`अहिंसार्थोऽयमारम्भःट इति। हिंसायाम् `हिंसार्थानाम्`
3|4|48 इति वक्ष्यमाणेन सिद्धत्वा। `नित्यसमासार्थः` इति। हिंसार्थस्यापीति शेषः। `उपपदमतिङ्`
2|2|19 इति नित्यसमासो यथा स्यादित्येवमर्थोऽयमारम्भः। तेन तु प्रत्यये सति `तृतीयाप्रभृतीन्यन्यतरस्याम्`
2|2|21 इति विकल्पेन स्यात्। `यथाविध्यनुप्रयोगार्थश्च` इति। `कषादिषु यथाविध्यनुप्रयोगः`
3|4|46 इति। यस्माद्धातोर्णमुल् विहितस्तस्यैवानुप्रयोगो यथा स्यात्, तेन तु प्रत्यये धात्वन्तर्सयानुप्रयोगः स्यात्।ननु च यता हन्तिहिंसार्थो भवति तदा परत्वात् तेनैव भवितव्यम्, तत्कथं नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्च हिंसार्थस्य हन्तेरयमारम्भो युज्यते? इत्यत आह-- `पूर्वविप्रतिषेधेन` इत्यादि॥