Page loading... Please wait.
8|2|2 - नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति
॥ तस्मै पाणिनये नमः ॥
8|2|2
SK 353
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति   🔊
सूत्रच्छेदः
नलोपः (प्रथमैकवचनम्) , सुप्स्वरसंज्ञातुग्विधिषु (सप्तमीबहुवचनम्) , कृति (सप्तम्येकवचनम्)
अनुवृत्तिः
 असिद्धम्    8|2|1 (प्रथमैकवचनम्) , पूर्वत्र  8|2|1 (अव्ययम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
सुप्-स्वर-संज्ञा-तुग्विधिषु-कृति नलोपः पूर्वत्र असिद्धम्
सूत्रार्थः
नकारलोपः केवलं सुप्-विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृति-तुक्-विधौ एव असिद्धः अस्ति, नान्यत्र ।
पूर्वत्रासिद्धम् 8|2|1 अनेन सूत्रेण सपादसप्ताध्याय्याः प्रति त्रिपाद्याः असिद्धत्वम् उच्यते । इत्युक्ते, त्रिपादीस्थिताः सर्वे विधयः सपादसप्ताध्यायीं प्रति असिद्धाः सन्ति । एवं स्थिते, वर्तमानसूत्रेण अस्य एकः नियमः उच्यते - नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन दीयमानः नकारलोपः केवलं सुप्-विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृति-तुक्-विधौ एव असिद्धः अस्ति, नान्यत्र । पूर्वसूत्रेण उक्तः असिद्धाधिकारः अनेन सूत्रेण नियम्यते, अतः एतत् नियमसूत्रम् ।

कः अर्थः? नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन प्रक्रियायां यः नकारलोपः क्रियते, सः नकारलोपः सम्पूर्णां सपादसप्ताध्यायीं प्रति असिद्धः नास्ति । सपादसप्ताध्याय्याः अन्यानि सूत्राणि अस्मात् लोपात् अनन्तरम् तस्य उपरि अपि कार्यं कर्तुं शक्नुवन्ति । केवलं चतुर्षु विधिषु एव नकारलोपः सपादसप्ताध्यायीं प्रति असिद्धः अस्ति । इत्युक्ते, नकारलोपेन निर्मिते अंशे एते चत्वारः विधयः न भवितुम् अर्हन्ति, परन्तु एतान् विहाय अन्ये विधयः तस्मिन् अंशे भवितुम् अर्हन्ति ।

के एते चत्वारः विधयः? (1) सुप्-विधिः, (2) स्वर-विधिः, (3) संज्ञा-विधिः, तथा (4) कृत्-प्रत्यये परे तुग्विधिः । एतान् चतुरः विधीन् विहाय अन्यान् विधीन् (यथा - सन्धिः, समासः, आदीन्) कर्तुम् इच्छामश्चेत् नकारलोपः सपादसप्ताध्यायीं प्रति असिद्धः नास्ति । यथा , "राज्ञः अश्वः" अस्मिन् समासे -
राज्ञः + अश्वः
→ (राजन् + ङस्) + (अश्व + सुँ) [अलौकिकविग्रहः]
→ राजन् + अश्व [सुपो धातुप्रातिपदिकयोः 2|4|71 इत्यनेन सुप्-प्रत्यययोः लोपः]
→ राज + अश्वः [नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपः]
→ राजाश्वः [अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घसन्धिः]
इति समासः जायते । अत्र नलोपः प्रातिपदिकान्तस्य 8|2|7 इति त्रिपादीसूत्रम् अस्ति । तस्मात् अनन्तरम् अत्र अकः सवर्णे दीर्घः 6|1|101 अस्य षष्ठाध्यायस्य सूत्रस्य प्रयोगं कर्तुं शक्यते, यतः नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन उक्तः नकारलोपः नलोपः सुप्-स्वर-संज्ञा-तुग्-विधिषु कृति 8|2|2 इति सूत्रेण केवलं सुप्विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृत्-प्रत्यये परे तुक्-विधौ एव असिद्धः अस्ति, न अन्यत्र । अतः सवर्णदीर्घसूत्रस्य अकः सवर्णे दीर्घः 6|1|101 सूत्रार्थम् अयं नकारलोपः असिद्धः नास्ति । इत्युक्ते, अयं नकारलोपः अकः सवर्णे दीर्घः 6|1|101 इत्यनेन दृश्यते, अतः राज + अश्वः अस्यामवस्थायाम् सवर्णदीर्घं कृत्वा राजाश्वः इति रूपं सिद्ध्यति ।

इदानीम् ये चत्वारः विधयः नकारलोपस्य कृते असिद्धाः सन्ति, तेषां विषये क्रमेण पश्यामः ।

(1) सुप्-विधेः विषये नकारलोपस्य असिद्धत्वम् -
"सुप्-विधिः" इत्युक्ते सः विधिः यः सुप्-प्रत्ययस्य स्थाने भवति अथवा सुप्-प्रत्यये परे स्थिते भवति । उदाहरणद्वयं पश्यामः =

(1.1) राजन् शब्दस्य तृतीया बहुवचनस्य रूपस्य प्रक्रिया एतादृशी अस्ति -
राजन् + भिस् [तृतीयैकवचनस्य प्रत्ययः]
→ राज + भिस् [नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपः]
→ राजभिः ।
अत्र नकारलोपात् अनन्तरम् "राज + भिस्" अस्यामवस्थायाम् अतो भिस ऐस् 7|1|9 इत्यनेन भिस्-प्रत्ययस्य ऐस् आदेशः किमर्थं न भवति? यतः अतो भिस ऐस् 7|1|9 इत्यनेन उक्तः विधिः सुप्-प्रत्ययस्य स्थाने उक्तः अस्ति । इत्युक्ते, अयं विधिः सुप्-विधिः अस्ति । तथा च, नलोपः सुप्-स्वर-संज्ञा-तुग्-विधिषु कृति 8|2|2 इति सूत्रेण नकारलोपः "सुब्विधौ" असिद्धः अस्ति । अतः अतो भिस ऐस् 7|1|9 एतत् सुब्विधिविधायकं सू्त्रं नकारलोपम् द्रष्टुं न शक्नोति । अतः "राज + भिस्" इत्यत्र भिस्-प्रत्ययस्य ऐस्-आदेशः न भवति ।

(1.2) राजन् शब्दस्य तृतीया द्विवचनस्य रूपस्य प्रक्रियायाम् -
राजन् + भ्याम [तृतीयैकवचनस्य प्रत्ययः]
→ राज + भ्याम् [नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपः]
→ राजभ्याम् ।
अत्र नकारलोपात् अनन्तरम् "राज + भ्याम्" अस्यामवस्थायाम् सुपि च 7|3|102 इत्यनेन अङ्गस्य दीर्घादेशः किमर्थं न भवति? यतः सुपि च 7|3|102 इत्यनेन उक्तः विधिः सुप्-प्रत्यये परे उक्तः अस्ति । इत्युक्ते, अयं विधिः सुप्-विधिः अस्ति । तथा च, नलोपः सुप्-स्वर-संज्ञा-तुग्-विधिषु कृति 8|2|2 इति सूत्रेण नकारलोपः "सुब्विधौ" असिद्धः अस्ति । अतःसुपि च 7|3|102 एतत् सुब्विधिविधायकं सू्त्रं नकारलोपम् द्रष्टुं न शक्नोति । अतः "राज + भ्याम् " इत्यत्र अङ्स्य दीर्घः न भवितुम् अर्हति ।

