Page loading... Please wait.
7|2|113 - हलि लोपः
॥ तस्मै पाणिनये नमः ॥
7|2|113
SK 347
हलि लोपः   🔊
सूत्रच्छेदः
हलि (सप्तम्येकवचनम्) , लोपः (प्रथमैकवचनम्)
अनुवृत्तिः
विभक्तौ  7|2|84 (सप्तम्येकवचनम्) , इदमः  7|2|108 (षष्ठ्येकवचनम्) , इदः  7|2|112 (षष्ठ्येकवचनम्) , अकः  7|2|112 (षष्ठ्येकवचनम्) , आपि  7|2|112 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अकः इदमः इदः आपि हलि विभक्तौ लोपः
सूत्रार्थः
अककारान्त-इदम्-शब्दस्य "इद्" इत्यस्य तृतीयातः सप्तमी-यावत्सु हलादिप्रत्ययेषु परेषु लोपः भवति ।
सूत्रार्थज्ञानात् पूर्वम् आदौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानाम् अर्थम् पश्यामः -
1. "अकः इदमः" इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5|3|71 अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे "अकच्" प्रत्ययः विधीयते । एवं क्रियते चेत् "इदकम्" इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे "अकः" इति निर्दिष्टम् अस्ति ।
2. अस्मिन् सूत्रे प्रयुक्तः "आप्" अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य "आङ्" इत्यस्मात् सप्तमी-बहुवचनस्य "सुप्" इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः "आप्" इत्यनेन क्रियते ।

अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य "इद्" इत्यस्य तृतीयातः सप्तमीपर्यन्तं हलादौ विभक्तौ परे लोपः भवति । अनाप्यकः 7|2|112 इत्यनेन निर्दिष्टस्य "अन्" आदेशस्य अयम् अपवादः । उदाहरणानि एतानि -

1) इदम् + भ्याम्
→ इद अ + भ्याम् [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इद + भ्याम् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ अ + भ्याम् [अनाप्यकः 7|2|112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः 7|2|113 इत्यनेन इद्-इत्यस्य लोपः भवति ]
→ आभ्याम् [सुपि च 7|3|102 इति अङ्गस्य दीर्घः]

2) इदम् + ङे [स्त्रीलिङ्गस्य चतुर्थ्येकवचनम्]
→ इद अ + ए [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इद + ए [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इद् + टाप् + ए [अजाद्यतष्टाप् 4|1|4 इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः]
→ इद् अ स्याट् ए [सर्वनाम्नः स्याड्ढ्रस्वश्च 7|3|114 इति स्याट्-आगमः, अङ्गस्य ह्रस्वादेशः]
→ अ स्या ए [अनाप्यकः 7|2|112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः 7|2|113 इत्यनेन इद्-इत्यस्य लोपः भवति ]
→ अ स्यै [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ अस्यै

3) इदम् + ङसिँ [पञ्चमी-एकवचनस्य प्रत्ययः]
→ इद अ + अस् [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इद + अस् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इद + स्मात् [ङसिङ्योः स्मात्स्मिनौ 7|1|15 इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः]
→ अ + स्मात् [अनाप्यकः 7|2|112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः 7|2|113 इत्यनेन इद्-इत्यस्य लोपः भवति ]
→ अस्मात्

4) इदम् + भ्यस् [स्त्रीलिङ्गस्य पञ्चम्यीबहुवचनम्]
→ इद अ + भ्यस् [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इद + भ्यस् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इद + टाप् + भ्यस् [अजाद्यतष्टाप् 4|1|4 इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः]
→ अ + आ + भ्यस् [अनाप्यकः 7|2|112 इत्यनेन इद्-इत्यस्य अन्-आदेशे प्राप्ते अपवादत्वेन हलि लोपः 7|2|113 इत्यनेन इद्-इत्यस्य लोपः भवति ]
→ आ + भ्यस् [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ आभ्यः [विसर्गनिर्माणम्]

