Page loading... Please wait.
8|4|35 - षात्‌ पदान्तात्‌
॥ तस्मै पाणिनये नमः ॥
8|4|35
SK 3310
षात्‌ पदान्तात्‌   🔊
सूत्रच्छेदः
षात् (पञ्चम्येकवचनम्) , पदान्तात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
षकारात् पदन्तादुत्तरस्य नकारस्य णकारादेशो न भवति। निष्पानम्। दुष्पानम्। सर्पिष्पानम्। यजुष्पानम्। षातिति किम्? निर्णयः। पदान्तातिति किम्? कुष्णाति। पुष्णाति। पदे अन्तः पदान्तः इति सप्तमीसमासो ऽयम्, तेन इह न भवति, सुसर्पिष्केण। सुयजुष्केण। शेषाद् विभाषा 5|3|154 इति कप्।
`निष्पानम्, दुष्पानम्` इति। `इदुदुपधसय` 8|3|41 इति विसर्जनीयस्य षत्वम्। इह `कृत्यचः` 8|4|28 इत्यनेन प्राप्तिः। `सर्पिष्पानम्, यजुष्पानम्` इति। षष्ठीसमासः। `इसुसोः सामर्थ्ये` 8|3|44 इत्यनुवत्र्तमाने `नित्यं समासे` 8|3|45 इत्यादिना विसर्जनीयस्य षत्वम्। अत्र `वा भावकरणयोः` 8|4|10 इति प्राप्तिः। `पदान्तात्` इति षष्ठीसमासोऽयमिति मन्यमानो यो देशयेत्--अथेह णत्वप्रतिषेधः कस्मान्न भवति--सुसर्पिष्केणेति, अत्र पदस्यान्तः षकार इति? तं प्रत्याह--`पदे अन्तः` इत्यादि। षष्ठीसमासे हि सति णत्वस्य प्रतिषेधः स्यात्, न चायं षष्ठीसमासः, किं तर्हि/ `सप्तमी` 2|1|40 इति योगविभागात्? समासः--पदे परभूतेऽन्तः पदान्त इति। न चात्र पदे परभूते षकारोऽन्तः; कशब्दस्यापदसंज्ञकप्वात्। तेनेह न भवति णत्वप्रतिषेधः। शोभनं सर्पिरस्येति बहुव्रीहिः, `शेषाद्विभाषा` 5|4|154 इति कप्॥
निष्पानम्, दुष्पानमिति । ठिदुदुपधस्य चऽ इति विसर्जनीयस्य षत्वम्, अत्र ठ्कृत्यचःऽ इति प्रसङ्गः । सर्पिष्पानमिति । कर्मणि षष्ठयाः समासः । यजुष्पानमिति । ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः । उभयत्रापि ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वम्, अत्र ठ्पानं देशेऽ ठ्वा भावकरणयोःऽ इति प्राप्तिः । पदे अन्त इति । ठ्सप्तमीऽ इति योगविभागात्समासः । सुसर्पिष्केणेति । शोभनं सर्पिरस्येति बहुव्रीहिः, कप्, ठिणः षःऽ इति षत्वम् । नायं पदे परतः पूर्वमवस्थितस्यान्तो भवति । पदस्य त्वन्तो भवति; ठ्स्वादिषुऽ इति पदसंज्ञाया विधानात्, ततश्च षष्ठीसमासेऽत्रापि प्राप्नोति । कथं पुनर्ज्ञायते---सप्तमीसमासोऽयमिति ? अन्तग्रहणात्; अन्यथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव षकारन्तात् पदादिति लभ्यते ॥
सिद्धान्तकौमुदी
नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
षात्पदान्तात् ।। षात्पदादिपरवचनम्।। षात्पदादिपरग्रहणं कर्त्तव्यम्। इहैव यथा स्यात्-निष्पानं दुष्पानम्। इह मा भूत्-सुसर्पिष्केण(2) सयजुष्केण(3)।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नैवं विज्ञायते-पदस्यान्तः पदान्तः, पदान्तादिति।। कथं तर्हि?।। पदे अन्तः पदान्तः, पदान्तादिति।।