अनेन प्रकारेण सुब्विधौ नलोपः असिद्धः अस्ति ।

(2) स्वर-विधेः विषये नकारलोपस्य असिद्धत्वम् -
स्वर-विधिः इत्युक्ते तत् सूत्रम् येन शब्दे उपस्थितः कश्चन स्वरः उदात्तः / अनुदात्तः / स्वरितः क्रियते । उदाहरणद्वयं पश्यामः -

(2.1) यस्य शब्दस्य अन्ते "अवती" इति अंशः विद्यते, सः शब्दः यदि कस्यचन नाम दर्शयति (यथा - मनुष्यस्य नाम, नगरस्य नाम आदयः), तर्हि तस्य शब्दस्य अन्तिमः स्वरः अन्तोऽवत्याः 6|1|220 अनेन सूत्रेण उदात्तः भवति । यथा - हंसवती, अजिरवती आदिषु शब्देषु तकारोत्तरः यः ईकारः, सः यद्यपि मूलरूपेण अनुदात्तः अस्ति, तथापि अन्तोऽवत्याः 6|1|220 इत्यनेन सूत्रेण उदात्तः भवति । अयमेव स्वरविधिः । परन्तु अनेनैव सूत्रेण "राजवती" इत्यत्र अन्तिमः ईकारः उदात्तः न भवितुम् अर्हति, यतः "राजवती" अयं शब्दः "राजन् + वती" इत्यस्मात् नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपे कृते सिद्ध्यति । नकारलोपात् अनन्तरम् स्वरविधिः असिद्धः अस्ति, अतः राजवती इत्यत्र अन्तोऽवत्याः 6|1|220 अनेन स्वरविधिना अन्तोदात्तत्वं न भवितुं शक्यते । अतः "राजवती" इत्यस्य अन्तिमः स्वरः अनुदात्तः एव तिष्ठति ।

(2.2) यस्य समस्तपदस्य उत्तरपदम् "अर्म" (= नेत्रस्य काचन व्याधिः) इति अस्ति, यस्य च पूर्वपदम् अकारान्तम् अस्ति, तथा यस्य पूर्वपदे द्वौ वा त्रयः स्वराः सन्ति, एतादृशस्य समस्तपदस्य प्रथमः स्वरः अर्मे चावर्णं द्व्यच्त्र्यच् 6|2|90 अनेन सूत्रेण उदात्तत्वं प्राप्नोति । यथा - "दत्तार्मम्" इत्यत्र दकारोत्तरः अकारः , कुकुटार्मम् इत्यत्र ककारोत्तरः उकारः एतौ अनेन सूत्रेण उदात्तौ भवतः । परन्तु "दशार्मम्" अस्मिन् शब्दे अस्य सूत्रस्य प्रयोगः न भवति, यतः "दशार्मम्" अयं शब्दः "दशन् + अर्म" इत्यस्मात् नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपे कृते सिद्ध्यति । नकारलोपात् अनन्तरम् स्वरविधिः असिद्धः अस्ति, अतः दशार्मम् इत्यत्र अर्मे चावर्णं द्व्यच्त्र्यच् 6|2|90 अनेन स्वरविधिना आद्युदात्तत्वं न भवितुं शक्यते ।

अनेन प्रकारेण स्वरविधेः विषये नलोपः असिद्धः अस्ति ।

(3) संज्ञा-विधेः विषये नकारलोपस्य असिद्धत्वम् -
संज्ञाविधि इत्युक्ते सः विधिः यः अष्टाध्याय्यां संज्ञाप्रकरणे पाठितायाः संज्ञायाः विषये अस्ति । अत्रापि उदाहरणद्वयम् पश्यामः ।

(3.1) पञ्चन्-शब्दस्य स्त्रीलिङ्गरूपम् कथम् सिद्ध्यति? सर्वप्रथमम् तु, नकारान्तशब्देभ्यः स्त्रीत्वस्य विवक्षायाम् ऋन्नेभ्यो ङीप् 4|1|5 इत्यनेन ङीप्-प्रत्ययः विधीयते । परन्तु, ये शब्दाः षट्संज्ञकाः सन्ति तेषां विषये न षट्स्वस्रादिभ्यः 4|1|10 इत्यनेन तस्य निषेधः भवति । पञ्चन्-शब्दस्य विषये किं भवति? ये संख्यावाचिनः शब्दाः नकारान्ताः सन्ति, तेषाम् ष्णान्ताः षट् 1|1|24 इत्यनेन षट्-संज्ञा भवति । अतः अनेन सूत्रेण पञ्चन्-शब्दस्य अपि षट्-संज्ञा भवति, अतः अत्र ङीप्-प्रत्ययः न आगच्छति । इत्युक्ते, पञ्चन्-शब्दस्य स्त्रीत्वस्य विवक्षायाम् अत्र कोऽपि प्रत्ययः न क्रियते । अग्रे प्रक्रियायाम् पञ्चन् इत्यस्य नकारस्य नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन लोपः भवति । एवं लोपे कृते "पञ्च" इति अवशिष्यते । इदानीम्, अयम् तु अकारान्तशब्दः, अतः अस्य अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्ययः कर्तव्यः इति भासते । परन्तु तथा न भवति, यतः अत्र कृतः नकारलोपः संज्ञाविधिषु असिद्धः अस्ति । अतः ष्णान्ताः षट् 1|1|24 इत्यस्य कृते इदानीम् अपि अत्र नकारः एव अस्ति, अतः "पञ्च" इत्यस्यापि षट्-संज्ञा एव भवति, अतः च अत्रापि (ऋन्नेभ्यो ङीप् 4|1|5 इत्यनेन ङीप्-प्रत्ययस्यैव प्रसक्तिं कृत्वा अग्रे) न षट्स्वस्रादिभ्यः 4|1|10 इत्यनेन सः निषिध्यते । अतः "पञ्च" इत्यत्र कोऽपि स्त्रीप्रत्ययः न भवितुं शक्यते । अतः "पञ्चन्" इत्यस्य स्त्रीप्रत्ययान्तरूपम् अपि "पञ्च" इत्येव भवति ।

