`घृतस्पृक्` इति। अत्र शकारस्य विवृत्तकरणस्य आआसानुप्रदानस्याघोषस्य तादृश एव खकारः, तस्य जश्त्वम्--गकारः। गकारस्यापि चत्र्वम्--ककारः।अथ प्रत्ययग्रहणं किमर्थम्, न क्विन इत्येवोच्येत, न हि क्विन्? प्रत्ययत्वं व्यभिचरति। एवमुच्यमाने लोपापवादः क्विन एव कुत्वं स्यादित्येतच्च नाशङ्कनीयम्, तथा हि--क्विन्निति प्रत्ययग्रहणं यत्र प्रत्ययग्रहणं प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) क्विन्नन्त उपस्थापिते क्विनो लोपे कत्र्तव्ये कुत्वस्यासिद्धत्वात्? पूर्वं लोपेनैव भवितव्यम्। तस्मिन्? सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यिति? इत्यत आह--`क्विनः कुरिति वक्तव्ये` इत्यादि। असति हि प्रत्ययग्रहणे क्विन्प्रत्ययान्तस्यैव पदान्तस्य स्यात्, मान्यप्रत्ययान्तस्य, तस्यापि चेष्यते। तस्मात्? प्रत्ययग्रहणं क्रियते। प्रत्ययग्रहणे सति बहुव्रीहिर्लभ्यते। तेन बहुव्रीहिणा यस्माद्विहितः स धातुरूपलक्ष्यत इति सर्वस्य सिध्यति। `मानो अरुआआक्, मानो अद्राक्` इति। `सृज विसर्गे` (धातुपाठः-1414) `दृक्षिर्? प्रेक्षणे` (धातुपाठः-988), लुङ्, च्लेः सिच्?
3|1|44 , तिप्, `सृजिदृशोर्झल्यमकिति`
6|1|57 इत्यमागमः, `वदव्रज`
7|2|3 इत्यादिना वृद्धिः, हल्ङ्यादिलोपः
6|1|66 , अडागमः, अनेन कृत्वम्। `सृजिदृशिभ्यां क्विन्विहितः` इति। `ऋत्विक्`
3|2|59 इत्यादिना सृजेः क्विन्विहितः। दृशेरपि `त्यवादिषु दुशेरनालोचने कञ्च`
3|2|60 इत्यनेन। कथं पुनरत्राडागमः, यावता `न माङयोगे`
6|4|74 इति प्रतिषिद्धोऽसो? इत्यत आह-`माङ्योगेऽपि` इत्यादि। छान्दसौ ह्रेतौ प्रयोगौ। तेन सत्यपि माङ्योगे `बहुलं छन्दस्यामाङ्योगेऽपि`
6|4|75 इत्यडागमो भवत्येव। `अस्तिसिचोऽपृक्ते`
7|3|96 इतीट्? तर्हि कस्मान्न भवति? इत्याह-ईट्? च न भवति` इत्यादि।प्रत्ययग्रहणाद्यथा क्विन्प्रत्ययस्य लुगन्तस्य कृत्वं भवति, दृग्भ्यामित्या दौदृशेः क्विबन्तस्यापि। `एवम्` इत्यादि। प्रत्ययग्रहणात्? क्विन्प्रत्ययो यस्माद्विहितः, तस्यान्यप्रत्ययान्तस्यापि कुत्वं भवतीत्यस्मिन्नर्थे व्यवस्थिते रज्जुसृङ्भ्यामित्यत्रापि ब्राश्चादिसूत्रेण
8|2|36 षत्वं यत्? प्राप्नोति तद्बाधित्वा कृत्वेन भवितव्यम्। `अथ तु नेष्यते, प्रतिविधानं कत्र्तव्यम्` इति। [नास्ति--प्रांउ।पाठे] प्रतिविधानमुत्तरसूत्रे वाग्रहणं यत्? तदुभयोर्योगयोः शेषः। व्यवस्थितविभाषा च, तेनेह न भविष्यतीति। एवञ्च सति रज्जुसृभ्याम्, रज्जुसृङ्भ्य इति भवितव्यम्॥