Page loading... Please wait.
6|1|182 - न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः
॥ तस्मै पाणिनये नमः ॥
6|1|182
SK 3726
न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः   🔊
सूत्रच्छेदः
(अव्ययम्) , गो-श्वन्-साववर्णः-राडङ्-क्रुङ्-कृद्भ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गो श्वन्, साववर्णः सौ प्रथमैकवचने यदवर्णान्तम्, राडङ् क्रुङ् कृदित्येतेभ्यो यदुक्तं तन् न भवति। गवा, गवे, गोभ्याम् इति। सावेकाचस् तृतीयादिर् विभक्तिः 6|1|168 इति प्राप्तिः प्रतिषिध्यते। सुगुना, सुगवे, सुगुभ्याम्। अन्तोदात्तादुत्तरपदातिति प्राप्तिः। श्वन् शुना, शुने, श्वभ्याम्। परमशुना, परमशुने, परमश्वभ्याम्। पूर्ववत् प्राप्तिः। साववर्णः सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम्। येभ्यः। तेभ्यः। केभ्यः। राट् राजतिः क्विबन्तः। राजा। परमराजः। अङ् अञ्चतिः क्विबन्तः, तस्य सनकारस्य ग्रहणं विषयावधारणार्थम्, यत्र अस्य नलोपो न अस्ति तत्र प्रतिषेधो यथा स्यात्। नाञ्चेः पूजायाम् 6|4|60। इति प्रतिषिध्यते नलोपः। प्राञ्चा। प्राङ्भ्याम्। नलोपविषये तु भवत्येव विभक्तेरुदात्तत्वम्। प्राचा। प्राचे। प्राग्भ्याम्। क्रुङ् क्विन्नन्त एव क्रुञ्चा। परमक्रुञ्चा। कृत् करोति कृतिर् वा क्विबन्तः। कृता। परमकृता।
`सौ` इति। प्रथमैकवचनस्य सुशब्दस्य ग्रहणं वा स्यात्? सप्तमी बहुवचनस्य वा? तत्र यदि सप्तमीबहुवचनस्य ग्रहणं स्यात्, केभ्यः, तेभ्य इत्यत्र न स्यात्, किंतच्छब्दयोः सप्तमीबहुवचने परतो नावर्णान्तत्वमुपपद्यते; कृतेऽपि त्यादाद्यत्वे `बहुवचने झल्येत्? 7|3|103 इत्येत्त्वविधानात्। प्रथमैकवचनस्य तु ग्रहणे सत्यत्रापि भवति। तस्मादसप्तम्यां एव ग्रहणं युक्तमिति मत्वाऽ‌ऽह--`प्रथमैकवचने यदवर्णान्तम्` इति। अनन्तरमिह प्रतिषेध्यं न भवतीति सर्वस्य षाष्ठिकस्वरस्य प्रतिषेधोऽयं विज्ञायत इतत्याह--`इत्येतेभ्यो यदुक्तं तन्न भवति` इति। शोभना गावोऽस्येति सुगुः, `गोस्त्रियोः` 1|2|48 इत्यादिना ह्यस्वः, `नञ्सुभ्याम्` 6|2|171 इत्युत्तरपदस्यान्तोदात्तत्वम्। `शुना` इति `आयुवमघोनामतद्धिते` 6|4|133 इति सम्प्रसारणम्। `पूर्ववत्? प्राप्तिः` इति। शुना, आभ्यामित्यत्र `सावेकाचः` 6|1|162 इत्यादिना प्राप्तिः। `परमशुना` इति। अत्राति `अन्तोदात्तादुत्तरपदात्` 6|1|163 इत्यन्तोदात्तत्वं तु समासस्वरेण। `राजा, परमराजः` इति। अत्रापि पूर्ववत्प्राप्तिः। `अञ्चतिः क्विन्नन्तः` इति। यद्येवम्, तर्हि तत्र नकारलोपेन न भवितव्यं तस्यैव सनकारस्य ग्रहणं कत्र्तव्यम्। किमर्थं सनकारस्य ग्रहणम्? इत्याह--`तस्य` इत्यादि। एतदपि