत्र्यसुजस्ङेङस्भिन्नविभक्तिषु॑ इति व्याख्यातम् ।तदेवंत्वमावेकवचने॑, "युवावौ द्विवचने" इत्यत्र एकद्विवचन्शब्दयोर्यौगिकत्वाश्रयणस्याऽव्याप्तिपरिहारार्रथत्वमुक्त्वाऽतिव्याप्तिपरिहारार्थत्वमाह-द्व्यकसङ्ख्य इति । चतुर्थश्लोकेऽस्मिन् "यदा"तदे॑त्यध्याहार्यम् । यदा युष्मान् अस्मान्वा अतिक्रान्तौ अतिक्रान्ता इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टः समासार्थः=समासस्य मुख्यविशेष्यभूतः, युष्मदस्मदी तु बह्वर्थके, तदा युवावौ त्वमौ च न स्तः, तयोः युष्मदस्मदोर्द्वित्वैकत्वविशेष्टार्थकत्वाऽभावात् । युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात् । द्विवचने एकवचने च प्रत्यये परत इत्यर्थाश्रयणे तत्राऽतिव्याप्तिः स्यादित्यर्थः । अत्रप्रत्ययोत्तरपदयोश्चे॑ति सूत्रे भाष्येत्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहण॑मिति वार्तिकव्याख्यावसरे "युवावौ द्विवचने" "त्वमावेकवचने" इत्यत्र द्विवचनैकवचनशब्दयोर्यौगिकत्वाश्रयणमुपक्षिप्य युवाम् आवां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वा मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहान् प्रदश्र्य, अतियुष्मदत्यस्मच्छब्दयो सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाह्मत्य प्रदर्शितौ । सुजसङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येत एवादेशा उदाह्मताः । तदिदं श्लोकचतुष्टयेन संगृहीतम् । तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाह्मत्य प्रदर्शयति-त्वा मां वा अतिक्रान्त इत्यादिना । अतिक्रान्तौ अतिक्रान्ता इति च विग्रहयोरुपलक्षणमिदम् । "विग्रहे" इत्यनन्तरं "रूपाणि वक्ष्यन्ते" इति शेषः । सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावे भवतः । अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्रौ, तवममौ इत्येते एवादेशाः पूर्वप्रतिषेधात्त्वमौ बाधित्वा भवन्ति । ततश्च सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेनव रूपाणीति निष्कर्षः । अतित्वाकम् अतिमाकमिति । ननुसामः आक॑मिति ससुट्कनिर्देशाद्यत्र आमः सुट्संभवस्तत्रैवाकम्, नचात्र सुट् संभाव्यते, इह युष्मदस्मदोरुपसर्जनत्वे सर्वनामत्वाऽभावात् । सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत्, मैवम्-ससुट्कत्वस्य संभावनामात्रविषयत्वात् । एवंच सुट् यत्र संभविष्यति तत्र सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । यत्र तु सुट् न संभवति, तत्र केवलस्य आमः सुट् । अत्र चप्रत्ययोत्तरपदयोश्चे॑ति सूत्रेऽतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत् । तदेवमुपसर्जनयोः युष्मद्समदोरेकार्थवाचित्वं उदाहरणान्युक्त्वा