Page loading... Please wait.
8|2|5 - एकादेश उदात्तेनोदात्तः
॥ तस्मै पाणिनये नमः ॥
8|2|5
SK 3658
एकादेश उदात्तेनोदात्तः   🔊
सूत्रच्छेदः
एकादेशः (प्रथमैकवचनम्) , उदात्तेन (तृतीयैकवचनम्) , उदात्तः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उदातेन सह अनुदात्तस्य य एकादेशः स उदात्तो भवति। अनुदात्तस्य इति वर्तते। अग्नी। वायू। वृक्षैः। प्लक्षै। उदात्तेन इति किम्? पचन्ति। यजन्ति। लसार्वधातुकानुदात्तत्वे कृते द्वयोरनुदात्तयोः अयम् एकादेशः, पररूपे कर्तव्ये स्वरितस्य असिद्धत्वात्।
`अनुदत्तस्य` इति। उदात्तेन सहानुदात्तस्य यस्मिन्नेकादेशः स उदात्तः स्यात्, न तु स्वरितः। स्वरिते प्राप्त इदमारभ्यते। उदाहरणेष्वग्निप्रभृतयः प्रातिपदिकस्वरेणान्तोदात्ताः (फि।सू।1।1) विभक्तिस्तु `अनुदात्तौ सुप्तितौ` 3|1|4 इत्यनुदात्ता। `अग्नी, वायू` इति। `प्रथमयोः पूर्वसवर्णः` 6|1|98 इति दीर्घः। `वृक्षी, प्लक्षौ इति। `वृद्धिरेचि` 6|1|85 इति वृद्धिः। `पचन्ति, यजन्ति` इति। `अतो गुणे` 6|1|94 पररूपत्वम्। `द्वयोरनुदात्तयोरयमेकादेशः` इति। ननु च `उदात्तादनुदात्तस्य स्वरितः` 8|4|65 इति शबकारस्य स्वरितत्वे कृते स्वरितानुदात्तयोरयमेकादेशः, तत्कथं द्वयोरनुदात्तयोरिति? एवमाह--`पररूपे कत्र्तव्ये स्वरितस्यासिद्धत्वात्`॥
ठनुदातस्यऽ इति वर्तते । अग्न्यादिशब्दाः प्रातिपदिकस्वरेणान्तोदाताः, विभक्तिरनुदाता । पचन्तीति । अत्र शबकारस्य यत्स्वरितत्वम् ठुदातादनुदातस्य स्वरितःऽ इति, तस्यासिद्धत्वाद् द्वयोरनुदातयोरेकादेशः ॥
सिद्धान्तकौमुदी
उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.