Page loading... Please wait.
5|1|61 - सप्तनोऽञ् छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|1|61
SK 3491
सप्तनोऽञ् छन्दसि   🔊
सूत्रच्छेदः
सप्तनः (पञ्चम्येकवचनम्) , अञ् (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
परिमाणम्  5|1|57 (प्रथमैकवचनम्) , अस्य  5|1|57 (षष्ठ्येकवचनम्) , तत्  5|1|57 (प्रथमैकवचनम्) , वर्गे  5|1|60 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्  5|1|19 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य परिमाणम्" (इति) वर्गे सप्तनः छन्दसि अञ्
सूत्रार्थः
"अस्य वर्गस्य परिमाणम्" अस्मिन् अर्थे प्रथमासमर्थात् "सप्तन्" शब्दात् वेदेषु अञ्-प्रत्ययः कृतः दृश्यते ।
"सप्त अस्य वर्गस्य परिमाणम्" अस्मिन् अर्थे वेदेषु सप्त-शब्दात् अञ्-प्रत्ययः कृतः दृश्यते -

सप्त अस्य वर्गस्य परिमाणम्
= सप्त + अञ्
→ साप्त [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]

यथा - ऋग्वेदे 1.20.7 इत्यत्र "ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते" अयम् प्रयोगः दृश्यते । अत्र "साप्तानि" इत्युक्ते "सप्त येषां परिमाणम्, तानि वर्गाणि" इति अर्थः ।

अस्य सूत्रस्य विषये कौमुदीकारः अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि पाठयति । तानि एतानि -

1. शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः । इत्युक्ते, "तद् अस्य वर्गस्य परिमाणम्" अस्मिन् अर्थे वेदेषु "शन्" तथा "शत्" इत्यन्ताः शब्दाः "डिनि" प्रत्ययम् अपि स्वीकुर्वन्ति ।
उदाहरणम्
अ) पञ्चदशन् + डिनि → पञ्चदशिन् । यथा - "आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः" इति मानवश्रौत्रसूत्रे उल्लेखः अस्ति ।
आ) त्रिंशत् + डिनि → त्रिंशिन् ।
वस्तुतः एतत् वार्त्तिकम् भाष्यकारेण प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5|2|37 इत्यत्र पाठ्यते ।

2. विंशतेश्चेति वाच्यम् । "विंशति" शब्दात् अपि , "तद् अस्य वर्गस्य परिमाणम्" अस्मिन् अर्थे वेदेषु "डिनि" प्रत्ययः कृतः दृश्यते ।विंशतिः परिमाणम् अस्य तत् = विंशति + डिनि -→ विंशिन् ।
एतत् वार्त्तिकम् अपि भाष्यकारः प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5|2|37 इत्यत्र पाठयति ।

3. युष्मदस्मदोः सादृश्ये वतुब्वाच्यः । "युष्मद्" तथा "अस्मद्" एताभ्याम् सर्वनामशब्दाभ्याम् "सादृश्यम्" दर्शयितुम् "वतुँप्" प्रत्ययः भवति । यथा -

अ) युष्मत् + वतुँप्
→ युष्मत् + वत् [इत्संज्ञालोपः]
-> त्वत् + वत् [प्रत्ययोत्तरपदयोश्च 7|2|98 इत्यनेन "युष्म" इत्यस्य "त्व" आदेशः भवति ।]
→ त्वावत् [आ सर्वनाम्नः 6|3|91 इति आकारादेशः । अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः ]
यथा - ऋग्वेदे 6.30.4 - "स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑" ।

आ) अस्मत् + वतुँप्
→ अस्मत् + वत् [इत्संज्ञालोपः]
→ मत् + वत् [प्रत्ययोत्तरपदयोश्च 7|2|98 इत्यनेन "अस्म" इत्यस्य "म" आदेशः भवति ।]
→ मावत् [आ सर्वनाम्नः 6|3|91 इति आकारादेशः । अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः ]
यथा - ऋग्वेदे 1.17.2 - गन्ता॑रा॒ हि स्थोऽ॑वसे॒ हवं॒ विप्र॑स्य॒ माव॑तः ।

एतत् वार्त्तिकम् भाष्यकारः काशिकाकारः च यद्तदेतेभ्यः परिमाणे वतुप्‌ 5|2|39 इत्यत्र पाठयति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वर्गे इत्येव, तदस्य परिमानम् इति च। सप्तन् शब्दाच् छन्दसि विषये ऽञ् प्रत्ययो भवति वर्गे ऽभिधेये। सप्त साप्तानि असृजत्।
संख्यालक्षणे कनि प्राप्ते सप्तञ्शब्दाच्छन्दस्यञ्विधानम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
तदस्य परिमाणम् - (कौमुदी-1723) इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥ शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः (वार्तिकम्) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः ॥ ।विंशतेश्चेति वाच्यम् (वार्तिकम्) ॥ विंशिनोऽङ्गिरसः ॥ ।युष्मदस्मदोः सादृश्ये वतुब्वाच्यः (वार्तिकम्) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.