Page loading... Please wait.
8|2|4 - उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य
॥ तस्मै पाणिनये नमः ॥
8|2|4
SK 3657
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य   🔊
सूत्रच्छेदः
उदात्तस्वरितयोः (षष्ठीद्विवचनम्) , यणः (पञ्चम्येकवचनम्) , स्वरितः (प्रथमैकवचनम्) , अनुदात्तस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उदात्तयणः स्वरितयणश्च परस्य अनुदात्तस्य स्वरितः आदेशो भवति। उदात्तयणः कुमार्यौ। कुमार्यः। उदात्तनिवृत्तिस्वरेण अयम् ईकारः उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात् परस्य अनुदात्तस्य स्वरितः आदेशो भवति। स्वरितयणः सकृल्ल्व्याशा। खलप्व्याशा। सकृल्लूः, खलपूः इति कृत्स्वरेण अन्तोदातौ, तयोः रोः सुपि 8|3|16 इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्य आशाशब्दाकारस्य अनुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयणः इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति? आश्रयात् सिद्धत्वं भविष्यति। यदि एवम्, उदात्तादनुदात्तस्य स्वरितः 8|4|66 इत्येतस्य अपि आश्रयात् सिद्धत्वं प्राप्नोति, ततश्च दध्यशा इत्यत्र अपि स्वरितः स्यात्? तस्मादयम् एव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते, उदात्तात् स्वरितयणो ऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते यास्ते विश्वाः समिधः सन्त्यग्ने इति। अग्ने इत्ययम् अकारः स्वरितः पठ्यते। तथा ब्राह्मणे ऽपि दध्याशयति इत्याकारः स्वरितः पठ्यते इति। यथा तु वार्तिकं भाश्यं च, तथा उदात्तात् स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवति इति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणम् इदं प्रत्याख्यायते। सकृल्ल्व्याशा इत्येवम् आदौ उदात्तयणः इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानम् अव्यवधानम् एव, स्वरिविधौ व्यञ्जनम् अविद्यमानवतिति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावात् व्यवधानम् अस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति। उदात्तस्वरितयोः इति किम्? वैदी आशा वैद्याशा। शार्ङ्गरव्याशा। अनुदात्तयणादेशो ऽयम्। अनुदात्तस्य इति किम्? कुमार्यत्र। किशोर्यत्र। अत्र इत्ययम् आद्युदात्तो लित्स्वरेण।
`उदात्तयणः, स्वरितयणश्च` इति। उदात्तस्थाने यो यण स उदात्तयण; स्वरितस्थाने यो यण्? स स्वरितयणित्यर्थः। `कुमार्यौ, कुमार्यः` इति। अत्र `अनुदात्तौ सुप्तितौ` 3|1|4 इत्यौजसावनुदात्तौ, तयोरुदात्तयणोः परयोः स्वरितो भवति। `उदात्तनिवृत्तिस्वरेण` इति। उदात्तलोपनिमित्तस्वरः पूर्वमुदात्तस्य लोपो यस्मात्, स पुनरुदात्तनिवृत्तिस्वरः `अनुदात्तस्य च यत्रोदात्तलोपः` 6|1|155 इत्यत्र यो विहिसः स [नास्ति--कांउ। पाठे] वेदितव्यः। `कृत्स्वरेणान्तोदात्तौ` इति। `ल्व्या