द्व्यर्थवाचित्वे उदाहरति — युवाम् आवां वा अतिक्रान्त इति । अतिक्रान्तौ अतिक्रान्ता इति विग्रहयोरुपलक्षणम् । अत्र युष्मदस्मदोद्वर्य्र्थृत्तित्वात्सुजस्ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवतः । अवसिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वज्ज्ञेयाः । सुजस्ङेङस्सु केवलयुष्मदस्मद्वदेव रूपाणिति निष्कर्षः । अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह — युष्मान् अस्मान्वेति । युष्मानस्मान्वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थः ।द्वयेकसङ्ख्यः समासार्थः॑ इति चतुर्थश्लोकस्योदाहरणान्येतानि । अत्र युष्मस्स्मदोरेकद्व्यर्थवाचित्वाऽभावात्सुजस्ङेङस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ, नापि युवावौ । "ङे प्रथमयोः" इत्याद्यास्तु भवन्त्येव । सुजस्ङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येते भवन्त्येव । तेषामेकद्व्यर्थविशेषनिबन्धनत्वाऽभावात् । प्राग्वदिति । केवलयुष्मस्मद्वदित्यर्थः । इत्यधिकृत्येति । "विधयो वक्ष्यते" इति शेषः । अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि । तत्रपदस्ये॑टत्येतत्अपदान्तस्य मूर्धन्यः॑ इत्यतः प्रागधिक्रियते । "पदात्" इत्येतत्तुकृत्सने च सुप्यगोत्रादौ॑ इत्यतः प्रागदिक्रियते ।अनुदात्तं सर्वमपादादौ॑ इति पदत्रयं तु आ पादसमाप्तेरधिक्रियते इति भाष्यादिषु स्पष्टम् ।
साम आकम् - तव ममेति । नन्वत्रान्त्यलोपपक्षेऽशः स्यादेशः स्यात्, यत्वमिवृत्त्यर्थतया अआचनस्य चरितार्थत्वात् । नच स्यादेशस्यापवादोऽशिति वाच्यम्, अशादेशप्रवृत्तिकाले शेषे लोपाऽभावेन स्यादेशस्यऽप्रसक्तेः । अत्राहुः — अङ्गवृत्तपरिभाषया स्यादेशे वारणीयः । यदि तु अङ्गस्य तत्कार्यं तद्विषययिण्येव सा परिभाषा, न त्वङ्गाधिकारपरेति दुराग्रहस्तह्र्रशित्यत्रअतो गुणे॑इति पररूपेणाऽकारान्तरं प्रश्लिष्याऽकाररूप एवाऽश् भवति न तु विक्रियत इति व्याख्येयमिति । नन्वाकमादेशात्पूर्वमनादेशत्वाद्योचीति यत्वेन भाष्यं, ततश्च शेषे लोपाऽभावादवर्णान्तादिति विधायमानस्य सुडागमस्या.ञप्रसक्त्या साम इति ससुट्कनिर्देशो व्यर्थ इत्यत आह — भाविन इति । कृते हि शेषेलोप अकारान्तत्वात्प्राप्तः सुट् ससुट्कस्य स्थानित्त्वेन निर्देशसामथ्र्यान्निवर्तत इति भावः ।शेषे लोपष्टिलोपः॑इति पक्षे तु सुङ्ग्रहणं व्यर्थमेन । आकमि दीर्घोच्चारणं सवर्णदीर्घार्थम् । अन्यथा पररूपं स्यात् । न चाऽकारोच्चारणसामथ्र्यम्, एत्वनिवृत्त्या अभ्यमैव चरितार्थत्वात् । इहयुवावौ द्विवचने॒॑त्वमावेकवचने॑इति सूत्रद्वयेऽपि द्विवचनैकवनशब्दार्थपरौ, नतु प्रत्ययपराविति व्याख्यातं, तत्फलं दर्शयति — समस्यमान इत्यादिना । द्व्येकत्ववाचिनी इति ।