`कृताकारोऽष्टन्शब्दो गृह्रते` इति। यत्रात्वं तत्रौश्त्वं यथा स्यादित्यभिप्रायः। `अष्टौ तिष्ठन्ति` इति। आत्वे कृत औश्त्वम्। `अष्ट तिष्ठन्ति` इति। अत्रात्वाभावादौश्त्वं न भवति। कथं पुनरत्रात्वाभावः, यावता न तत्रात्वविधौ विकल्पस्य प्रतिपादकं किञ्चिदन्यतरस्यांग्रहणादिकमसति? इत्याह--`एतदेव` इत्यादि। कृतात्वनिर्देशस्थैतदेव प्रयोजनम्--यत्रात्वं तत्रैवौशत्वं यथा स्यात्, अन्यत्र मा भूदिति। यदि च नित्यमात्वं स्यात्? तदा कृतात्वस्य निर्देशोऽनर्थकः स्यात्; व्यवर्त्त्याभावात्? `अष्टनः` इत्येवं ब्राऊयात्। तदेवं लघुनिर्देशे सम्भवति सति यत्? कृतात्वस्य निर्देशो गरीयान्? क्रियते, तज्ज्ञापयति--विकल्पेनात्वं भवतीति। यद्यपि चायमर्थः `अष्टनो दीर्घात्`
6|1|166 इत्यत्रापि ज्ञापितः, तथापि विस्मरणशीलानामनुग्रहाय पुनरिह ज्ञाप्यते। अथाष्टपुत्रः, अष्टभार्य इत्यत्र कस्मान्न भवति, `सुपो धातुप्रातिपदिकयोः`
2|4|71 इति लुका बाधितत्वादिति चेत्? न; इहापि तर्हि न स्यात्--अष्टौ तिष्टन्ति, अष्टौ पश्येति। `षङ्भ्यो लुक्?
7|1|22 इति लुका बाधितत्वात्। अथौश्भावस्य लुगपवादत्वादत्र लुक्रं बाधित्वा स एव भवति। पूर्वत्रापि तर्हि स एव स्तात्, अत एव हेतोः? इत्याह--`षङ्भ्यो लुगित्यस्यापवादोऽयम्` इति। अत्रैवोपपत्तिमाह--`नाप्राप्ते` इत्यादि। `षङ्भ्यो लुक्`
7|1|22 इत्यसमासे प्राप्नोति--अष्टौ तिष्ठन्तीत्यादौ, समासे च--अष्टपुत्र इत्यादौ। तस्मान्नाप्राप्ते अष्टभार्यः--इत्यत्र सुब्लुकैव भवितव्यमित्यौशत्वं न भवति। `तदन्तग्रहणम्` इत्यादि। किं पुनरिष्यमाणमपि लभ्यते? `अङ्गाधिकारे तस्य तदुत्तरपदस्य च` (पु।प।वृ।85) इति वचनात्। अथ वा--अष्टाभ्य इत्यर्थप्रधाननिर्देशोऽयं बहुवचननिर्द्देशादवसीयते। शब्दप्रधाने हि निर्देशे `अष्टनः` ब्राऊयात्। अर्थाच्च शब्दद्वारेणैव जश्शसोः परत्वं विज्ञायत इति केवलाच्चाष्टनो भवति। तदन्ताच्चातदन्तेऽपि हि शब्दद्वेरेणार्थात्? परौ जश्शसौ भवत इति। यदि तदन्तग्रहणमत्रेष्यते, प्रियाष्टन इत्यत्रापि प्राप्नोति? अत आह--`प्रियाष्टनः` इत्यादि। प्रिया अष्टौ येषामिति बहुव्रीहिः। ननु च विकल्पेनात्वम्। तत्र यदात्वं न भवति तदा मा भूदौश्त्वम्; यदात्वं तदा स्यादेव; व्यवस्थितविभाषयात्रात्वं न भविष्यतीत्यदोषः॥