Page loading... Please wait.
8|3|1 - मतुवसो रु सम्बुद्धौ छन्दसि
॥ तस्मै पाणिनये नमः ॥
8|3|1
SK 3628
मतुवसो रु सम्बुद्धौ छन्दसि   🔊
सूत्रच्छेदः
मतुवसोः (षष्ठीद्विवचनम्) , रु (लुप्तप्रथमान्तनिर्देशः) (प्रथमैकवचनम्) , सम्बुद्धौ (सप्तम्येकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
मतुवसौ पदस्य संहितायाम् सम्बुद्धौ छन्दसि रूँ
सूत्रार्थः
वेदानाम् विषये - मतुप्-प्रत्ययान्तपदस्य क्वसुँ-प्रत्ययान्तपदस्य च संहितायाम् सत्याम् सम्बुद्धि-परे रुँ-आदेशः भवति ।
मतुप्-इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप्‌ 5|3|94 एतादशैः सूत्रेः मतुप्-प्रत्ययः विधीयते । क्वसुँ-इति कश्चन कृत्-प्रत्ययः क्वसुश्च 3|2|107 इत्यनेन लिट्-लकारस्य स्थाने आगच्छति । एतयोः द्वयोः प्रत्यययोः योजनेन प्रातिपदिकम् सिद्ध्यति । अस्मात् प्रातिपदिकात् सम्बुद्धि-एकवचनस्य प्रत्ययः आगच्छति चेत् वेदेषु तस्य पदस्य रूँ-आदेशः कृतः दृश्यते । (रुँ-आदेशः सम्बुद्धि-एकवचनस्य प्रत्ययस्य न भवति, पदस्य भवति इति स्मर्तव्यम् ।)

यथा -
1. "इन्द्र मरुत्व इह पाहि सोमम्" (ऋग्वेदः 3.51.7) - अत्र "मरुत्वः" शब्दस्य प्रक्रिया इयम् अस्ति -
मरुत् + मतुप् + सुँ [ तदस्यास्त्यस्मिन्निति मतुप्‌ 5|3|94 इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः]
→ मरुत् + मन् त् + सुँ [उगिदचाम् सर्वनामस्थाने अधातोः 7|1|70 इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]
→ मरुत् + मन् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँलोपः]
→ मरुत् + वन् त् [झयः 8|2|10 इति मकारस्य वकारादेशः]
→ मरुत् वन् [संयोगान्तस्य लोपः 8|2|23 इति तकारलोपः]
→ मरुत् वरुँ [नकारस्य मतुवसो रु सम्बुद्धौ छन्दसि 8|3|1 इति रुँत्वम्]
→ मरुत्वः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः ।]

ज्ञातव्यम् - उपरिनिर्दिष्टे वाक्ये रुँ इत्यस्य इकारे परे भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यनेन यकारादेशं कृत्वा लोपः शाकल्यस्य 8|3|19 इत्यनेन यकारलोपः भवति ।

2. "जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा" (कृष्णयजुर्वेदः 4.7.15) - अत्र "हरिवः" शब्दस्य प्रक्रिया इयम् अस्ति -
हरि + मतुप् + सुँ [ तदस्यास्त्यस्मिन्निति मतुप्‌ 5|3|94 इत्यनेन मतुप् । सम्बुद्धिवाचकः सुँ-प्रत्ययः]
→ हरि + वत् + सुँ [छन्दसीरः इति मकारस्य वकारादेशः]
→ हरि + वन् त् + सुँ [उगिदचाम् सर्वनामस्थाने अधातोः 7|1|70 इत्यनेन उगित्-प्रत्ययान्तस्य सर्वनामस्थाने परे नुमागमः]
→ हरि + वन् त् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँलोपः]
→ हरि वन् [संयोगान्तस्य लोपः 8|2|23 इति तकारलोपः]
→ हरि वरुँ [नकारस्य मतुवसो रु सम्बुद्धौ छन्दसि 8|3|1 इति रुँत्वम् ]
→ हरिवः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः ।]

3 "मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय" (रूद्रम् - नमकम्) - अत्र "मीढ्वः" इत्यस्य प्रक्रिया इयम् -
मिहँ सेचने + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ मिह् + क्वसुँ [क्वसुश्च 3|2|107 इति क्वसुँ-प्रत्ययः]
→ मीढ्वत् [दाश्वान् साह्वान् मीढ्वांश्च 6|1|12 इति मीढ्वत्-शब्दस्य क्वसुँ-प्रत्यये परे निपातनम् ।]
→ मीढ्वत् + सुँ [सम्बुद्धेः विवक्षायाम् सुँ-प्रत्ययः]
→ मीढ्वत् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँलोपः]
→ मीढ्वरुँ [मतुवसो रु सम्बुद्धौ छन्दसि 8|3|1 इति रुँत्वम् ]
→ मीढ्वः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् -
1. "विद् + शतृ" इत्यत्र शतृ-प्रत्ययस्य अपि विदेः शतुर्वसुः 7|1|36 इत्यनेन वसुँ-आदेशः भवति । परन्तु तत्र अस्य सूत्रस्य प्रयोगः वेदेषु न दृश्यते इति काशिकाकारः वदति ।
2. अस्मात् सूत्रात् आरभ्य "रुँ" इत्यस्य अनुवृत्तिः कानाम्रेडिते 8|3|12 इति यावत् गच्छति । एतानि सूत्राणि "प्रथमम् रुत्वप्रकरणम्" नाम्ना ज्ञायन्ते ।
One-line meaning in English
In case of वेदाः - The words ending in मतुप् or क्वसुँ प्रत्यय exhibit रुँत्वम् when followed by सम्बुद्धि-प्रत्यय.
