Page loading... Please wait.
7|1|11 - नेदमदसोरकोः
॥ तस्मै पाणिनये नमः ॥
7|1|11
SK 349
नेदमदसोरकोः   🔊
सूत्रच्छेदः
(अव्ययम्) , इदम्-अदसोः (षष्ठीद्विवचनम्) , अ-कोः (षष्ठीद्विवचनम्)
अनुवृत्तिः
ऐस्  7|1|9 (षष्ठ्येकवचनम्) , भिस्  7|1|9 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अकोः इदम्-अदसोः भिसः ऐस् न
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इदम् अदसित्येतयोः अककारयोः भिस ऐस् न भवति। एभिः। अमीभिः। अकोः इति किम्? इमकैः। अमुकैः। अकोः इत्येतदेव प्रतिषेधवचनं ज्ञापकम् तन्मध्यपतितस्तद्ग्रहनेन गृह्यते इति। इदमदसोः कातिति नोक्तम्, विपरीतो ऽपि नियमः सम्भाव्येत इदमदसोरेव कातिति। ततश्च इह न स्यात्, सर्वकैः, विश्वकैः। इह च स्यादेव, एभिः, अमीभिः। प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम्।
अविद्यमानः ककारो ययोस्तवकौ। `एभिः` इति। इदमस्त्यदाद्यत्वम्, `बहुवचने झल्येत्` 7|3|103 इत्येत्त्वम्, `हलि लोपः` 7|2|113 इतीद्रूपस्य लोपः। `अमीभिः` इति। अदस एत्त्वे कृते `एत ईदवहुवचने` 8|2|81 इतीत्त्वम्, दस्य च मत्वम्। `इमकैः` इति। `अव्ययसर्वनाम्नामकच्प्रक्टोः` 5|3|71 इत्यकच्, `दश्च` 7|2|109 इति दकारस्य मत्वम्। `अमुकैः इति। `अदसोऽसोर्दादु दो मः` 8|2|80 इति मत्वोत्वे। अथ `नेदमदसोः` इत्येवं कस्मान्नोक्तम्, किमकोरत्यनेन, अकोरित्यनुच्यमाने सककारयोरपि अतिषेधः स्यादिति चेत्? नैतदस्ति; इदमदसोर्हि प्रतिषेध उच्यमानः कः प्रसह्गो या सककारयोः स्यात्? नैव प्राप्नोति शब्दान्तरत्वादित्याह--`अकोरित्येत्` इत्यादि। ज्ञापकस्य प्रयोजनम्--अकज्वतां सर्वनामसंज्ञा सर्वादीनाम्, स्वरादीनाञ्चाव्ययसंज्ञा। अथ `इदमदसोः कात्` इति कस्मान्नोक्तम्, तत्र पूवणैव सिद्धे नियमार्थ भविष्यति--इदमदसोः सम्बन्धो यो भिस्? तस्य कादेव परस्यैस्? भवति, इत्येवं विज्ञायमाने नियमे सर्वमभीष्टं नियमे सर्वमभीष्टं सिध्यत्येव, लघु च सूत्रं भविष्यति? सत्यमेतत्; किन्त्वस्मिन्? सूत्रविन्यासे `तन्मध्यपतितस्तद्ग्रहणेन गृह्रते` (व्या।प।21) इत्येषा न ज्ञापिता स्यात्। विपरीतनियमोऽपि भन्दधीभिराशङ्क्येत--इदमदसोरेव कादिति। तत्रायं नियमार्थः स्यात्--इदमदसोरेव यः ककारस्तस्मात्? परस्य भिस ऐस्भवतीति। ततो विआकैः, सर्वकैरित्यत्र न स्यात्; नियमेन व्यावर्त्तितत्वात्। इह च स्यादेव--एभिः, अमीभिरिति। नियमेनाव्यावर्त्तितत्वात्। तस्माद्यथान्यासमेवास्तु॥
इदमदसोः इति भिसपेक्षया सम्बन्धलक्षणा षष्ठी । एभिरिति । त्यदाद्यत्वम्, हलि लोपः इतीद्भागस्य लोपः । अमीभिरिति । ऐसि प्रतिषिद्धे बहुवचने झल्येत् इत्येत्वम् एत ईद्वहुवचने इतीत्वमत्वे । एअकोरित्येतदनर्थकम्, कथम् विशिष्टरुपाश्रयोऽयं प्रतिषेधः - इदमदसोः इति, तत्राकचि कृते रुपभेदादेव न भविष्यति तत्राह - अकोरित्येतदेवेति । ज्ञापनस्य परयोजनम् - सर्वके इत्यादौ सर्वनामकार्यप्रवृत्तिः । इमौ द्वौ प्रतिषेधावुच्येते, द्वावपि शक्याववक्तुम् । कथम् एवं हि वक्ष्यामि - इदमदसोः कात् इति, तन्नियमार्थं भविष्यति - इदमसोरेव कादिति । ततश्च सर्वकैरित्यादौ न स्यात्, एभिरित्यादौ च स्यादेव - तन्मध्यपरिभाषा च न ज्ञापिता स्यात् । क्वचितु वृतावेव पठ।ल्ते - इदमदसोः कादिति नोक्तम्, विपरीतोऽपि नियमः स्यात् - इदमदसोरेव कादितीति ॥
सिद्धान्तकौमुदी
अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥ ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
नेदमदसोरकोः - नेदमदसोः । भाष्ये तुइदमदसोः कात् । नियमार्थमिदम् ।इदमदसोः कादेव भिस ऐस् नान्यतः॑इति स्थितम् । नव्यास्तु — ॒इदमदसो का॑दिति सूत्रिते तुकाद्भिस ऐस् इदमसोरेवे॑ति विपरितनियमोऽपि संभाव्येत । तथाचपाचकै॑रित्यादि न सिध्येत् । किं तुइदमदसोः काद्भिस ऐस्॒अतः॑इत्येव सूत्रद्वयं सुवचमित्याहुः । स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्कायामाह — नित्यत्वान्हेः स्मै इति ।
लघुसिद्धान्तकौमुदी
अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥
महाभाष्यम्
नेदमदसोरकोः इमौ द्वौ प्रतिषेधावुच्येते उभौ शक्याववक्तुम् ।। कथम् ? ।। एवं वक्ष्यामि ‐ इदमदसोः(2) कादिति; तन्नियमार्थं भविष्यति- इदमदसोः कादेव नान्यत इति ।। ( नेदमदसोरकोः ) ।।