(3.2) "दत्तश्च दण्डी च" अस्य द्वन्द्वसमासस्य प्रक्रियायाम् "दत्त + सुँ + दण्डिन् + सुँ" इति स्थिते नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन "दण्डिन्" इत्यस्य नकारस्य लोपः भवति । एवं कृते "दण्डि" इति ह्रस्व-इकारान्तशब्दः जायते । अस्य शेषो घ्यसखि 1|4|7 अनेन घिसंज्ञा भवति वा? न भवति, यतः नलोपः संज्ञाविधौ असिद्धः अस्ति, अतः शेषो घ्यसखि 1|4|7 अनेन संज्ञासूत्रेण अत्र नकारलोपः न दृश्यते । "दण्डि" इत्यस्य घिसंज्ञायाः अभावस्य क्व फलम्? द्वन्द्वे घि 2|2|32 अनेन सूत्रेण "द्वन्द्वसमासे घिसंज्ञकः शब्दः समस्तपदे प्रथमः आगच्छति" इति उच्यते । यदि अत्र "दण्डि" शब्दस्य घिसंज्ञा अभविष्यत्, तर्हि सः समस्तपदे प्रथमम् आगत्य "दण्डिदत्तौ" इति समस्तपदम् असेत्स्यत । परन्तु अत्र दण्डिशब्दस्य घिसंज्ञायाः अभावात् तस्य पूर्वनिपातः न भवति, अतः दत्तश्च दण्डी च = दत्तदण्डिनौ इति समस्तपदम् जायते ।


(3) कृत्-प्रत्यये परे तुग्विधिषु नकारलोपस्य असिद्धत्वम् -
"तुग्विधि" इत्यक्ते सः विधिः येन "तुक्" नाम आगमः विधीयते । यदि अयम् आगमः कृत्-प्रत्ययस्य उपस्थितौ विधीयते, तर्हि तदर्थम् नलोपः असिद्धः अस्ति । उदाहरणद्वयं पश्यामः -

(4.1) ब्रह्मभ्रूणवृत्रेषु क्विप् 3|2|87 अनेन सूत्रेण वृत्र-शब्दात् परस्य हन्-धातोः क्विप्-प्रत्ययः विधीयते । "वृत्रम् हन्ति सः" = वृत्रहन् + क्विप् = वृत्रहन् । अग्रे तृतीयाद्विवचनस्य प्रक्रियायाम् "वृत्रहन्" शब्दस्य पदसंज्ञा भवति, अतः नकारस्य नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन लोपः जायते । एवं कृते "वृत्रह" इति ह्रस्वान्तम् अङ्गम् अवशिष्यते । अस्याम् अवस्थायाम् अत्र क्विप्-इति पित्-कृत्-प्रत्ययः अपि अस्ति, तथा "वृत्रह" इति अकारान्तशब्दः अपि अस्ति, अतः ह्रस्वस्य पिति कृति तुक् 6|1|71 इत्यनेन तुगागमः करणीयः इति भासते । परन्तु, तादृशः तुगागमः न भवति, यतः कृत्-प्रत्ययसम्बधी तुगागमः नकारलोपम् न पश्यति । तस्य कृते "वृत्रह" इत्यस्य अन्ते अपि नकारः एव अस्ति । अतः अत्र तुगागमं विना एव "वृत्रहभ्याम्" इति रूपम् सिद्ध्यति ।

(4.2) "वृत्रहनः छाया" इत्यत्र षष्ठीतत्पुरुषसमासे -
वृत्रहन् + ङस् + छाया + सुँ [अलौकिकविग्रहः]
→ वृत्रहन् + छाया [सुपो धातुप्रातिपदिकयोः 2|4|71 इत्यनेन सुप्-प्रत्यययोः लोपः]
→ वृत्रह + छाया [नलोपः प्रातिपदिकान्तस्य 8|2|7 नकारलोपः]
→ वृत्रह त् + छाया [छे च 6|1|73 इति तुगागमः]
→ वृत्रहच्छाया [जश्त्वम्, श्चुत्वम्, चर्त्वम् ]
अस्याम् प्रक्रियायाम् "वृत्रह + छाया" इति स्थिते [छे च 6|1|73 इति तुगागमः (यः हस्वान्तस्यैव अङ्गस्य भवितुं शक्नोति, नान्यस्य) भवितुम् अर्हति, यतः अयं तुगागमः पित्-कृत्-प्रत्ययनिमित्तकः नास्ति, अतः सः नकारलोपम् द्रष्टुं शक्नोति ।

अनेन प्रकारेण वर्तमानसूत्रम् चतुर्षु स्थितिषु नकारलोपस्य असिद्धत्वम् प्रतिपादयति । एताः अवस्थाः विहाय अन्यत्र नकारलोपः असिद्धः नास्ति इति स्मर्तव्यम् ।