ज्ञातव्यम् -
1. नानर्थके अलोऽन्त्यविधिः अनभ्यासविकारे अनभ्यासविकारे इति काचन परिभाषा अस्ति । अस्याः सामान्यः अर्थः अयम् - यत्र स्थानीः षष्ठ्यन्तम् अनर्थकम् पदम् अस्ति, तत्र अलोऽन्त्यस्य 1|1|52 अस्य प्रयोगः न भवति । अतः अत्र "इद्" इत्यत्र सम्पूर्णशब्दस्य लोपः भवति, न हि केवलस्य अन्तिम-दकारस्य ।
2. "इदकम्" शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -
इदकम् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः]
→ इदक अ + भ्याम् [त्यदादीनामः 7|1|102 इति मकारस्य अकारः]
→ इदक + भ्याम् [अतो गुणे 6|1|97 इति पररूपः अकारः]
→ इमक + भ्याम् [दश्च 7|2|109 इति दकारस्य मकारादेशः]
→ इमकाभ्याम् [सुपि च 7|3|102 इति गुण-एकादेशः]
One-line meaning in English
The "इद्" part of the word "इदम्" is removed when followed by a हलादि विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it.
काशिकावृत्तिः
हलादौ विभक्तौ परतः इदमो ऽककारस्य इद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। नानर्थके ऽलोन्त्यविधिः इति सर्वस्य अयम् इद्रूपस्य लोपः। अथ वा न अयम् इल्लोपः। अनाप्यकः 7|2|112 इति अङ्ग्रहणम् अनुवर्तते।
पूर्वेणानादेशे प्राप्ते हलादाविद्रूपस्य लोपो विधीयते। `आभ्याम्` इति। त्यदद्यत्वम्; अतो गुणे 6|1|94 पररूपत्वम्, `सुपि ;ट 7|3|102 इति दीर्घत्वञ्च। अथालोऽन्त्यपरिभाषया 1|1|52 न्त्यस्यायं लोपः कस्मान्न भवति? इत्याह--`नानर्थके` इत्यादि। अभ्युपेत्यानर्थकेऽलोऽन्त्यविधिं परिहारान्तरमाह--`अथ वा` इत्यादि। न चाल्ग्रहणं कत्र्तव्यम्, यतस्तदनुवत्र्तते? इत्यत आह--`अनाप्यकः` इत्यादि। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, तथापि हलीति सप्तमी अन्निति षष्ठीत्वं प्रकल्पयिष्यति; `तस्मिन्निति निर्द्दिष्टे पूर्वस्य` 1|1|65 इति वचनात्। एवं परिहारो भाष्यकारमतेन बोद्धव्यः; अस्याः परिभाषया अनङ्गीकरणात्। अत्र दर्शने तु त्रयाणामकराणां पररूपमेकादेशं कृत्वा दीर्घत्वादि विधेयम्॥
अन्ग्रहणमनुवर्तत इति । यद्यपि तत्प्रथमान्तम्, तथापि हलीति सप्तम्या तस्य षष्ठी प्रकल्प्यते ॥
सिद्धान्तकौमुदी
अककारस्येदम इदो लोपः स्यादापि हलादौ ॥नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे (वार्तिकम्) ॥
हलि लोपः - भ्यामादौ त्यदाद्यत्वे पररूपे च कृते "अनाप्यकः" इति प्राप्ते-हलि लोपः । "आप्यक" इति पूर्व सूत्रादनुवर्तते । "इदमो मः" इत्यत "इदम" इतिइदोऽय् पुंसी॑त्यत "इद" इति "अष्टनः" इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणं । तदादिविधिः । तदाह-अककारस्येत्यादिना । अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह — नानर्थक इति । परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता । इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते । ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः । अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौमृञामित्, अर्तिपिपत्र्योश्चे॑तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात् । द्वित्वे सति समुदायस्यैवार्थवत्त्वात् । "हलि लोप" इत्यत्र लोपग्रहणपनीय "हल्य" शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपेसुपि चे॑ति दीर्ङे आभ्यामित्यादिसिद्धेः ।
हलि लोपः - नानर्थकेऽलोन्त्यविधिरिति । नन्वेवंबिभर्ति॒॑पिपर्ती॑त्यादौभृञामित्॒अर्तिपिपत्र्योश्चे॑तीत्त्वं सर्वस्याऽभ्यासस्य स्यात्, द्वित्वाऽभावे केवलस्याऽर्थवत्त्वेऽपि द्वित्वे सति समुदायस्यैवाऽर्थवत्त्वादित्याशङ्कायामाह — अनभ्यासविकार इति ।
लघुसिद्धान्तकौमुदी
अककारस्येदम इदो लोप आपि हलादौ। नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.