Page loading... Please wait.
8|3|50 - कःकरत्करतिकृधिकृतेष्वनदितेः
॥ तस्मै पाणिनये नमः ॥
8|3|50
SK 3635
कःकरत्करतिकृधिकृतेष्वनदितेः   🔊
सूत्रच्छेदः
कःकरत्करतिकृधिकृतेषु (सप्तमीबहुवचनम्) , अनदितेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कः करत् करति कृधि कृत इत्येतेषु परतः अनदितेः विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये। कः विश्वतस्कः। करत् विश्वतस्करत् करति पयस्करति। कृधि उरु णस्कृधि कृत सदस्कृतम्। अनदितेः इति किम्? यथा नो अदितिः करत्।
वेति निवृत्तम्। `कर्` इति। कृञो लुङः, च्लिः, तस्य `मदत्रे घस` 2|4|82 इत्यादिना लुक्, तिप्, गुणः रपरत्वम्, हल्ङ्यादिना 6|1|66 तिलोपः, रेफस्य विसर्जनीयः, `बहुलं छन्दस्यामाङ्योगेऽपि` 6|4|75 इत्यडागमाभावः। `करत्` इति। कृञो लङ, `कृमृदृरुहिभ्यश्छन्दसि` 3|1|51 इत्यङ, `ऋदृशोरङि गुणः` 7|4|16 इति गुणः, पूर्ववदडागमाभावः। अथ वा लटः शत्रादेशः, व्यत्ययेन शप्। `करति` इति। लट्, तिप्, पूर्ववच्छप्। `कृधि` इति। कृञो लोट्, `सेह्र्रपिच्च` 3|4|87 इति सिपो हिरादेशः, तस्य `श्रुशृणुपृकृवृभ्यश्छन्दसि` 6|4|102 इति धिभावः, `बहुलं छन्दसि` 2|4|73 इति विकरणलुक्। `कृतम्` इति। निष्ठान्तमेतत्। `विआतस्कः` इति। `पञ्चभ्यास्तसिल्` 5|3|7 । `उरुणस्कृधि` इति। पूर्ववन्नसादेशः, णत्वं च। `सदस्कृतम्` इति। सदसि कृतमिति `सप्तमी` 2|1|39 इति योगविभागात्समासः॥
करिति । कृञो लुङ्, ठ्मन्त्रे घसऽ इत्यादिना च्लेर्लुक्, तिपो हलङ्यादिलोपः, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्यडभावः । करदिति । कृञ एव लुङ्, ठ्कृमृदृहिभ्यश्च्छन्दसिऽ इति च्लेरङ् । करतीति । लट्, व्यत्ययेन शप् । कृधीति । कृञो लोट्, सेर्हिः, ठ्बहुलं च्छन्दसिऽ इति शपो लुक्, ठ्श्रुश्रृणुपृकृवृभ्यश्च्छन्दसिऽ इति हेर्धिरादेशः । कृतमिति । कृञ एव क्तः । सकार आदेश इति । षत्वस्याप्युपलक्षणमेतत् । विश्वतस्करिति । अव्यत्वादसमासत्वाच्च ठतः कृकमिऽ इत्यस्याप्रसङ्गः । इतरेषु त्वसमासत्वादप्रसङ्गः । शन्न करत्, यथा नः श्रेयसः करदित्यादौ छान्दसत्वात्सत्वाभावः । तथा कृधीत्यत्र सकार-घकार-कशब्देषु परतस्तैतिरीयके सत्वं न भवति---तन्म आमनसः कृधि स्वाहा, उरुक्षयाय नः कृधि घृतमन्यासै, शं च नः कृधि क्रत्वे ॥
सिद्धान्तकौमुदी
विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.