ज्ञातव्यम् - वस्तुतः नकारलोपः सपादसप्ताध्यायीं प्रति पूर्वत्रासिद्धम् 8|2|1 इत्यनेनैव असिद्धः आसीत् । परन्तु अनेन सूत्रेण सः "केषुचन स्थितिषु" असिद्धः उक्तः । अस्यैव अर्थः "अन्यासु स्थितिषु असिद्धः न" इति भवति । सिद्धे सति आरम्भो नियमार्थः अनया परिभाषया यः विधिः पूर्वसूत्रेणैव सिद्धिः अस्ति, तस्य पुनः पाठनम् "नियमार्थम्" अस्ति इति ज्ञातव्यम् । अतः एतत् नियमसूत्रम् अस्ति, अनेन सूत्रेण नकारलोपस्य असिद्धत्वम् नियम्यते ।
One-line meaning in English
The नकारलोप given by "न लोपः प्रातिपदिकान्तस्य" is असिद्ध only with reference to (1) सुप्-विधि, (2) स्वरविधि, (3) संज्ञाविधि, and (4) तुगागम caused by a कृत्-प्रत्यय.
काशिकावृत्तिः
नलोपः पूर्वत्र असिद्धो भवति सुब्विधौ, स्वरविधौ, सज्ञाविधौ, तुग्विधौ च कृति। विधिशब्दो ऽयं प्रत्येकम् अभिसम्बध्यमानः स्वरसंज्ञातुकां विधेयत्वात् तैः कर्मषष्ठीयुक्तैः भावसाधनो ऽभिसम्बध्यते। सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः। तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वो ऽसौ सुब्विधिः इति सर्वत्रासिद्धत्वं भवति। सुब्विधौ तावत् राजभिः, तक्षभिः इत्यत्र नलोपस्य असिद्धत्वाततो भिस ऐस् 7|1|9 इति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षसु इति सुपि च 7|3|102 इति, बहुवचने झल्येत् 7|3|103 इति दीर्घत्वमेत्वं च न भवति। स्वरविधौ राजवती इत्यत्र नलोपस्य असिद्धत्वातन्तो ऽवत्याः 6|1|220 इति न भवति। पञ्चार्मम्, दशार्मम्, इत्यत्र नलोपस्य असिद्धत्वातर्मे चावर्णं द्व्यच् त्र्यच् 6|2|90 इति पूर्वपदस्य आद्युदात्तत्वं न भवति। पञ्चदण्डी इत्यत्र नलोपस्य असिद्धत्वादिगन्ते द्विगौ इति पूर्वपदप्रकृतिस्वरो न भवति। संज्ञाविधौ पञ्च ब्राह्मण्यः, दश ब्राह्मण्यः इति नलोपस्य असिद्धत्वात् ष्णान्ता षट् 1|1|24 इति षट्संज्ञा भवति, ततश्च न षट्स्वस्रादिभ्यः 4|1|10 इति टापः प्रतिषेधो भवति। तदेतत् प्रयोजनं कथं भवति? यदि प्रतिकार्यं संज्ञाप्रवृत्तिः इत्येतद् दर्शनम्। या हि जश्शसोर्लुगर्था षट्संज्ञा प्रवृत्ता, तया स्त्रीप्रत्ययप्रतिषेधो न क्रियते इति सा पुनः प्रवर्तयितव्या इति। तुग्विधौ वृत्रहभ्याम्, वृत्रहभिः इति नलोपस्य असिद्धत्वात् ह्रस्वस्य पिति कृति तुक् 6|1|71 इति तुग् न भवति। अत्र केचित् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति तुकं प्रति नलोपस्य अनिमित्तत्वात्, बहिरङ्गलक्षणेन वा असिद्धत्वात्, तुग्विधिग्रहणम् अनर्थकम् इति प्रतिपन्नाः। तत् तु क्रियते परिभाषद्वयस्य अनित्यत्वं ज्ञापयितुम्। कृति इति किम्? वृत्रहच्छत्रम्, वृत्रहच्छाया, छे च 6|1|73 इति तुग् भवति। अत्र सिद्धे सत्यारम्भो नियमार्थः, एतेष्वेव नलोपो असिद्धो भवति, न अन्यत्र। तेन राजीयति, राजायते, राजाश्वः इति ईत्वम्, दीर्घत्वम्, एकदेशश्च सिद्धो भवति।
कृतोत्येतदनन्तरोक्तेन तुग्ग्रहणेनैव सम्बध्यते, न तु सर्वेः सुबादिभिः; अन्यथा यथा विधिशब्दस्य प्रत्येकं विधिसम्बन्धो दर्शितः, तथाऽस्यापि सम्बन्धं दर्शयेत्। इहायं विधिशब्दः सुबादिभिःसम्बध्यमानो भावसाधनो वा सम्बध्येत? कर्मसाधनो वा? तत्राद्ये पक्ष आश्रीयमाणे--राजभिः, तक्षभिरित्यत्रैस्भावे कत्र्तव्ये नलोपस्यासिद्धत्वं न प्राप्नोति, भावसाधने हि यत्रासतो विधानं तत्रासिद्धत्वेन भवितव्यम्, न तु सतः। न चात्रासतः सुपो विधानम्; किं तर्हि? सत एव, यतस्तस्य स्थान ऐस्भावस्य राजभ्यां राजभ्य इत्यत्रापि `सुपि च` 7|3|102 इति दीर्घत्वे `बहुवचने झल्येत्` 7|3|103 इत्येत्त्वे च कत्र्तव्ये नैवासिद्धत्वं प्राप्नोति; यस्मादिह सुपि परतो दीर्घत्वस्यैत्त्वस्य च विधानम्, त्वसतः सुपः। इतरस्मस्तु पक्षे स्वरसंज्ञातुकामसतामेव विधानेन लोपस्यासिद्धत्वमिष्यते, एतच्च न सिध्यति; कर्मसाधने हि विधिशब्दे तैः सम्बाध्यमाने सतामेव तेषामन्यस्मिन्? कार्ये विधीयमाने सत्यसिद्धत्वेन भवितव्यम्, न तु तेषामसतां विधानेन [`विधानेन तु`--प्रांउ।पाठः] शक्यते वक्तुम्--सुपा कर्मसाधनः सम्बध्यते, स्वरादिभिश्च भावसाधन इति। एको ह्रय#ं विधिशब्दः सूत्रोपात्तः, स च भावसाधनो वा स्यात्, कर्मसाधनो वेति; न तूभयसाधनः, न ह्रेकस्योभयसाधनत्वमुपपद्यत इति? --एतच्चोद्यमपाकत्र्तमाह--`विधिशब्दोऽयम्` इत्यादि। यद्येव विधिशब्दः सुप्स्वरादिभिः समुदायेन सम्बध्यते, तदा स्यादयं दोषः। न च समुदायेन सम्बध्यते, किं तर्हि? सुबादिभिः प्रत्येकम्। प्रत्येकञ्चास्मिन्? सम्बध्यमाने यावद्भिः सहायं सम्बध्यते तावन्त्येव स्वरादिदिधौ मलोपोऽसिद्धो भवतीत्येवमादीनि वाक्यानि भवन्ति। नलोपः सुप्स्वरसंज्ञातुग्विधिष्वेतद्ग्रहणकवाक्यं तेषामेव। निबन्धनम्। तेषु च भिन्नेषु वाक्येषु विधिशब्दोऽपि भिन्न एव। तत्र कश्चिद्भावसाधनः, कश्चित्कर्मसाधनः। तत्र स्वरसंज्ञातुकामसतामेव विधाने कत्र्तव्ये नलोपस्यासिद्धत्वमुच्यते, तेन च ते विधीयमानत्वात्? कर्मभावमापद्यन्ते। ततो भावसाधनेन विधिशब्देन