काशिकावृत्तिः
संहितायाम् इति वर्तते। मत्वन्तस्य वस्वन्तस्य च पदस्य रुः इत्ययम् आदेशो भवति सम्बुद्धौ परतः छन्दसि विषये। मत्वन्तस्य तावत् इन्द्र मरुत्व इह पाहि सोमम्। हरिवो मेदिनं त्वा। मरुतो ऽस्य सन्ति, हरयो ऽस्य सन्ति इति मतुप्। सुप्तकारयोः हल्ङ्यादिलोपे संयोगान्तस्य लोपे च कृते नकारस्य रुः भवति। वस्वन्तस्य खल्वपि मीढ्वस्तोकाय तनयाय मृल। इन्द्र साह्वः। क्वसोर् निपातनम् दाश्वान्साह्वान्मीढ्वांश्च इति। मतुवसोः इति किम्? ब्रह्मन् स्तोष्यामः। सम्बुद्धौ इति किम्? य एवं विद्वानग्निम् उपतिष्ठते। छन्दसि इति किम्? हे गोमन्। हे पपिवन्। वन उपसङ्ख्यानं कर्तव्यम्। यस्त्वायन्तं वसुना प्रातरित्वः। इणः प्रातःपूर्वस्य छन्दसि क्वनिप्। विभाषा भवद्भगवदघवतामोच्चावस्य। छन्दसि भाषायां च भवत् भगवतघवतित्येतेषां विभाष रुः वक्तव्यः, अवशब्दस्य च ओकारादेशः। सामान्येन छन्दसि भाषायां च इदं वचनम्। भवत् हे भोः, हे भवन्। भगवत् हे भगोः, हे भगवन्। अघवन् हे अघोः, हे अघवन्। निपातनविज्ञानाद् वा सिद्धम्। अथ वा भो इत्येवम् आदयो निपाता द्रष्टव्याः। असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते। भो देवदत्तयज्ञदत्तौ। भो देवदत्तयज्ञदत्तविष्णुमित्राः। तथा स्त्रियाम् अपि च दृश्यन्ते, भो ब्राह्मणि इत्यादि। संहिताधिकार उत्तरत्र उपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ नश्छव्यप्रशान् 8|3|7 इति।
`युधोः` 7|1|1 इत्यत्र द्वेष्यपरीहारायोक्तं तत्? `मतुवसोः` इत्यत्रापि द्रष्टव्यम्। `इन्द्रमरुत्व` इति। मरुच्छब्दान्मतुप्, `झयः` 8|2|10 इति यत्वम्, `उगिदचाम्` 7|1|70 इति नुम्, हल्ङ्यादि 6|1|66 संयोगान्त 8|2|23 लोपौ, नकारस्य रुत्वम्, तस्य `भोभगो` 8|3|17 इत्यादिना यकारः, तस्यापि `लोपः शाकल्यस्य` 8|3|19 इति लोपः। `हरिषो मेदिनं त्वा` इति। हरिशब्दान्मतुप्, `छन्दसीरः` 8|2|15 इति वत्वम्, पूर्ववन्नुमादि। अयं त्वत्र विशेषः--`हशि च` 6|1|110 इति रोरुत्वम्, पूर्वेण स ह `आद्गुणः` 6|1|84 । `मीढ्वस्तोकाय` इति। `मिह सेचने` (धातुपाठः-992) लिटः क्वसुः, `दाआआन्? सह्वान्? मीढ्वांश्च` 6|1|12 इत्यद्वित्वम्, अनिट्त्वम्? उपधादीर्घत्वञ्च निपात्यते, `हो ढः` 8|2|31 इति ढत्वम्, रोर्विसर्जनीये कृते तस्य `विसर्जनीयस्य सः` 8|3|34 ति सकारः। शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि दिषये प्रयोगो नास्तीति तस्यानुदाहरम्। अत एव `एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शसात्।`विद्वान्` इति। `विदेः शतुर्वसुः` 7|1|36 । `हे पपिवन्` इति। पातेः पिबतेर्वा परस्य क्वसोः `वस्वेकाजाद्घसाम्` 7|2|67 इतीट्, `आतो लोप इटि च` 6|4|64 इत्याकारलोपः स्थानिवद्भावाद्द्विर्वचनम्। `वन उपसंख्यानम्` इति। अननुबन्धकस्य वनोऽसम्बवात्सामान्येन क्वनिब्बनिपोग्र्रहणम्। यश्च मत्वर्थे `क्वनिब्वनिपौ छन्दसि वक्तव्यौ` (वा।