Page loading... Please wait.
6|4|7 - नोपधायाः
॥ तस्मै पाणिनये नमः ॥
6|4|7
SK 370
नोपधायाः  
सूत्रच्छेदः
(लुप्तषष्ठ्यन्तनिर्देशः) उपधायाः (षष्ठ्येकवचनम्)
अनुवृत्तिः
दीर्घः  6|3|111 (प्रथमैकवचनम्) , नामि  6|4|3 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
नः अङ्गस्य उपधायाः नामि दीर्घः
सूत्रार्थः
षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नकारान्तशब्दस्य उपधायाः दीर्घः भवति ।
नकारान्तशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सामान्यरूपेण नुडागमः न भवति । परन्तु ये नकारान्तशब्दाः "षट्-संज्ञकाः" सन्ति, तेषां विषये षट्चतुर्भ्यश्च 7|1|55 इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । अस्याम् अवस्थायाम् तस्य नकारान्त-अङ्गस्य उपधावर्णस्य दीर्घादेशः भवति ।

यथा - पञ्चन् शब्दस्य ष्णान्ता षट् 1|1|24 इत्यनेन षट्-संज्ञा भवति । अतः "पञ्चन् + आम्" इत्यत्र षट्चतुर्भ्यश्च 7|1|55 इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । ततः "पञ्चन् + नाम्" इति स्थिते वर्तमानसूत्रेण पञ्चन्-शब्दस्य यः उपधावर्णः अकारः तस्य दीर्घादेशः भवति । अग्रे नकारस्य नलोपः प्रातिपदिकान्तस्य 8|4|7 इत्यनेन लोपे कृते "पञ्चानाम्" इति रूपं सिद्ध्यति ।

ज्ञातव्यम् - यत्र नकारान्तशब्दस्य षट्-संज्ञा न भवति तत्र नकारान्तशब्दात् परस्य आम्-प्रत्ययस्य नुडागमः अपि न भवति, अतः तत्र अयं दीर्घादेशः अपि न दृश्यते । यथा - शशिन् + आम् → शशिनाम् ।
One-line meaning in English
The उपधा of the नकारान्त words becomes दीर्घ when the नकारान्त word is followed by the नाम्-प्रत्यय.
काशिकावृत्तिः
नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। नः इति किम्? चतुर्णाम्। नामि इत्येव, चर्माणाम्।
अनजन्तार्थ आरम्भः। न इति षष्ठएकवचनान्तम्, सौत्रत्वन्निर्देशस्य यकारलोपस्यासिद्धत्वमनाश्रित्य `आद्गुणः` 6|1|84 कृतः। न इति वर्णग्रहणम्, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयन्तीति नकारान्तस्याङ्गस्योपधायाः तस्या दीर्घत्वं विज्ञायत इत्याह--`नकारान्तस्याङ्गस्य` इति। `पञ्चानाम्` इति। `नलोपः प्रातिपदिकान्तस्य` 8|2|7 इति नकारलोपः॥
अनजन्तार्थ आरम्भः, न इति षष्ठ।लेकवचनान्तम् । सौत्रत्वान्निर्द्देशः, अकारश्चोच्चारणार्थ इति । पञ्चानामित्यादौ सुब्विधौ नलोपस्यासिद्धत्वान्नान्तत्वम् । उपधाग्रहणमाद्यचो मा भूत् । नैतदस्ति प्रयोजनम् - दीर्घश्रुत्योपस्थापितमचं नाम्परतया विशेषयिष्यामः , उतरत्र च सर्वनामस्थानपरतया, तत्र येन नाव्यवधानमित्येकेन वर्णेन व्यवधाने भविष्यति उतरार्थ तु इन्हन्पूर्षार्यम्णां शौ इत्यत्र दीर्घविधेरुपधानियमात् इति वक्ष्यति, तदार्थमुपधाग्रहणम् ॥
सिद्धान्तकौमुदी
नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥
नोपधायाः - पञ्चन् आम् इति स्थितेषट्चतुभ्र्यश्चे॑ति नुटि नलोपे तस्याऽसिद्धत्वात् "नामि" इति दीर्घेऽप्राप्ते आह — नोपधायाः ।ने॑ति सुप्षष्ठीकम्, अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । "ढ्रलोपे" इत्यतो "दीर्घ" इत्यनुवर्तते, "नामि" इति सूत्रं च । तदाह — नान्तस्येत्यादिना । नलोप इति । नलोपस्याऽसिद्धत्वात्प्रथमं दीर्घे ततो नलोप इत्यर्थः । परमेति । परमाश्च ते पञ्च चेति विग्रहः । "षड्भ्यो लुक्" इत्यस्यषट्चतुभ्र्यश्चे॑त्यस्य चाङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । प्रियाः पञ्च यस्येति बहुव्रीहिः । प्रियपञ्चन्शब्दो विशेष्यनिघ्नः त्रिलिङ्गः । तस्य पुंस्त्वे विशेषमाह — गौणत्वे त्विति ।षड्भ्यो लु॑गितिषट्चतुभ्र्यश्चे॑ति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः । प्रयिपञ्चेति । सुटि हलादौ च राजवत् । शसादावचि तु "अल्लोपोऽनः" इत्यकारलोप नस्य श्चुत्वेन ञकारः । चकारे तु परेऽनुस्वारस्य परसवर्णे ञकारः स्थित एव । तथाच ञकारद्वयमध्ये चकारः । अष्टन्शब्दो नित्यं बहुवचनान्तः ।
नोपधायाः - नोपधायाः ।ने॑ति लुप्तषष्ठीकं पदमङ्गस्य विशेषेणम् । नलोपस्यऽसिद्धत्वात्नामी॑पि दीर्घो न प्रवर्तत इत्ययमारम्भः । गौणत्वे त्विति । बहुवचमनिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः । प्रियपञ्च्ञामिति । ञद्वयमध्ये चकारः ।
लघुसिद्धान्तकौमुदी
नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.