कर्मणोऽनभिहितत्वादेषु `कर्त्तृकर्मणो कृति` 2|3|65 इति षष्ठआ भवितव्यम्। तेन तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसम्बध्यते, सुपा च सम्बन्धसामान्यवचनषष्ठन्तेन। `कर्मसाधनः` इति। सुपो विधीयमानेन कार्येण सम्बन्धमात्रम्। सम्बन्धसामान्ये षष्ठी तु यत्र `शेषे` 2|3|50 इति षष्ठी विधीयते तत्र वेदितव्यम्। सम्बन्धसामान्यस्य वचनीति षष्ठीसमासः, सा चासौ षष्ठी चेति विशेषणसमासः सम्बन्धसामान्यवचनषष्ठी अन्ते यस्य सुपः स तथोक्तः। कर्मषष्ठीयुक्तेन सुपा कर्मसाधनस्य विधिशब्दस्य सम्बन्धो नोपपद्यते; कर्मषष्ठनुपपत्तेः। यदि हि सुप्? कर्म स्यात्? तत्र कर्मणि षष्ठी स्यात्, न चासौ सुप्? कर्म; सुपो विधीयमानत्वात्। तत्तु तत्सम्बन्धिकार्यम्। विधीयमानत्वात्? कर्म तद्विधिशब्देनोक्तम्। अतस्तत्रापि तावत्? कर्मषष्टो न सम्भवति, किं पुनरकर्मणि सुपि! [`सुप्`--कांउ।पाठः] `तेन` इत्यादि। यस्मात्? सम्बन्धमात्राभिधायिनी या षष्ठी तदन्तेन सुपा कर्मसाधनो विधिशब्दः सम्बध्यते, तेन हेतुना सुपः स्थाने यो विधिर्भिस ऐस्भावः, सुपि परतः यो विधिर्दीर्घत्वादिर्यस्य सुब्निमित्तं सर्वोऽसौ सुप्सम्बन्धी भवतीति सर्वत्राप्यसिद्धत्वं भवति। ननु च `षष्ठी स्थानेयोया` 1|1|49 इति वचनात्? सम्बन्धविशेषे षष्ठआ भवितव्यम्, न तु सम्बन्धसामान्ये। ततश्च सुप एव स्थाने यत्? कार्यं तत्रैवासिद्धत्वं स्यात्, नान्यत्र? नैतदस्ति; यत्र ह्रादेशो विधीयते--`अस्तेर्भूः` 2|4|52 इत्येवमादौ तत्रास्याः परिभाषाया व्यापारः, न तु यत्र लक्षणान्तरेण विहितं कार्यं कार्यान्तरार्थ मुपादीयते तत्रापि; अन्यथा `उदीकारस्तस्य ग्रहणं भवति। ननु चेह सुपामादेशो न विधीयते, किं तर्हि? लक्षणान्तरविहितस्यापि सिद्धत्वम्। तस्मान्नान्न स्थानेयोगपरिभाषाया 1|1|48 व्यापारः। `राजवती` इत्यादि। राजशब्दाद्मतुप्, `उगितश्च` 5|1|6 इति ङीपि कृते अन्तोऽबत्या` 6|1|214 इत्यन्तोदात्तत्वं प्राप्नोति। नलोपस्यासिद्धतवान्नायमवतीशब्द इति न भवति। तस्मिन्नसति `कनिन्युवृवितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इति राजशब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वात्? राजवतीशब्द आद्युदात्त एव भवति। `पञ्चार्भम्, दशार्मम्` इति। `दिक्संख्ये संज्ञायाम्` 2|1|49 इति मासः। अत्र नलोपे कृतेऽवर्णान्तं पूर्वपद जातमिति `अर्भे चावर्णम्` 6|2|90 इत्यादिना सूत्रेण तस्याद्युदात्तत्वं प्राप्नोति, असिद्धत्वान्न भवति, समासान्तोदात्तत्वमेव 6|1|217 भवति। `पञ्चदण्डि` [पञ्चदण्डी--काशिका] इति। पञ्चानां दणाडिनां समाहार इति `तद्धितार्थ` 2|1|50 इत्यादिना समासः, समाहाहे द्विगुः, `स नपुंसकम्` 2|4|17 इति नपुंसकत्वम्। नलोपे कृत इगन्तता जातेति `इगन्तकालकपालभगालशरावेषु द्विगौ` 6|2|29 इति पूर्वपदस्य प्रकृतिस्वरः प्राप्नोति, नलोपस्यासिद्धत्वान्न भवकति, समासान्तोदात्तत्वमेव 6|1|217 भवति।`तदेतत्` इत्यादि। इह केषाञ्चिदेकयैव संज्ञयाऽनेकसंज्ञाकार्यं क्रियते--`यावन्ति संज्ञाकार्याणि तत्रैकैव संज्ञा प्रवत्र्तते` इति। दर्शनम्। अन्येषां तु `यथा संज्ञयैककार्यं क्रियते तयैवान्यम्, अतो यावन्ति संज्ञाकार्याणि तावस्य एव संज्ञाः प्रवत्र्तन्ते इति दर्शनम्। तत्र पूर्वस्मिन्? दर्शने नेदं प्रयोजनम्; ययैव हि पाक्प्रवृत्त्या संज्ञया `षङ्भ्यो लुक्` 7|1|22 इति जश्शसोर्लुक्कार्यं कृतं तयैव हि टाप्प्रतिषेधो भविष्यति। तस्मादितरस्मिन्? दर्शने तत्? प्रयोजनं भवति। अत्रापि कथमेतत्? प्रयोजनं भवति? इत्याह--`या हि` इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्ते। यस्माज्जश्शसोर्लुगर्था या षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न भवति, तस्मात्? पुनः सा प्रवत्र्तयितव्या। यस्मात्? सा प्रवत्र्तयितव्या तस्मादेतत्? प्रयोजनमित्यर्थः। `वृत्रहाभ्याम्, वृत्रहभिः` इति। वृत्रं हतवानिति `ब्राहृभ्रूणवृत्रेषु क्विप` 3|2|87 तदन्तात्? भ्याम्भिसौ, ततर नलोपे कृते `ह्यस्वस्य पिति कृति तुक्` 6|1|69 स्यात्, असिद्धत्वान्न भवति। `अत्र केचित्` इत्यादि। सन्निपातः=आनन्तर्यम्, तल्लक्षणं निमित्तं यस्य न तथोक्तः। सुपः सन्निपातेन नलोपः। स यदि तुकं प्रवत्र्तयेत्? तत्? सन्निपातं विहन्यात्। अनिमित्तञ्च `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।पा।