Page loading... Please wait.
6|2|175 - बहोर्नञ्वदुत्तरपदभूम्नि
॥ तस्मै पाणिनये नमः ॥
6|2|175
SK 3909
बहोर्नञ्वदुत्तरपदभूम्नि   🔊
सूत्रच्छेदः
बहोः (पञ्चम्येकवचनम्) , नञ्वत् (अव्ययम्) , उत्तरपदभूम्नि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात् नञ इव स्वरो भवति। नञ्सुभ्याम् 6|2|172 इत्युक्तम्, बहोरपि तथा भवति। बहुयवो देशः बहुव्रीहिः। बहुतिलः। कपि पूर्वम् 6|2|173 इत्युक्तम्, बहोरपि तथा भवति। बहुकुमारीको देशः। बहुवृषलीकः। बहुब्रह्मबन्धूकः। ह्रस्वान्ते ऽन्तो ऽन्त्यात् पूर्वम् 6|2|174 इत्युक्तम्, बहोरपि तथा भवति। बहुयवको देशः। बहुव्रीहिकः। बहुमाषकः। नञो जरमरमित्रमृताः 6|2|116 इत्युक्तम्, बहोरपि तथा भवति। बहुजरः। बहुमरः। बहुमित्रः। बहुमृतः। उत्तरपदभूम्नि इति किम्? बहुषु मनः अस्य बहुमनाः अयम्।
`नञ्सुभ्याम्` 6|2|172 इत्यादिभिर्योगैर्नञ उत्तरस्य यत्? स्वरवनिधानं तद्बहोरपि यथा स्यादित्येवमर्थमिदम्। नञ इव नञ्वत्। बहोर्भावो भूमा, पृथ्वादित्वादिमनिच्, `बहोर्लोपो भू च बहोः` 6|4|158 इति भूभावः। उत्तरपदस्य भूमेति षष्ठीसमासः। अथातिदेशः किमर्थः, न `नञ्सुबहुभ्य उत्तरपदभूम्नि` इत्येवोच्येत; न चैवं योगे क्रियमाणे नञ्स्वोरप्युत्तरपदभूम्नीत्येतद्विशेषणमापाद्यते; सम्भवापेक्षत्वादस्य, यथैव हि` हल्ङ्याब्भ्यो दीर्घात्` 6|1|66 इत्यत्र दीर्घग्रहणं सम्भवापेक्षं विशेषणं ङ्यापोरेव भवति न हलः; तथैतदपि बहोरेव भविष्यति न नञ्स्वोः, न हि तयोरुत्तरपदार्थबहुत्वे बृत्तिः सम्भवतीति? एवं तर्हि यदपि विदेशस्थं नञोपलक्षितं बहुव्रीहेः स्वरविधानम्, तदप्यस्मादतिदेशाद्यथा स्यादित्येवमर्थोऽयमतिदेशः क्रियते। तेन `नञो जरमरमित्त्रमृताः` 6|2|115 इत्युत्तरपदाद्युदात्तत्वमपि बहोरतिदिश्यते। `बहुमनाः` इति। अत्रोत्तरपदबहुत्वे बहुशब्दो न वर्तते॥
नञ इव नञ्वत्, अस्मादेव निपातानात्पञ्चमीसमर्थाद्वतिः । यद्वा - सम्बन्धसमामान्ये षष्ठी, तया सर्वे विभक्त्यर्था संगृह्यन्त इति पञ्चम्यर्थेऽपि तत्र तस्येव इति वतिः षष्ठ।ल्न्तादेव । बहूनां भावो भूमा, बहोर्लोपो भू एच बहोः, उतरपदशब्देन तदर्थो गृह्यते, स्वरुपणोतरपदस्य बहुत्वासम्भवात् । तदाह - उतरपदार्थबहुत्व इति । किमर्थं पुनरतिदेश आश्रीयते, न नञ्सुबहुभ्य उतरपदभूम्नि इत्युच्येत, एवमपि ह्युच्यमाने उतरपदभूम्नि इत्येतत्सम्भवव्यभिचाराभ्यां बहोरेव विशेषणं भवतिष्यति, योऽपि न गुणादयोऽवयवाः इति प्रतिषेधः, तत्राप्युतरपदभूम्नीत्यनुवृतेर्बहोरेव भवतिष्यति, न नञ्सुभ्याम् - अगुणः सगुणः इति इदं तर्हि प्रयोजनम् - प्रकरणान्तरेऽपि यो नञाश्रयः स्वरस्तस्याप्यतिदेशो यथा स्यादिति । तद्दर्शयति - नञी जरमरमित्रमृता इत्युक्तमित्यादि ॥
सिद्धान्तकौमुदी
उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बहोर्नञ्ञ्वदुत्तरपदभूम्नि (2835) (सूत्रप्रयोजननिराकरणभाष्यम्) किमर्थं बहोर्नञ्ञ्वदतिदेशः क्रियते, न नञ्ञ्सुबहुभ्यः इत्येवोच्येत ? नैवं शक्यम् । उत्तरपदभूम्नि इति वक्ष्यति तद्वहोरेव यथा स्यात्, नञ्ञ्सुभ्यां मा भूदिति । नैतदस्ति प्रयोजनम् । एकयोगेऽपि हि सति यस्योत्तरपदभूमाऽस्ति तस्य भविष्यति । कस्य चास्ति ? बहोरेव ।। इदं तर्हि प्रयोजनम् ‐ -न गुणादयोऽवयवाः (176) इति वक्ष्यति तत् बहोरेव यथा स्यात्, नञ्ञ्सुभ्यां मा भूदिति । एतदपि नास्ति प्रयोजनम् । एकयोगेऽपि हि सति यस्य गुणादयोऽवयवाः सन्ति तस्य भविष्यति । कस्य च सन्ति ? बहोरेव ।। अत उत्तरं पठति ‐ - (6378 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।) - बहोर्नञ्ञ्वदुत्तरपदाद्युदात्तार्थम् - बहोर्नञ्ञ्वदतिदेशः क्रियते, उत्तरपदस्याद्युदात्तार्थम् । उत्तरपदस्याद्युदात्तत्वं यथा स्यात् । विदेशस्थमपि यन्नञ्ञः कार्यं तदपि बहोर्यथा स्यात् ‐ -नञ्ञो जरमरमित्रमृताः 6|2|116 । अजरः, अमरः, बहुजरः, बहुमित्रः, बहुमृतः ।।