582) इत्यौपसंख्यानिकः, तस्यापि ग्रहणम्। `प्रातरित्व` इति। `इण्? गतौ` (धातुपाठः-1045) प्रातापूर्वः, आतो मनिन्क्वनिब्धनिपश्च` 3|2|74 इत्यनुवत्र्तमाने `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति क्वनिप्, `ह्यस्वस्य पिति कृति तुक्` 6|1|69 । इदं तु सम्पदादित्वादिना क्विपि तुकि तदन्तन्मतुपि `झयः` 8|2|10 इति वत्वे मत्वन्तादेव सिध्यतीति नोपसंख्यानं प्रयोजयति। `विभाषा` इत्यादि। भवच्छब्दः `भातेर्डवतुः` [`भातेर्डवतुप्`--पं।उ।1-64] इति डवतुप्रत्ययान्तो व्युत्पादितः। अव्युत्पन्नं वोकारानुबन्धं प्रातिपदिकम्; इतरौ तु मत्वन्तौ। `हे भोः` इति। नुमो रुत्वे कृतेऽवशब्दस्य सर्वस्यैव स्थान ओकारः क्रियते, नालोऽन्त्यस्य, `नान्र्थकेऽलोन्त्यविधिः` (व्या।प।62) इति कृत्वा। `नुपातविज्ञानात्? सिद्धम्` इति। एतद्ग्रहणकवाक्यम्। `अथ वा` इति। अस्यैव विवरणम्। `असम्बद्धावपि` इत्यादि। एतेन निपातत्वे हेतुं दर्शयति। यद्युपसंख्यानादेव भो इत्येवमादिकं स्यात्, द्विवचनबहुवचनयोर्न स्यात्; सम्बुद्ध्यभावात्। स्त्रियाञ्च सम्बुद्धावपि न स्यात्--भो ब्राआहृणीति; अत्र स्त्रीलिङ्गविशिष्टानामनुपादानात्। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति चेत्, न; विभ्कतौ तत्प्रतिषेधात्--विभक्तौ यत्कार्यं विषीयते तत्रेयं परिभाषा प्रतिषिध्यते; `विभक्तौ लिङ्गविशिष्टस्याग्रहणम्` (व्या।प।30) इति वचनात्। अथापि न प्रतिषिध्यते? एवमपि भवतीति स्थिते इकारस्य[`ईकारस्य`--प्रांउ।पाठः] रुत्वे कृतेऽवशब्दस्य चौकारे कृते रुत्वस्यासिद्धत्वात्? संयोगान्तलोपाभावे सति विसर्जनीये कृतेनिष्टं रूपं स्यात्। तस्मादसम्बुद्धौ, स्त्रियाञ्च दर्शनान्निपाता एवैते वेदितव्याः। निपातत्वं पुनरेषां विभक्तिप्रतिरूपकत्वात्, `विभक्तिस्वरप्रतिरूपकाश्च` (ग।सू।16) इति चादिषु पाठात्। पवञ्च भोः शब्दस्य निपातत्वं स्यात्; भवतेर्विचि कृते गुणे च विभक्त्यन्ते भोःशब्दस्यैव विद्यमानत्वात्, इतरयोस्तु न स्यात्। न ह्रसत्यस्मिशुपसंख्याने भगोशब्दः, अघोःशब्दस्च विभक्त्यन्तोऽस्ति, यत्प्रतिरूपकौ निपातौ स्याताम्। तस्मात्? सौत्रा एवैते निपाता वेदितव्याः; `भोभगोअधोअपूर्वस्य` 8|3|17 इत्यत्र सूत्रे एषां पाठात्। अथ वा--उपसर्गविभक्तित्वरप्रतिरूपकाश्चेति चकारस्यानुक्तसमुच्चयार्थत्वान्निपातत्वमेषां वेदित्वयम्। यदि तर्हि निपातत्वमेषामाश्रित्योपसंख्यानं प्रत्याख्यायते, तदा भोःशब्दप्रयोगे समोस्ततोभोस्तत्रभो इत्यत्र `इतराभ्योऽपि दृश्यन्ते` 5|3|14 ति भवदादियोगे विधीयमानास्तसिलादयो न सिध्यन्ति? अनिष्टस्वाददोषः। यो हि निपातत्वादुपसंख्यानं प्रत्याचष्टे स भोःशब्दप्रयोगे तसिलादीन्नेच्छत्येव॥