12) इति। तस्मान्नलोपस्तुकं न प्रवत्र्तयतीति तुग्ग्रहणमनर्थकम्। ननु च तुकः पूर्वान्तत्वात्? तुक्? प्रातपदिकग्रहणेनैव गुह्रते, तत्? कुतस्तस्य सन्निपातस्य विघातः, न हि स्वावयवेनैव स्वस्य व्यवधानमुपपद्यते? नैतदस्ति; ह्यस्वो ह्रागमी तुकः, न तदन्तः समुदायः, तत्कुतस्तस्य प्रातिपदिकग्रहणेन ग्रहणम्? बहिरङ्गलक्षणेन वासिद्धत्वात्? तुकं प्रति नलोपस्य, तुग्विधिग्रहणमनर्थकम्। पदस्य बाहृविभक्तिप्रत्ययमाश्रित्य नलोपो विधीयत इति तस्य बहिरङ्गत्वम्, अन्तर्वर्तिनं पदमाश्रित्य वर्णस्य तुग्विधीयत इति तस्यान्तरङ्गत्वमिति--`असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति। यद्येवम्, युक्तमेवेति प्रतिपन्ना#ः, तत्किमर्थं तुग्ग्रहणं क्रियते? इत्यत आह--`तत्? क्रियते` इत्यादि। अनित्यत्वज्ञापने तु सन्निपातलक्षणपरिभाषायाः प्रयोजनम्--`दृक्षाय` इत्यत्र `सुपि च` 7|3|102 इति दीर्घत्वसिद्धिः। अकारान्ततासन्निपाते हि ङेर्यो 7|1|13 विधीयत इति; तन्निमित्तत्वादिति दीर्घत्वनिमित्तभावोपगमनद्वारेण तद्विघातं न कुर्यात्। अनित्यत्वात्त्? करोति। अन्यच्चात्र प्रयोजनमुत्तरत्रैव वक्ष्यते। बहिरङ्गलक्षणपरिभाषया सुप्यनित्वस्य ज्ञापने--एषा, द्वे इतयत्र टाप्सिद्धिः। अत्र हि त्यादद्यत्वस्य विभक्त्याश्रयत्वाद्बहिरङ्गत्वम्, प्रातिपदिकाश्रयत्वाट्टाबन्तरङ्गः। तत्र टाप कत्र्तव्ये त्यदाद्यत्वस्यासिद्धत्वं स्यात्, ततष्टाप्? न सिद्ध्येत्। अनित्यत्वात्तु सिध्यति। प्रतिदीब्नेत्यत्र `हलि च` 8|2|77 इति दीर्घत्वसिद्धिः प्रयोजनम्। असति तस्यानित्यत्वे `हलि च` इति दीर्घत्वे कत्र्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्? हलि परतो वकारान्तो धातुर्नं भवतीति दीर्घत्वं न स्यात्। अनित्यत्वात्तु सिद्ध्यति। `राजीयति` इति। `सुप आत्मनः क्यच्` 3|1|8 इति क्यच्, `क्यचि च` 7|4|33 इतीत्त्वम्। `राजायते` इति। `कर्त्तुः क्यङ सलोपश्च` 3|1|11 इति क्यङ् `अकृत्सार्वधातुकयोः` 7|4|25 इति दीर्घः। `राजश्यः` इति। `अकः सवर्णो दीर्घः` 6|1|97
अत्र सूत्रे, उतरसूत्रे च कार्योपादानात् कार्ये कार्यस्यासिद्धत्वमुच्यते । ठ्कृतिऽ इत्येततु सम्भवव्यभिचाराभ्यां तुग्विधिनैव सम्बध्यते । विधिशब्दो भावसाधनः, कर्मसाधनश्च; तत्र भावसाधनानां त्रयाणां कर्मसाधनस्य चैकस्यैकशेषः; भिन्नार्थानामपि सरूपाणामेकसेषवचनात् । विधिश्च विधिश्च विधिश्च विधयः, ततो बहुवचनान्तेन विधिशब्देन सुबादीनां द्वन्द्वस्य षष्ठीसमासः । सर्वत्र च शेषलक्षणा षष्ठी । तत्र सुब्विधौ शेष एव शेषः, इतरेषु तु कर्म शेषत्वेन विवक्षितम् । तदिदमुक्तम्---विधिशब्दोऽयमित्यादि । सम्बन्धसामान्यषष्ठ।ल्न्तेनेति । सम्बन्धसामान्यमुच्यते षष्ठ।ल, तदन्तेनेत्यर्थः । सामान्यशब्देन स्थानेयोगव्यवच्छेदः । कथं पुनः ठ्षष्ठी स्थानेयोगाऽ इति परिभाषायां सत्यां सामान्यवचनता लभ्यते ? उच्यते; नात्र सुपः स्थाने किञ्चिद्विधीयते, किं तर्हि ? अनुवादोऽयम्---सुपो यो विधिस्तत्रेति । अनुवादे च परिभाषा न प्रवर्तते; ठुदीचामातः स्थानेऽ इति स्थानेग्रहणाल्लिङ्गात् । सम्बन्धसामान्यवचनषष्ठ।ल्न्तेनेति यदुक्तम्, तत्र प्रयोजनमाह---सुपां स्थान इत्यादि । सर्वोऽसौ सुब्विधिरिति । सर्वस्य सुप्सम्बन्धित्वात्सुबर्थमेव चेदं विधिग्रहणं कृतम् । स्वरादिषु तु नार्थः; तेन यथा ठ्न मु नेऽ इत्यत्र नाभावे कर्तव्ये इत्यर्थी भवति, तथा स्वरादिषु कर्तव्येष्वित्यर्थो भविष्यति । द्वन्द्वात्परस्य तु प्रत्येकं सम्बन्धो दुर्निवार इति भावसाधनत्वमङ्गीकृतम् । ठ्सुब्विधिस्वरसंज्ञातुक्षुऽ इत्युच्यमाने तु न किञ्चिद्यत्नसाध्यम् । राजवतीति । मतुबन्ताद् ठुगितश्चऽ इति ङीप्, राजशब्दः कनिन्प्रत्ययान्तत्वादाद्यौदातः । पञ्चार्ममिति । ठ्दिक्संख्ये संज्ञायाम्ऽ इति समासः, तत्र नलोपे कृते पूर्वपदमवर्णान्तं जातमिति स्वरः प्राप्तोऽसिद्धत्वान्न भवति, समासोदातत्वमेव भवति । पञ्चदण्डीति । समाहारद्विगुः । नलोपस्यासिद्धत्वात् ष्णान्ता षडिति षट्संज्ञा भवतीति । एतच्च यतत्रोक्तम्---ठस्तग्रहणमौपदेशिकप्रतिपत्यर्थम्ऽ इति, तदनाश्रित्योक्तं द्रष्टव्यम् । न षट्स्वस्त्रादिभ्य इति टापः प्रतिषेधो भवतीति । अत्र हि नान्तत्वादाप्प्राप्तः, सोऽपि निषिध्यते; ठ्स्त्रियां यदुक्तं तन्न भवतिऽ इति सामान्येन निषेधविधानात् । तदेतत्प्रयोजनं कथं भवतीति । पाक्षिकत्वं प्रयोजनस्य दर्शयितुं प्रश्नः । केषाञ्चिद्दर्शनम्---अनारभ्य कार्यविशेषमादौ तावत्संज्ञा क्रियते, ततो यस्यां दशायां यत्कार्यं प्राप्तं तत्क्रियते लोकवत्, तद्यथा---लोके दशम्यामुत्थितायां पुत्रस्य नाम दधातीति सकृत्कृतया संज्ञया सर्वाणि कार्याणि क्रियन्ते, न तु प्रतिकार्यं नाम कुर्वन्ति, तद्वदिति । अयं च ठ्यथोद्देशं संज्ञापरिभाषम्ऽ इति पक्षः । कार्यकालपक्षे तु तेनतेन विधिवाक्येनेकवाक्यतापन्नेन संज्ञासूत्रेण संज्ञा प्रणीयत इति प्रतिकार्यं संज्ञाप्रवृत्तिः । तत्राद्ये दर्शने जश्शसोर्लुगर्था या संज्ञा तयैव टाप्प्रतिषेधस्यापि सिद्धत्वान्नेदं प्रयोजनम्, द्वितीये तु पक्षे भवति प्रयोजनमित्याह---यदि प्रतिकार्यमिति । कथं तदा प्रयोजनम् ? इत्याह---या हीति । जश्शसोर्लुगर्थेति । उपलक्षणमेतत्, ङीप्प्रतिषेधार्थेत्यपि द्रष्टव्यम् । स्त्रीप्रत्ययस्येति । टाप इत्यर्थः । अथ प्रथमे पक्षे न कर्तव्यं संज्ञाग्रहणम्, इह हि---दण्डिगुप्तौ, गुप्तदण्डिनाविति नलोपे कृते दण्डिशब्दस्य घिसंज्ञा प्राप्नोति, ततश्च तस्यैव पूर्वनिपातः स्यात्; नलोपस्यासिद्धत्वाद्धि संज्ञाया अभावादनियमः पूर्वनिपातस्य भवति । अत्र के चदित्यादि । सुपः सन्निपातेन नलोपः, स यदि तुकं