Page loading... Please wait.
8|1|74 - विभाषितं विशेषवचने बहुवचनम्
॥ तस्मै पाणिनये नमः ॥
8|1|74
SK 3655
विभाषितं विशेषवचने बहुवचनम्   🔊
सूत्रच्छेदः
(सामान्यवचनम् (प्रथमैकवचनम्) , ) विभाषितम् (प्रथमैकवचनम्) , विशेषवचने (सप्तम्येकवचनम्) , (बहुवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 अनुदात्तं सर्वमापादादौ  8|1|18
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्वेण विद्यमानवत्त्वे प्रतिषेद्धे विकल्प उच्यते। विशेषवचने समानाधिकरने आमन्त्रितान्ते परतः पूर्वम् आमन्त्रितं बहुवचनान्तं विभाषितम् अविद्यमानवद् भवति। देवाः शरण्याः, देवाः शरण्याः। ब्राहमणा वैयाकरणाः, ब्राह्मणाः वैयाकरणाः। सामान्यवचनाधिकारदेव विशेषवचने इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम्। भुवचनम् इति किम्? माणवक जटिलक। नित्यम् एतद् विद्यमानवदेव। इति वामनकाशिकायां वृत्तौ अष्टमस्य अध्यायस्य प्रथमः पादः। अष्टमाध्यायस्य द्वितीयः पादः।
पूर्वेण नित्यं विद्यमानवत्त्वे प्राप्ति विकल्पार्थमिदं वचनम्। `देवाः शरण्याः` इति। यदाऽविद्यमानवत्त्वं तदा शरन्या इत्यस्यामन्त्रिताद्युदात्तत्वं भवति; अन्यथा निघातः। एवं `ब्राआहृणा वैयाकरणाः` इत्यात्रापि वैयाकरणशब्दस्याद्युदात्तत्वम्, पाक्षिकनिघातश्च वेदितव्यः। अथ विशेषवचनं किमर्थम्, यावता `सामान्यवचनम्` इत्यनुवत्र्तते, सामान्यञ्च विशषापेक्षम्, तत्रान्तरेणापि विशेषवचनं विशेषवचनं विज्ञास्यते? इत्यत आब--`सामान्यवचनाधिकारादेव` इत्यादि। य एवं न शक्नोति मन्दधीः प्रतिपत्तुम्, तं प्रति विस्पष्टार्थ विशेषवचनग्रहणं क्रियते। यदि तर्हि सामान्यस्य विशेषापेक्षत्वात्? सामान्यवचनग्रहणाद्विशेषवचने कार्यं विज्ञायते, तत्र पूर्वसूत्रेऽपि 8|1|73 तत्रैव कार्यं विज्ञायते, तथा च देवदत्त यज्ञवत्तेति प्रत्युदाहरणं द्वयङ्गविकलं स्यात्; तथा हि यथा यज्ञदत्तशब्दो न समानाधिकरणो भवति, तथा विशेषवचनोऽपि। अथासौ विशेषवचनः? एवं सति यथाऽग्ने गृहपत इत्यत्राग्निशब्दः सामान्यवचनोऽपि गृहपतिशभ्देन विशेषाभिधायिना व्यवच्छिद्यमानस्तदग्नि विशेषणं भवति गृहपतिशब्दस्तेन समानाधिकरणः, एवं देवदत्तशब्दो विशेषाभिधायिना यज्ञदत्तशपब्देन व्यवच्छिद्यमानस्तद्वच्य एव विशेषेऽवतिष्ठत इति यज्ञदत्तशब्दस्तेन समाधिकरण इति चिन्त्यमेतत्॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायामष्टमाध्यायस्यप्रथमः पादः- - -अथाष्टमाऽध्यायःद्वितीयः पादः
बहुवचनमिति वार्तिके दर्शनात् प्रक्षिप्तम् । शरणत्वेन प्राप्तिः शरणम्, तत्र साधवः शरण्याः । शरणशब्दो हि शरण्येऽपि दृश्यते---शरणं भवन्तमतिकास्त्रणकमिति । शर्मण्या इति पाठे शर्मणि साधवः शर्मण्याः । सामान्ववचनाधिकारादेवेति । सामान्यस्य विशेषापेक्षत्वाद्यं प्रति सामान्यमित्येतद्भवति, तस्मिन्विशेषवचन एव भविष्यति ॥
सिद्धान्तकौमुदी
अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । द्वेवीः पलुर्वीरुरु नः कृणोत (द्वेवीः॑ पलुर्वीरु॒रु नः॑ कृणोत) । अत्र देवीनां विशेषणं षडिति । देवाशरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ।
सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्) - सु=शोभनौ पादौ यस्येति बहुव्रीहौसंख्यासुपूर्वस्ये॑ति पादशब्दान्त्यलोपे सुपाच्छब्दः । तस्य सुटि रूपाण्याह — सुपादित्यादिना ।
सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्) - सुपादिति । शोभनौ पादौ यस्येति बहुव्रीहिः । सङ्ख्यासुपूर्वस्याऽन्तलोपः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषितं विशेषवचने इह कस्मान्न भवति-ब्राह्मण वैयाकरण?।। बहुवचनमिति वक्ष्यामि।। सामान्यवचनमिति शक्यमवक्तुम्।। कथम्?।। विभाषितं विशेषवचन इत्युच्यते, तेन यत्प्रति विशेषवचनमित्येतद्भवति तस्य भविष्यति।। किं च प्रत्येतद्भवति?।। सामान्यवचनम्। अपर आह-विशेषवचन इति शक्यमवक्तुम्।। कथम्?।। सामान्यवचनं विभाषितमित्युच्यते तेन यत्प्रति सामान्यवचनमित्येतद्भवति(तस्य भविष्यति(1))।। किं च प्रत्येतद्भवति?।। विशेषवचनम्। सामान्यवचनं(1) विभाषितं विशेषवचन इति।। ।। इति श्रीमद्भगवत्पतञ्ञ्जलिमुनिविरचिते व्याकरणमहाभाष्ये अष्टमाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम्।। पादश्च समाप्तः।।