किमर्थम्? इत्याह--`यत्रास्य` इत्यादि। ननु च सर्वत्रैव लोपेन भवितव्यम्, तत्? कथं नलोपस्याभावः इत्याह--`नाञ्चेः` इत्यादि। `प्राञ्चा` इति। पूर्ववत्? प्रापतिः। प्राञ्चतीति क्विन्। `प्राचा` इति। पूर्ववल्लोपदीर्घत्वे। `क्रुञ्चा` इति। `क्रुच क्रुञ्च कौटिल्याल्पीभावयोः` [ कुत्व क्रुच्च कौटिल्याल्पीभावयोः--धातुपाठः-] (धातुपाठः-185,186), क्विन्? क्रुञ्चेति निपातनान्नलोपाभावः। `परमक्रुञ्चा` इति। समासस्वरेणान्तोदात्तत्वम्। `परमकृता` इति। अत्रापि। `कृतिर्वा` इति। `कृती छेदने` (धातुपाठः-1435) इत्येषः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
एभ्यः प्रागुक्तं न । गवां शता (गवां॑ श॒ता) । गोभ्यो गातुम् (गोभ्यो॑ गा॒तुम्) । शुनश्चिच्छेपम् (शुन॑श्चि॒च्छेप॑म्) । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युन्नम् (तेभ्यो॑ द्यु॒न्नम्) । तेषां पाहि श्रुधी हवम् (तेषां॑ पाहि श्रु॒धी हव॑म्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः (2619) (एकदेशिनः सौ इति सप्तमीबहुवचननिर्णयभाष्यम्) साविति किमिदं प्रथमैकवचनस्य ग्रहणम्, आहोस्वित्सप्तमीबहुवचनस्य ? कुतः सन्देहः ? समानो निर्देशः । पुरस्तादेष निर्णयः ‐ - सप्तमीबहुवचनस्य ग्रहणमिति, इहापि तदेव भवितुमर्हति।। (सप्तमीग्रहणे आक्षेपभाष्यम्) यदि सप्तमीबहुवचनस्य ग्रहणम्, ताभ्यां ब्राह्मणाभ्याम् ‐ - याभ्यां ब्राह्मणाभ्याम् ‐ - अत्र न प्राप्नोति । विधिरप्यत्र न सिध्यति । किं कारणम् ? न ह्येतद्भवति ‐ - यत्सौ रूपम् । इदं तर्हि ‐ - तेभ्यो ब्राह्मणेभ्यः, येभ्यो ब्राह्मणेभ्यः । विधिश्च सिद्धो भवति । प्रतिषेधस्तु न प्राप्नोति ।। (प्रत्याक्षेपभाष्यम्) अस्ति पुनः सप्तमीबहुवचनस्य ग्रहणे किंचिदिष्टं संगृहीतं भवति, आहोस्विद्दोषान्तमेव । अस्तीत्याह । इह ‐ - याभ्यो ब्राह्मणीभ्यः ताभ्यो ब्राह्मणीभ्यः इति । विधिश्च सिद्धो भवति प्रतिषेधश्च । (साविति प्रथमैकवचनकग्रहणे दोषभाष्यम्) अस्तु तर्हि प्रथमैकवचनस्य ग्रहणम् । यदि प्रथमैकवचनस्य ग्रहणम्, तेन इति स्वरः पुंसि न सिद्ध्यति । न चावश्यं पुंस्येव, स्त्रियां पुंसि नपुंसके च । तेन ब्राह्मणेन, तया ब्राह्मण्या, तेन कुण्डेन ‐ - इति । सप्तमीबहुवचनस्यापि ग्रहणे एष दोषः ।। (यत्तदोर्ग्रहणेन प्रथमैकवचनस्थापनभाष्यम्) तस्मादुभाभ्यामपि प्रतिषेधे यत्तदोश्च ग्रहणं कर्तव्यम् ‐ - इति । न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोश्च इति ।। तेनेति यदुपन्यस्तं प्राप्तस्तत्र कथं स्वरः । एकारान्तं यदेकाच् सौ तस्मादत्र परो न टा ।। न चाद्गुणे कृते प्राप्तिर्निषेधादुभयाश्रये । विधावन्तादिवत्त्वस्य चिन्त्यं तस्मादिदं बुधैः ।।