प्रवर्तयेत् तत्सन्निपातं विहन्यात् । कथं पुनः सन्निपातस्य विघातः, यावता पूर्वान्तस्तुक् स तुग्ग्रहणेन गृह्यते ? सत्यम्; ह्रस्वमात्रभक्तस्तुगित्याश्रित्येदमुक्तम् । बहिरङ्गलक्षणत्वेन वेति । बहिर्भूतविभक्त्यपेक्षो नलोपोऽन्तर्भूतक्विबपेक्षे तुक्यसिद्धो भवतीत्यर्थः । परिभाषाद्वय्साप्यनित्यत्वं ज्ञापयितुमिति । तत्र सन्निपातपरिभाषाया अनित्यत्वाद् वृक्षायेत्यादौ ठ्सुपि चऽ इति दीर्घत्वं भवति । बहिरङ्गपरिभाषायास्त्वनित्यत्वाद् एषा, द्वे इत्यत्र विभक्त्याश्रयं त्यदाद्यत्वं बहिरङ्गमपि प्रातिपदिकाश्रये टापि न सिद्धं भवति । वृत्रहच्छत्रमिति । नात्र सन्निपातलक्षणो नलोपः, नापि नलोपस्य बहिरङ्गत्वम्; तुकोऽपि च्छकारापेक्षत्वात् । राजीयतीति । ठ्क्यचि चऽ इतीत्वम् । राजायत इति । ठकृत्सार्वधातुकयोःऽ इति दीर्घः । राजाश्व इति । ठकः सवर्ण दीर्घःऽ ॥
सिद्धान्तकौमुदी
सुब्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति - नच नलोपस्याऽसिद्धत्वादिह दीर्घ ऐस् एत्त्वं च नेति वाच्यं, नलोपविषयेपूर्वत्राऽसिद्ध॑मित्यस्य प्रवृत्तौ राजाआओ दण्डश्च इत्यादावपि नलोपस्याऽसिद्धत्वात्सवर्णदीर्घ यणाद्यनापत्तेरित्यत आह — नलोपः सुप् । नस्य लोपो नलोपः । विधिशब्दो भावसाधनः, विधानं विधिः । सुप्च स्वरश्च संज्ञा च तुक्च तेषां विधय इति सम्बन्धसामान्यषष्ठआ समासः ।कृती॑ति तु तुकैव सम्बध्यते, अन्यत्राऽसम्भवात्तदाह — सुब्विधावित्यादिना । सुपो विधिः सुब्विधिः । सम्बन्धसामान्यं विवक्षितम् । सुबाश्रयविधाविति यावत् । स्वरस्य विधिः । कर्मणः शेषत्वविवक्षया षष्ठी । स्वरे विधेये इति यावत् । एवं संज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी । संज्ञायां विधेयायामिति यावत् । कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः । इहापि कर्मणः शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक् । तस्मिन् विधेये इति यावत् ।पूर्वत्रासिद्ध॑मित्येव सिद्धेऽन्यनिवृत्तिफलकनियमार्थमेतदित्याह — नान्यत्रेति ।अन्यत्रे॑त्येतदुदाह्मत्य दर्शयति-राजाआ इत्यादाविति । आदिना दण्डयआ इत्यादिसङ्ग्रहः । अत्र सवर्णदीर्घयणादिविधीनां सुब्विध्यटाद्यनन्तर्भावात्तेषु कर्तव्येषु नलोपस्याऽसिद्धत्वाऽभावे सति नकारलोपस्य सत्त्वात्सवर्णदीर्घादिकं निर्बाधमिति भावः । प्रकृते-राजाभ्यां राजभ्य इत्यत्र दीर्घादिन भवत्येवेत्याह — इत्यसिद्धत्वादिति । सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्त्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसङ्ख्याविधिलभ्याऽसिद्धत्वनिषेधाऽभावे सतिपूर्वत्रासिद्ध॑मिति नलोपस्याऽसिद्धत्वान्नदीर्घादिकमित्यर्थः । वस्तुतस्त्वन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एवपञ्च पञ्चनखा भक्ष्याः॑ इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदितरेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशाह्निकभाष्ये प्रपञ्चितम् । तदाह-इत्यसिद्धत्वादिति । ननु दण्डिष्वित्यत्र नलोपे कृत इणः परत्वात्सस्य षत्वमिति स्थितिः । तत्र षत्वविधेः सुबाश्रयविधित्वात्तत्र कर्तव्ये नलोपस्याऽसिद्धत्वात्कथं षत्वमिति चेत्, मैवं — न हि षत्वविधि सुब्विधिः । सुप्त्वं तद्व्याप्यधर्मं वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः । नच षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम् । अस्तु वा षत्वविधिरपि सुब्बिधिस्तथापि तस्मिन् कर्तव्ये नलोपस्याऽसिद्धत्वं न भवत्येव । तदसिद्धत्वंहि किंपूर्वत्रासिद्ध॑मित्यनेनापाद्यते, उतनलोपः सुप्स्वरे॑त्यनेनैव । न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्येऽसिद्धत्वाऽसंभवात् । न द्वितीयः,नलोपः सुप्स्वरे॑त्यनेन हिराजभ्या॑मित्यादौ नलोपस्याऽसिद्धत्वमपूर्वं न विधीयते, किंतुपूर्वत्रासिद्ध॑मित्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते "राजाआ" इत्यादौ सुप्स्वरसंज्ञातुग्बिधिभिन्नसवर्णदीर्घादिविधिसिद्धये । दण्डिष्वित्यत्र तु नलोपस्याऽसिद्धत्वंपूर्वत्रासिद्ध॑मित्यनेन प्राप्तं न भवतीति तस्यनलोपः सुप्स्वरे॑ति सूत्रविषयत्वं न सम्भवति । अन्यथा सुब्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपाऽसिद्धत्वमपूर्वं विधीयेत । राजभ्या॑मित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत, तस्माद्दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावान्नलोपस्य सत्त्वादिणः परत्वाऽनपायात्षत्वं निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रकृतमनुसरामः । स्वरविधौ यथा-पञ्चार्मम् । अत्र नलोपस्याऽसिद्धत्वादकारान्तत्वाऽभावात्अर्मेचावर्णं द्व्यच्ञ्य॑जिति पूर्वपदाद्युदात्तत्वं न भवति । संज्ञाविधौ यथा-दण्डिदत्तौ दत्तदण्डिनौ । अत्रद्वन्द्वे धी॑ति पूर्वनिपातनियमो न भवति, घिसंज्ञाविधौ नलोपस्याऽसिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथा-वृत्रहभ्याम् वृत्रहभिः । अत्रब्राहृभ्रूणवृत्रेषु क्वि॑बिति विहितं क्विपमाश्रित्यह्यस्वस्य पिति कृति तुगि॑ति न तुक्, नलोपस्याऽसिद्धत्वेन ह्यस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणाच्छे चे॑ति तुग्विधौ नलोपस्य नाऽसिद्धत्वम् । ततश्च वृत्रहच्छत्रम् । इह स्यादेवछे चे॑ति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेऽपि संनिपातपरिभाषयाह्यस्वस्य पिती॑ति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम् । "स्वादिषु" इति पदत्वद्वारा भ्याम्संनिपातमिमित्तको नलोपस्तद्विघातकं न प्रवर्तयतीत्याशयः ।