`भावादौ` इति। आदिशब्देनाकर्त्तुः कारकस्योपादानम्। `घञजपामपवादः` इति। य इकारान्तास्तेभ्योऽचोऽपवादः, य ऋकारान्ता उवर्णान्ताश्च, तेभ्योऽपः, शेषेभ्यो घञः।वक्तव्य इति। व्याख्येय इत्यर्थः। व्याख्यानं तु `कृत्यल्युटो बहुलम्`
3|3|113 इत्येतदाश्रित्य कत्र्तव्यम्। `आप्तिः` इत्यादि। `आप्लृ व्याप्तौ` (धातुपाठः-1260), `राध साध संसिद्धौ` (धातुपाठः-1262), `दीपी दीप्तौ` (धातुपाठः-1150), `रुआन्सु ध्वन्सु अवरुआंसने` (धातुपाठः- 754,755) `डुलभष् प्राप्तौ` (धातुपाठः-975)। लभेति षित्त्वात् `षिद्भिदादिभ्योऽङ`
3|3|104 इत्यङि प्राप्ते शेषेभ्यस्तु गुरुत्वात् `गुरोश्च हलः`
3|3|103 इत्यकारे क्तिन विधीयते। `इष्टिः` इति। वच्यादिसूत्रेण
6|1|15 सम्प्रसारणम्।`कीर्णिः,गीर्णिः, शीर्णिः` इति। `ऋत इद्धातोः`
7|1|100 इतीत्त्वम्, रषादिसूत्रेण
8|4|1 णत्वम्। यथा `रदाभ्याम्`
8|2|42 इत्यादिना कीर्ण इति निष्टायास्तकारस्य नत्वं भवति, तथेहापि क्तिनः। यथा `ल्वादिभ्यः`
8|2|44 इति लून इत्यत्र निष्ठातकारस्य नत्वं तथा `लूनिः, यूनिः`इत्यात्रापि क्तिनः॥