प्व्या` इति। लूपूभ्यां धातुस्वरेणान्तोदात्ताभ्यां क्विप्, `उपपदमतिङ्` 2|2|19 इति समासः। `गतिकारकोपपदात्? कृत्` 6|2|138 इति कृदन्तस्योत्तरपदस्य प्रकृतिभावदिधानादेतौ कृत्स्वरेणान्तोदात्तौ भवतः। `उदात्तयणाअदेशश्च` इति। इहनेन सूत्रेणानुदात्तयोदात्तयणः परस्य स्वरितो विधीयते, स्वरितयणश्च परसय सप्तम्येकवचनस्य पूर्वेण प्रकारेण स्वरितो विधीयत इति दर्शयति। `तस्य यो यण्` इति। तस्येत्यनेन सप्तम्येकवचनस्य परामर्शः। `आशाशब्दाकारस्यानुदात्तस्य` इति। `आशाया अदिगारव्या चेत्` (फि।सू।1।18) इत्याशाशब्द आद्युदात्तः, तेन `अनुदात्तं पदमेकवर्जम्` 6|1|152 इत्याकारस्यानुदात्तत्वम्। `ननु च` इत्यादि। सप्तम्येकवचनस्य `उदात्तयणः` इत्येवमनेन सुत्रेण यत्? स्वरितत्वं विहितं तत्? षाष्ठिकयणादेशे कत्र्तव्येऽसिद्धम्, ततश्च नैवायं स्वरितस्य स्थाने यणादेश इति सकृल्ल्व्याशा खलप्व्यशेत्यत्र स्वरितत्वं न भवतीत्यभिप्रायः। `आश्रयात्` इत्यादि। आहायम्--स्वरितयण इति; न क्वचित्? सिद्धः स्वरितः। तत्राश्रयात्? सिद्धत्वं भविष्यति, यथा `अतो रोरप्लुतादप्लुते` इत्यत्र रुत्वस्य। `यद्येवम्` इत्यादि। एतेनाश्रयात्? सिद्धत्वे समाश्रोयमाणेऽतिप्रसङ्गमुद्भावयति। `दध्याशा` इति। दधिशब्दः `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्तः, शेष स्यानुदात्तत्वम्, `उदात्तादनुदात्तस्य स्वरितः` 8|4|65 इति धकारात्परस्येकारस्य स्वरितत्वम्। तस्याश्रयात्? सिद्धत्वे तत्स्थानिकाद्यण उत्तरस्याशाशब्दाकारस्य स्वरितत्वं स्यात्। `तस्मात्` इत्यादि। यत एवमाश्रयात्? सिद्धत्व आश्रीयमाणेऽयमतिप्रसङ्गो भवति; तस्मादयमेव यण्स्वरो योऽनेन सूत्रेण 8|2|4 विधीयते, तस्य यणादेशे कत्र्तव्ये सिद्धत्वं वक्त्व्यम्। वक्तव्य मित्यस्य व्याख्यानमर्थः। तत्तु पूर्ववदेव योगादिभागमाश्रित्य कत्र्तव्यम्। `केचित्तु` इत्यादि। यद्येवमित्यादिना योऽतिप्रसङ्गदोष उद्भावितः, तं केषाञ्चिन्मतेन परिहरति। अनिष्टेऽपि विषये प्रवृत्तिरतिप्रसङ्गः। न च `उदात्तादनुदात्तस्य स्वरितः` 8|4|66 इत्यनेनोदात्तात्? परो यः स्वरितो विधीयते तस्याश्रयात्? सिद्धत्वमानिष्टम्; यस्मादुदात्तात्? परो यः स्वरितयण्? तत्परस्यानुदात्तस्य स्वरितत्वम्, ततः स्थानित्वाद्यणः परस्याशाशब्दाकारस्य स्वरितत्वं तैत्तिरीयके शाखान्तरे पठते। तदनुदात्तत्वं पुनरग्निशब्दसयाकारस्य; तस्य प्रातिपदिकस्वरेणान्तोदात्तत्वात्। `तथा ब्राआहृणेऽपि इति। [इति-नस्ति--प्रांउ।