ननुवृत्रहधन॑मित्यत्र तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकं, तत्र नलोपस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य संनिपातनिमित्तकत्वाऽभावादिति चेन्न, तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येनतादृशसंनिपाताऽनिमित्तकनलोपविषयाणांवृत्रहझन॑मित्यादीनामनिधानकल्पनादित्यास्तां तावत् । राज्ञि-राजनीति । "विभाषा ङिश्योः" इत्यल्लोपविकल्प इति भावः । प्रतिदिवेति ।दिवु क्रीडादौ॑ । तस्मात्कनिन्युवृषितक्षी॑त्युणादिसूत्रेण कनिन्प्रत्ययः । कनावितौ । इकार उच्चारणार्थः । प्रतिदिवन्शब्दात्सुबुत्पत्तिः ।सर्वनामस्थाने चे॑ति दीर्घः । हल्ङ्यादिना सुलोपे "प्रतिदिवा" इति रूपम् । सुटि राजवत् । अस्येति । प्रतिदवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः ।
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति - नलोपः सुप्स्वर ।पूर्वत्रासिद्ध॑मित्यनेनैव नियमार्थोऽयमारम्भ इत्याह — नान्यत्रेत्यादि । तेनराजाआ॑इत्यादौ सवर्णदीर्घो कर्तव्ये नलोपोऽसिद्धो न भवतीति भावः । सुब्विधिमिदाहरति — आत्वमित्यादिना । सुबाश्रितो विधिः — सुब्विधिः । स्वरविधौ तुपञ्चार्मम् ।दिक्सङ्खये संज्ञाया॑मिति समासे नलोपे कृते अवर्णान्तं पूर्वपदं जातमितिअर्मे चाऽवर्णं द्द्यच्त्र्य॑जिति पूर्वपदाद्युदात्तत्वं प्राप्तंनलोपस्यादिद्धत्वान्न भवति.थ संज्ञाविधौपञ्चेत्यत्र नलोपे कृतेऽपी॑त्यादिना स्त्रीप्रत्ययेषु वक्ष्यति । अन्येतु — ॒दण्डिगुप्तौ॒॑गुप्दण्डिना॑वित्यप्युदाहरन्ति । अत्र नलोपस्याऽसिद्धत्वाद्धिसंज्ञा नास्तीतिद्वन्द्वे घी॑ति पूर्वनिपातनियमो न भवतीत्याहुः । कृति तुग्विधाविति किम् वृत्रहच्छत्रम् । इह स्यादेवछे चे॑ति तुक् । यद्यपिवृत्रहभ्या॑मित्यत्रअसिद्धं बहिरङ्गमन्तरङ्गे॑इत्यनेनैव नलोपस्याऽसिद्धत्वं सिध्यति, तथाप्यस्याः परिभाषाया अनित्यत्वज्ञापनार्थं कृति तुग्ग्रहणं, तेन॒या॒॑से॑त्यादि सिध्यति । अन्यथा विभक्त्यश्रयस्याऽत्वस्य बहिरङ्गत्वेनाऽसिद्धत्वाट्टाब्न स्यात् । एतच्चनजानन्तर्ये बहिष्ट्वप्रक्लृप्ति॑रित्यत्रयत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्य॑मिति हरदत्तादिमतेन कैश्चिदुक्तम् ।उत्तरकार्ये अच आनन्तर्य॑मिति कैयटमते तु नाऽत्र बहिरङ्गपरिभाषा प्रवर्तते ।या॒॑से॑त्यत्र टाप्तु संनिपातपरिभाशषामपि बाधित्वान यासयो ॑रिति निर्देशादेव सिध्यतीति ज्ञेयम् । प्रतिदिवेति ।कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः॑इति कनिन् ।
लघुसिद्धान्तकौमुदी
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥ यज्वा। यज्वानौ। यज्वानः॥
महाभाष्यम्
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति सुब्विधिं प्रति नलोपोऽसिद्धो भवतीत्युच्यते भवेदिह राजभिः तक्षभिः इति, नलोपे कृतेऽतःथ्द्य;त्यैस्भावो न स्यात्। इह तु खलु राजभ्यां तक्षभ्यां राजसु तक्षसु इति,-नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः।। नैषः दोषः। ।। सुब्विधिरिति(1) सर्वविभक्त्यन्तः समासः।। झ्र्सुब्विधिरिति सर्वविभक्त्यन्तः(2) समासःट। सुपो विधिः सुब्विधिः, सुपि विधिः सुब्विधिरिति। अथ संज्ञाविधौ किमुदाहरणम्?। पञ्ञ्च सप्त।। पञ्ञ्च सप्तेत्यत्र नलोपे कृते ष्णान्ता षडिति षट्संज्ञा न प्राप्नोति। असिद्धत्वाद्भवति।। संज्ञाग्रहणानर्थक्यं च तन्निमित्तत्वाल्लोपस्य।। संज्ञाग्रहणं चाऽनर्थकम्।। किं कारणम्?।। तन्निमित्तत्वाल्लोपस्य। नाऽकृतायां षट्संज्ञायां जश्शसोर्लुक्,न चाऽकृते लुकि पदसंज्ञा, न चाऽकृतायां पदसंज्ञायां नलोपः प्राप्नोति। तदेतदानुपूर्व्या सिद्धं भवति।। इदं तर्हि प्रयोजनं पञ्ञ्चभिः सप्तभिः इति। षट्त्रिचतुर्भ्यो हलादिः झल्युपोत्तममित्येष स्वरो यथा स्यात्।। ।। स्वरेऽवधारणाच्च(1)।। स्वरेऽवधारणाच्च सञ्ञ्ज्ञाग्रहणमनर्थकम्। स्वरेऽवधारणं क्रियते-स्वरविधिं प्रतीति। क्रियते-स्वरविधिं प्रतीति।। इदं(1) तर्हि ‐ दण्डिदत्तौ दत्तदण्डिनौ(1)। तुग्विधौ किमुदाहरणम्?।। वृत्रहभ्याम् वृत्रहभिः। नलोपे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोत्यसिद्धत्वान्न भवति।। तुग्विधौ चोक्तम्(2)।। (तुग्विधौ चोक्तम्(3))।। किमुक्तम्?।। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति।। इदं तर्हि प्रयोजनंकृतीति वक्ष्यामीति। इह मा भूत्-ब्रह्महच्छत्रम्। भ्रूणहच्छाया(1)। न ह्येषे संनिपातलक्षणो नलोपः।।