पञ्चकं प्रातिपदिकार्थं॑इति पक्षाभिप्रायेणेदमुक्तम् । अस्मिस्तु पक्षे सङ्ख्याया अपि प्रातिपदिकार्थत्वात् । त्रिकपक्षे चुद्व्येकार्थवाचिनी॑इति पाटम् । सङ्ख्याया विभक्त्यर्थत्वेऽपि सङ्खयेयस्य प्रातिपदिकार्यत्वानपायात् । अन्यसङ्ख्यश्चेदिति । युष्मदस्मदर्थगतसङ्ख्येतरसङ्ख्यायुक्तश्चेदित्यर्थः । स्त इति । अर्थपरत्वाश्रयणसामथ्र्यादेव भूतपूर्वगतेरपि स्वीकाराद्युवावौ त्वमावपि स्तः । प्रत्ययपरत्वे तु न स्यातामित्यव्याप्तिः स्यादिति भावः । एवं चतुर्थश्लोकेऽपिन युवावौ त्वौ न चे॑त्युक्त्या प्रत्ययपरत्वेऽतिव्याप्तिध्र्वनिता । एवं चाऽव्याप्त्यतिव्याप्तिपरिहारायार्थपरत्वमाश्रितमिति फलितम् । नन्वेवं सुजस्ङेङस्स्वपि युष्मदस्मदोद्वर्य्र्थत्वे युवावौ स्यातामेकार्थंत्वे तु त्वमावित्याशङ्कायामाह — सुजस्ङेङस्सु परत इति । के ते आदेशा इत्यत त्याह — -त्वाहौ यूयवयावित्यादि । अस्त्वेवं त्वाहागिभिर्युवावयोर्बाधस्त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह — -त्वमावपीति ।विप्रतिषेधे पर॑मित्यत्र परशब्दस्येष्टवाचित्वादिति भावः । अतित्वामतिमामिति । त्वां मा#ं वा अतिक्रान्ताविति विग्रहः । अतियूयम् । अतिवयमिति । त्वां मां वा अतिक्रान्ता इति विग्रहः । एवमग्रेऽप्यूह्रम् । अतित्वाकम् । अतिमाकमिति । अत्रान्त्यलोपपक्षे त्वङ्गवृत्तपरिभाषया नुडागमो निवार्यः,ह्यस्वनद्यापः॑इत्यत्रह्यस्वान्ताद्विहितस्यामो नु॑डिति व्याख्यानाद्वा । नन्वेवं भिन्नविषयतया सुटो नुडपवादत्वाऽभावेनाऽवर्णान्तसर्वनामाभ्यो विहितस्यामो नुडेव परत्वात्स्यात्, नतु सुडागमः, तस्ययेषां॒॑ताषा॑मित्यादौ सावकाशत्वादिति चेदत्राहुः — ॒त्यदादेरमि सु॑डिति वक्तव्ये॒आमि सर्वनाम्नः॑इति सर्वानामग्रहणसामथ्र्याद्धलि सर्वेषैमित्यादिनिर्देशाच्च अवर्णान्तसर्वनामभ्योऽप्यामः सुडेव भवति, नतु नुट् ।शस्प्रभृतिषु॑इति च विषयसप्तसी, तेन पद्दन्नादिष्वप्यामि न नुडिति । एवं चसाम॑इतिससुट्कनुर्देशेन युष्माकमस्माकमित्यत्र सुडादमाऽभावेऽपि नुडागमो दुर्वाप इत्याशङ्काया अपि निरवकाश एवेति बोध्यम् । यत्त्ु वदन्ति — ॒साम आक॑मित्यत्र यद्यपि सुड्ग्रहणं न स्थानिविशेषणं, बाधात्, तथापि उपलक्षणं तु भवति । यस्यामः सुडग्रे भावी तस्यैवाम आकमा भवितव्यं, न चैतद्रौत्वे संभवतीत्यकम्न प्रवर्तते । तथाचअतित्वयाम्॒अतिमया॑मित्येव रूपं, न त्वतित्वाकमतिमाकमिति । तदसत् । आकमाऽपह्मतस्यामः सुडन्वयाऽभावात् ।आकमः सुड्भावी॑ति चेत्तर्हि तमेवोपलक्षयेत् । आदेशद्वारकेण परम्परासंबन्धेन स्थानिनमुपलक्षयति चेदेवं तर्हियुष्माक॑ — मित्यादौ सुट् श्रूयते ।साम॑इति निर्देशसामथ्र्यान्न श्रूयतेति चेन्न, निर्देशस्य गौणव्यावृत्त्या चरितार्थत्वेन सामथ्र्याऽभावादित्यन्यत्र विस्तरः । गुणभूतयोर्युष्मदस्मदोरेकार्थत्वे उदाहरणान्युत्क्वा सम्प्रति द्द्यर्थवाचित्वे उदाहरति — युवामावां वा अतिक्रान्त इत्यादिना । बह्वर्थयोस्तूदाहरति — -युष्मानस्मान्वेति.॒॒॑॑