पाठे] तदेकदेशविशेषो ब्राआहृणशब्देनेह विवक्षितः। `दध्याशयति` इति। अश्नोतेर्णिजन्तस्य धातुस्वरेण चित्स्वरेण वान्तोदात्तादकारोऽनुदात्तः। तस्य स्वरितयणः परस्य ब्राआह्णे स्वरितत्वं पठते। `यथा तु` इत्यादि। एतेन तमेवातिप्रसङ्घं समर्थयते। वार्तिककारेणोक्तम्--`आक्षयात्? सिद्धमिति चेदुदात्तात्? स्वरिते दोषः` इति। अस्यायमर्थः--यद्याश्रयात्? स्वारतस्य सिद्धत्वमुदात्तात्? परो यः स्वरितस्तस्य यो यण्? ततः परस्यानुदात्तस्य स्वरितत्वमिष्टं स्यात्, तत्र दोषः। तेनानेन सूत्रेण स्वरितत्वं न भवतीति स्थितम्। अनेन हि वार्त्तिकेन--उदात्तात्? परो यः स्वरितयण्? तस्मात्परस्यानुदात्तस्य स्वरती भवतीत्येषोऽर्थो न प्रतीयते। तस्मादेतच्च न। यथा भाव्यं तथोदात्तस्यानेन स्वरितयणः परस्यानुदात्तस्य स्वरितो न भवतीति सिद्धं भवतीति। `तथा` इत्यादिनानन्तरमेवार्थं द्रढयति। भाष्ये हि `स्वरितग्रहणं न करिष्यते` इत्यादिना यन्थेन स्वरितग्रहणासिद्धत्वे सूत्रे प्रत्याच्याते। एवञ्च तत्प्रत्याल्यानमुपपद्यते, यद्युदात्तात्? स्वरितयणः परस्यानुदात्तस्य स्वरितत्वं नेष्यते; अन्यथा तन्निमित्तस्य स्वरितस्येष्टौ सत्यां प्रत्याख्यानमुपपन्नमेव न स्यात्। किं [`कि` नास्ति--प्रांउ।पाठेः] पुनर्भाष्ये स्वरितयणो ग्रहणं प्रत्याख्यायते, यावता तस्मिन्? प्रत्याख्याते सकुल्ल्व्याशेथ्येवमादावनुदात्तस्य स्वरितो न सिध्यति? इत्यत आह--`सकृल्ल्व्याशेत्येमादौ` इत्यादि। उदात्तयण्? पुनरत्रोकारवकारेको यकारः। ननु च योऽसौ सप्तम्येकवचनस्य स्थाने जायते तेन व्यवधानान्न सिध्यति? इत्यत आह--`स्वरितयण्` इत्यादि। अत्रैव कारणमाह--`स्वरविधौ` इत्यादि। इतिकरणो हेतौ। यदि स्वरितग्रहणन्तरेणापि सिध्यति, कस्मात्? सूत्रे तद्ग्रहणं क्रियते? इत्यत आह--`तत्तु क्रियते` इत्यादि। `अचः परस्मिन्? पूर्वविधौ` 1|1|56 इत्यस्य हि--पूर्वस्माद्विधौ कत्र्तव्येऽजादेशः स्थानिवद्भवतीत्येषोऽर्थोऽभिमतः। उदात्तयणः परस्यानुदात्तस्य स्वरितविधौ कत्र्तव्य सप्तम्येकवचनस्थाने यो यणादेशस्तस्य स्थानिवद्भावादिकारेण व्यवधानमस्ति; व्यञ्जनस्य स्वरविधावविद्यमानवद्भावात्? (व्या।प।37)। तेन व्यवधानं सति सकृल्ल्व्याशेत्यत्र `उदात्तयणः` इत्येव न सिध्यतीति स्वरितग्रहणं क्रियते। ननु च `नपदान्तरद्विर्वचन` 1|1|57 इत्यादिना स्वरविधौ प्रतिषिध्यते स्थानिवद्भावः। तत्कुतो व्यवधानम्? इत्यत आह--`स्वरदीर्घयलोपेषु` इत्यादि। अचो हि लोपादेशस्य स्वरविधौ [अयं भागः कांउद्रिते नास्ति] स्थानिवद्भावः प्रतिषिध्यते। तथा हि तत्रोक्तम्--`स्वरदीर्घयलोपेषु[अयं भागः कांउद्रिते नास्ति] लोपाजादेशो [लोपादेशो--कांउद्रितपठिः] न स्थानिवद्भवतीति वक्तव्यम्` (1.1.59।वा।1) ति। न चात्राचो लोपादेशः, किं तर्हि? यणादेशः तस्मान्नास्ति स्थाविद्भावप्रतिषेधः। `वैद्याशा` इति। विदस्यायत्यमिति `अनृष्यानन्तर्ये 4|1|104 इत्यादिना विदादित्वादञ्, तदन्तात्? `शाङ्गरवाद्यञो ङीन्` 4|1|73 इति ङीन्। अत्र नित्त्वादाद्युदात्तत्वे कृते शेषस्यानुदात्तत्वमिति बैद्याशाशब्देऽचानुदात्तस्थाने यण्, नोदात्तस्य, नापि स्वरितस्य। `अत्र` इति। `अयमाद्युदात्तो लित्स्वरेण` इति। `सप्तम्यास्त्रल्` 5|3|10 इति त्रल्प्रत्ययान्तत्वात्। `हलि लोः` 7|2|113 इतीद्रूपस्य लोपः॥