ठ्युवोरनाकौऽ इतिवन्मतुवसोरिति निर्देशोऽनुबन्धपरित्यागेन वा सकारान्तस्य वसोर्ग्रहणम्, निपातनाच्चाल्पाच्तरस्य परनिपातः । रु---इत्यविभक्तिको निर्देशः । मरुत्व इति । ठ्झयःऽ इति वत्वम्ऽ तसौ मत्वर्थेऽ इति भसंज्ञा । हरिवो मेदिनमिति । ठ्च्छन्दसीरःऽ इति वत्वम्, ठ्संयोगान्तलोपो रो रुत्वे सिद्धो वक्तव्यःऽ इति वचनात् ठ्हशि चऽ इत्युत्वम् । वन इति । क्वनिब्वनिपोः सामान्येन ग्रहणम् । अनुबन्धानिर्देशादत्र तदनुबन्धकपरिभाषाया अनुपस्थानात् क्वनिपोऽपि ग्रहणम् । प्रातरित्व इति । प्रातरेतीति ठन्येभ्योऽपि दृश्यन्तेऽ इति क्वनिपि ह्रस्वस्य तुक् । अवशब्दस्य चेति । सर्वस्येति द्रष्टव्यम्; अनर्थकेऽलोन्त्यपरिभाषाया अभावात् । उपसंख्यानं प्रत्याचष्टे---निपातविज्ञानाद्वेति । एतदेव विवृणोति---अथ वेति । अवश्यं चैतन्निपातत्वमेव विज्ञेयमित्याह---असम्बुद्धावपि हीति । स्त्रियामिति । भो ब्राह्मणीति । विभक्तिनिमितेषु कार्येषु लिङ्गविशिष्टपरिभाषा नोपतिष्ठत इत्युक्तम्---ठ्न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्ऽ इति, तेन भवतीशब्दस्य रुत्वौत्वे न स्याताम् । अथापि स्याताम् ? एवमीकारस्य रुत्वे अवशब्दस्य चौकारो रूपं न सिध्यति । तस्मादसम्बुद्धौ स्त्रियां च दर्शनान्निपाता एवेति विज्ञेयम् । निपातत्वं च विभक्तिस्वरप्रतिरूपकत्वेनेति । नन्वसत्यस्मिन्नुपसंख्याने भोइत्यादिकः शब्दो विभक्त्यन्तो नास्ति, यत्प्रतिरूपका एते स्युः ? तस्मात्सौत्रा एते निपाताः, ठ्भोभगोअघोःऽ इत्यत्र सूत्रे निर्दिष्टाः, चादिषु वा पठितव्याः । तदेवं प्रत्याख्यातमुपसंख्यानम् । अन्ये त्वाहुः---ठितराभ्योऽपि दृश्यन्तेऽ इति भवदादियोगे विधीयमानास्तसिलादयः, ततः ठ्भोऽ इत्यादावपि यथा स्युरिति वार्तिकारम्भ इति । अन्ये तु---भवदादेरपरिगणितत्वाद् निपाता भोइत्यादयो भविष्यन्तीति मन्यन्ते ॥
सिद्धान्तकौमुदी
रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य (कौमुदी-42) इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः (कौमुदी-3600) इति वत्वम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मतुवसो रु संबुद्धौ छन्दसि ।। मतुवसोरादेशे वन उपसङ्ख्यानम्।। मतुवसोरादेशे वन उपसङ्ख्यानं कर्तव्यम्। यस्त्वायन्तं वसुना प्रातरित्वः। ।। विभाषा भवद्भगवदघवतामोच्चाऽवस्य।। छन्दसि भाषायाञ्चभवत्भगवत्अघवदित्येतेषां विभाषा रुर्वक्तव्यः, ओच्चाऽवस्य वक्तव्यः। भोः। भवन्। भगोः। भगवन्। अघोः। अघवन्निति।। संबुद्धावित्युच्यते तत्रैदं न सिध्यति-भो ब्राह्मणा इति। तथा विभक्तौ लिङ्गविशिष्टग्रहणं(3) नेतीह न प्राप्नोति भो ब्राह्मणि!।। नैषः दोषः। अव्ययमेष भोःशब्दो नैषा भवतः प्रकृतिः(4)।। कथमव्ययत्वम्?।। विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोऽव्ययमित्यव्ययसंज्ञा।। मतुवसो रु