Page loading... Please wait.
6|4|31 - क्त्वि स्कन्दिस्यन्दोः
॥ तस्मै पाणिनये नमः ॥
6|4|31
SK 3321
क्त्वि स्कन्दिस्यन्दोः   🔊
सूत्रच्छेदः
क्त्वि (सप्तम्येकवचनम्) , स्कन्दि-स्यन्दोः (षष्ठीद्विवचनम्)
अनुवृत्तिः
नलोपः  6|4|23 (प्रथमैकवचनम्) , उपधायाः  6|4|24 (षष्ठ्येकवचनम्) , न  6|4|30 (अव्ययम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
स्कन्दि-स्यन्दोः उपधायाः नलोपः क्त्वि न
सूत्रार्थः
क्त्वा-प्रत्यये परे स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति ।
स्कन्दिँर् (गतिशोषणयो) तथा स्यन्दूँ (प्रस्रवणे) एतौ भ्वादिगणस्य धातू । एतयोः उपस्थितस्य नकारस्य कित्/ङित्-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन वस्तुतः लोपः भवति । परन्तु "क्त्वा"-प्रत्यये परे वर्तमानसूत्रेण अयं लोपः निषिध्यते । यथा -

1. स्कन्द् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3|4|21 इति क्त्वा-प्रत्ययः]
→ स्कन्द् + त्वा [अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन नलोपे प्राप्ते क्त्वि स्कन्दिस्यन्दोः 6|4|31 इति नलोपप्रतिषेधः ]
→ स्कन्त्त्वा, स्कन्त्वा [खरि च 8|4|55 इति दकारस्य चर्त्वे तकारः । झरो झरि सवर्णे 8|4|65 इति वैकल्पिकः तकारलोपः]

2. स्यन्द्-धातुः ऊदित् अस्ति, अतः अयम् वेट्-धातुः अस्ति (इत्युक्ते, अस्य विषये वैकल्पिकः इडागमः भवति) । अतः अत्र पक्षद्वयम् भवति -
(अ) इडागम-अभावपक्षे स्कन्द्-धातुवदेव प्रक्रिया भवति, तथा "स्यन्त्त्वा / स्यन्त्वा" एते रूपे सिद्ध्यतः ।
(आ) इडागमस्य पक्षे न क्त्वा सेट् 1|2|18 इत्यनेन कित्वप्रतिषेधः भवति । इत्युक्ते, इडागमस्य उपस्थितौ क्त्वा-प्रत्यय कित् नास्ति । अतः तत्र अनिदितां हलः उपधायाः क्ङिति 6|4|24 इत्यनेन नलोपः एव न प्रभवति, अतः तस्य नलोपस्य वर्तमानसूत्रेण निषेधः अपि न आवश्यकः । यथा -
स्यन्द् + क्त्वा
→ स्यन्द् + इट् + क्त्वा [स्वरतिसूतिसूयतिधूञूदितो वा 7|2|44 इति वैकल्पिकः इडागमः]
→ स्यन्दित्वा ।
इत्युक्ते, स्यन्द्-धातोः विषये अस्य सूत्रस्य प्रसक्तिः केवलम् अनिट्-प्रक्रियायाम् एव विद्यते, यतः सेट्-प्रक्रियायाम् नकारः तादृशः अपि दृश्यते एव ।
One-line meaning in English
In presence of the क्त्वा प्रत्यय, the उपधा-नकार of the verb roots स्कन्द् and स्यन्द् is not removed.
काशिकावृत्तिः
क्त्वाप्रयये परतः स्कन्द स्यन्द इत्येतयोर् नकारलोपो न भवति। स्कन्त्वा। स्यन्त्वा। स्यन्देरूदित्वात् पक्षे इडागमः। स्यन्दित्वा। तत्र यदा इडागमः तदा न क्त्वा सेट् 1|2|18 इति कित्त्वप्रतिषेधादेव नलोपाभावः।
`स्कन्त्वा` इति। `स्कन्दिर गतिशोषणयोः` (धा।प।979) `पक्षे इडागमः` इति। `स्वरति` 7|2|44 इत्यादिना। `कित्त्वप्रतिषेधान्नलोपभावः` इति। `अनिदिताम्` 6|4|24 इत्यादिना हि क्ङिति नलोपो विधीयते। सेट्क्त्वाप्रत्ययस्य `न क्त्वा सेट्` 1|2|18 इति कित्त्वप्रतिषेधः कृतः, ततश्चेडागमपक्षे कित्त्वाभावादेव नलोपाभाव इति नासाविमं योगं प्रयोजयति। तेन न सेट्क्त्वापरत्ययस्योदाहरणं प्रदर्शितमित्यभिप्रायः॥
न क्त्वा सेडिति कित्वप्रतिषेधादेवेति । तेन सेटः तवाप्रत्ययस्योदाहरणं न प्रदर्शितमिति भावः ॥
सिद्धान्तकौमुदी
एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
क्त्वि स्कन्दिस्यन्दोः - क्त्वि स्कन्दि । स्कन्दिर्गतिशोषणयोः ।इर इत्संज्ञेट ति वार्तिककादिकारमात्रस्येत्संज्ञा नेतिअनिदिता॑मिति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिग्रहणम् । स्कन्त्वेति ।एकाच॑ इति नेट् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.