ठुदातस्वरितयोःऽ इत्यनुवादेऽपि स्थानषष्ठ।लेषा; व्याख्यानात् । तेन उदातस्वरितयोः समीपवर्ती यो यण् ततः परस्यानुदातस्य स्वरितत्वं न भवति । सकृल्ल्व्याशा, खलप्व्याशा इति । ततः परस्य सप्तम्येकवचनस्य स्वरितत्वमिति । केन ? इत्यत आह---उदातयण् इत्यनेनेति । योऽयमस्मिन्सूत्रे पूर्वो भागः, तेनेत्यर्थः । ठुदातयणो हल्पूर्वात्ऽ इत्युदातत्वं तु न भवति, ठ्नोङ्दात्वोःऽ इति प्रतिषेधात्, आशाशब्दः ठाशाया अदिगाख्या चेत्ऽ इति अन्तोदातत्वादनुदातादिः । तत्कथमयं स्वरितयण् भवतीति । न कथञ्चित्, न ह्ययं स्वरितमपनीय तत्स्थाने भवति । न हि पूर्वं शास्त्रं स्थानिबुध्या आदेशे प्रवर्तते, किं तर्हि ? स्थानिन्येव । यथोक्तम्---ठ्हत इत्येतद् द्विरुच्यतेऽ इति, न पुनस्तद्वुध्या ढशब्दो द्विरुच्यत इति । आश्रयादिति । आहायम्---स्वरितयण इति, न चास्ति सिद्धः स्वरितः, तत्राश्रयात् सिद्धत्वं भविष्यति । एवमुच्यमानेऽतिप्रसङ्गमुद्भावयति---यद्येवमिति । दध्याशेति । दविशब्दः ठ्नब्विषयस्यानिसन्तस्यऽ इत्याद्यौदातः, सेषनिघातः, ठुदातादनुदातस्य स्वरितःऽ इति तस्य स्वरितत्वम्, तस्याश्रयात्सिद्धत्वे सति तत्स्थानिकादपि यणः परस्यानुदातस्य स्वरितत्वप्रसङ्ग इत्यर्थः । तस्मादित्यादि । यत एवमाश्रयात्सिद्धत्वे दोषः, तस्मादयमेव यण्स्वरो यता सिद्धो भवति तथा वक्तव्यम् । तत्कथम् ? योगविभागः करिष्यते--ठुदातयणःऽ, उदातयणः परस्यानुदातस्य स्वरितो भवति; ततः ठ्स्वरितयणः;, स्वरितयणश्च परस्यानुदातस्य स्वरितो भवति, उदातयण इत्येव । तेन उदातयण इत्येवं योऽभिनिर्वृतः स्वरितः, तद्यणः परस्यानुदातस्य स्वरितत्वं भवतीत्यर्थः । तेनास्यैव स्वरितस्याश्रयात्सिद्धत्वं भविष्यति । यद्येवमित्यादिना योऽतिप्रसङ्ग उद्भावितः, तं केषाञ्चिन्मतेन परिहरति---केचित्विति । उदातात्स्वरितयणो पीति । उदातात्परो यः स्वरितः ठुदातादनुदातस्यऽ इति विहितः तस्य यो यण् तस्मादपि परस्येत्यर्थः । तैतिरीयक इति । तितिरिणा प्रोक्तमधीयते तैतिरीयाः, तेषामाम्नायस्तैतिरीयकम्, चरणलक्षणो वुञ् । शाखान्तर इति । वृत्तिकारदेशे या शाखा तदपेक्षं शाखान्तरत्वम् । एकशतं ह्यध्वर्युशाखाः, विशेषवचनो वान्तरशब्दः । यास्ते विश्वा इति । ठ्यद्वृतान्नित्यम्ऽ इति सन्तीत्यस्य निघातप्रतिषेधः, अग्नेशब्दस्यामन्त्रितनिघातः । ब्राह्मण इति । तत्रैव तैतिरीयके दधिशब्द उक्तस्वरः, आशयतीत्यस्य तिङ्निघातः । ननु चोभयत्राप्यत्र यणादेशे कृते ठुदातादनुदातस्य स्वरितःऽ इत्येव स्वरितः, तथा च यत्र स प्रतिषिध्यते ठ्नोदातस्वरितोदयम्ऽ इति, तत्र स्वरितो न दृश्यते च---स्वस्मभ्यमाभर प्रत्यग्निरुपसामग्रमख्यादिति, अयं तु स्वरित उदातस्वरितपरस्यापि