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
साम आकम् किमर्थं सामः(2) ससकारस्य ग्रहणं क्रियते न आम आकमित्येवोच्येत(2) ? ।। केनेदानीं ससकारस्य भविष्यति ? ।। आमोऽयं(4) सुड्भक्त आम्ग्रहणेन ग्राहिष्यते ।। अत उत्तरं पठति ‐ ।। साम्ग्रहणं यथागृहीतस्यादेशवचनात् ।। साम्ग्रहणं क्रियते ।। (किमर्थम् ? ।। यथागृहीतस्यादेशवचनात् । ) ठनिर्दिश्यमानस्यादेशा भवन्तीत्येवं ससकारस्य न प्राप्नोति, इष्यते च स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति ‐ साम आकम् ‐ , एवमर्थमिदमुच्यते ।। न वा द्विपर्यन्तानामकारवचनादामि सकाराऽभावः ।। न वैतत्प्रयोजनमस्ति ।। किं कारणम् ? ।। द्विपर्यन्तानामकारवचनात् । द्विपर्यन्तानां हि त्यदादीनामत्वमुच्यते । तेनामि सकारो न भविष्यति ।। सुट्प्रतिषेधस्त्वादेशे लोपविज्ञानात् ।। सुट्प्रतिषेधस्तु वक्तव्यः ।। किं कारणम् ? ।। आदेशे लोपविज्ञानात् । यः स शेषे लोप आदेशे स विज्ञायते ।। न वा टिलोपवचनादादेशे टाप्प्रतिषेधार्थम् ।। न वा सुट्प्रतिषेधो वक्तव्यः ।। किं कारणम् ? ।। टिलोपवचनात् । आदेशे यः स शेषे लोपष्टिलोपः(1) स वक्तव्यः ।। किं प्रयोजनम् ? ।। टाप्प्रतिषेधार्थम् । टाप्मा भूदिति ।। स तर्हि टिलोपो वक्तव्यः(2) ? ।। (न वक्तव्यः(3)) ।। न वा लिङ्गाभावाटि्टलोपवचनानर्थक्यम् ।। 8 ।। न वा वक्तव्यम् ।। किं कारणम् ? ।। लिङ्गाऽभावात् । अलिङ्गे युष्मदस्मदी ।। किं वक्तव्यमेतत् ? ।। न हि ।। कथमनुच्यमानं गंस्यते ।। न ह्यस्तिविशेषो युष्मदस्मदोः स्त्रियां पुंसि नपुंसके वा ।। अस्ति कारणं येनैतदेवं भवति ।। किं कारणम् ? ।। योऽसौ विशेषवाची शब्द(स्त्रीप्रत्ययष्टाप्शब्द(3))स्तदसांनिध्यात् । अङ्ग ! हि भवांस्तमुच्चारयतु(4) गस्यंते स विशेषः ।। ननु च नैतेनैवं भवितव्यम्, न हि शब्दनिमित्तकेन नामाऽर्थेन भवितव्यम् ।। किं तर्हि ? ।। अर्थनिमित्तकेन नाम शब्देन भवितव्यम् ।। तदेतदेवं(5) दृश्यताम् ‐ अर्थरूपमेवैतदेवंजातीयकं, येनात्र विशेषो न गम्यत इति ।। अवश्यं चैतदेवं विज्ञेयम् । यो हि मन्यते ‐ , योऽसौ विशेषवाची शब्दः (स्त्रीप्रत्ययष्टाप्शब्द)स्तदसांनिध्यादत्र विशेषो न गम्यत इति ‐ , इहापि तस्य विशेषो न गम्येत-दृषत् समित् इति ।। तस्मात्सुट्प्रतिषेधः ।। तस्मात्सुट्प्रतिषेधो वक्तव्यः ।। ससकारग्रहणं वा कर्तव्यम् ।। अथ क्रियमाणेऽपि ससकारग्रहणे कस्मादेवान्न सुण्न भवति ? ।। ससकारग्रहणसार्मथ्याद्भाविनः सुट आदेशो विज्ञायते ।। ( साम आकम् )