भवति---दहाशसो रक्षसः पाह्यस्मानिति । तथा च भाष्येऽप्युदातपर एवानुदातेति प्रसङ्ग उद्भावितः---दध्याशेति । तस्मात् पूर्वोक्तस्यातिप्रसङ्गस्य नायं व्यभिचार इति चिन्त्यमेतत् । निराकरिष्यमाणत्वाद्वास्य नात्र सुष्ठुअ निर्बन्धनीयं दर्शयति---यथा त्विति । अत्र वार्तिकम्---ठ्यण्स्वरो यणादेशे सिद्धो वक्तव्यःऽ, ठ्स्वरितयणः स्वरितार्थः आश्रयात्सिद्धत्वमिति चेदुदातात् स्वरिते दोषःऽ इति । यदि च ठुदातादनुदातस्य स्वरितःऽ इति यः स्वरितः तस्य यो यण् ततः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्याद्, दोषत्वेन वचनमनुपपन्नं स्यात् । भाष्ये तु यथायमर्थः स्थितः, तथा दर्सयति---तथा चेति । अत्र भाष्यम्---ठथ वा स्वरितग्रहणं न करिष्यते; यदि न क्रियते, केनेदानीं स्वरितयणः परस्यानुदातस्य स्वरितत्वं भवति ? उदातयण इत्येव, स्वरितयणा व्यवहितत्वान्न प्राप्नोति, ठ्स्वरविधौ व्यञ्जनमविद्यमानवत्ऽ इति नास्ति व्यवधानम्" इति । यदि चोदातात् स्वरितयणः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्यात् प्रत्याख्यानं न युज्येत । यदि प्रत्याख्यानम्, किमर्थं तर्हि स्वरितयण्ग्रहणं क्रियते ? इत्याह---तत्क्रियत इति । स्थानिवद्भावाद्व्यवधानमस्तीति । यण्स्थानिकेनेकारेण । व्यञ्जनस्य ह्यविद्यमानवद्भावः, नाचः । ननु च ठ्न पदान्तद्विर्वचनऽ इति स्वरविधौ प्रतिषिद्धः स्थानिवद्भावः ? तत्राह---स्वरदीर्घेति । बैद्याशेति । बिदस्यापत्यं स्त्री ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ, ठ्शार्ङ्गवाद्यञो ङीन्ऽ, नित्स्वरेणाद्यौदातो बैदीशब्दः ॥
सिद्धान्तकौमुदी
उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ।। यण्स्वरो यणादेशे स्वरितयणः स्वरितार्थम्।। यण्स्वरो यणादेशे सिद्धो वक्तव्यः।। किं प्रयोजनम्?।। स्वरितयणः स्वरितार्थम् । स्वरितयणः स्वरितत्वं यथा स्यात्, -खलप्व्यटति खलप्व्यश्नाति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। आहाऽय-स्वरितयणःथ्द्य;ति, न चाऽस्ति सिद्धः(1) स्वरितः, तत्राश्रयात्सिद्धत्वं भविष्यति(2)।। आश्रयात्सिद्धत्वमिति(3) चेदुदात्तात्स्वरिते दोषः।। आश्रयात्सिद्धत्वमिति चेदुदात्तात्स्वरिते दोषो भवति-दध्याशा(4) मध्वाशा।। एवं तर्हि योगविभागः करिष्यते। झ्र्ठउदात्तयणः(5)ट उदात्तयणः परस्याऽनुदात्तस्य स्वरितो भवति। ततः स्वरितयणः। स्वरितयणश्च(6) परस्यानुदात्तस्य स्वरितो भवति। उदात्तयण इत्येव।। अथ वा स्वरितग्रहणं न करिष्यते।। केनेदानीं स्वरितयणः परस्याऽनुदात्तस्य स्वरितो भविष्यति?।। उदात्तयण इत्येव।। ननु च स्वरितयणा व्यवहितत्वान्न प्राप्नोति।। स्वरविधौ व्यञ्ञ्जनमविद्यमानवदिति नास्ति व्यवधानम्।। अथ वा नैवं विज्ञायते- स्वरितस्य यण्, स्वरितयण्,स्वरितयण इति।। कथं तर्हि?।। स्वरिते यण् स्वरितयण्,स्वरितयण इति।।