Page loading... Please wait.
8|2|22 - परेश्च घाङ्कयोः
॥ तस्मै पाणिनये नमः ॥
8|2|22
SK 3262
परेश्च घाङ्कयोः   🔊
सूत्रच्छेदः
परेः (षष्ठ्येकवचनम्) , च (अव्ययम्) , घाङ्कयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परि इत्येतस्य यो रेफः तस्य घशब्दे अङ्कशब्दे च परतो विभाषा लकार आदेशो भवति। परिघः परिघः। पर्यङ्कः, पल्यङ्कः। घ इति स्वरूपग्रहणम् अत्रेष्यते, न तरप्तमपौ इति। योगे चेति वक्तव्यम्। परियोगः, पलियोगः।
Text Unavailable. Please use feedback link below to provide the text if you have.
परि घ इति । ठ्परौ घःऽ इत्यप्, हन्तेष्टिलोपः, घत्वं च । पर्यङ्क इति । ठकि लक्षणेऽ पचाद्यच्, ठ्हलश्चऽ इति घञ्, चाद् घश्च । घ इति स्वरूपग्रहणमत्रेष्यत इति । इष्टिरेवेयम् । परियोगः, पर्यनुयोगः ॥
सिद्धान्तकौमुदी
परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः (कौमुदी-2003) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
परेश्च घाऽङ्कयोः ।। योगे च(1)।। योगे चेति वक्तव्यम्। इहापि यथा स्यात्परियोगः पलियोगः। ।। सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि।। सङीति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि।। किं प्रयोजनम्?।। प्रयोजनं-गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्ञ्चा धुर्यः झ्र्ःथ्द्य;ति(1)ट।। झ्र्प्रयोजनं गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठाशक्स्थाता क्रुञ्ञ्चा धुर्य इतिट।। गिरौ गिर इत्यत्र अचि विभाषेति लत्वं प्राप्नोति-सङीति वचनान्न भवति।। नैतदस्ति प्रयोजनम्। उक्तमेतत्-धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्सिद्धमिति।। पयो धावतीत्यत्र धि चेति सलोपः प्राप्नोति-सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनं वक्ष्यत्येतत् ‐ धिसकारे सिचो लोप इति।। द्विष्टरामित्यत्र ह्रस्वादङ्गादिति सलोपः प्राप्नोति सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनम् ‐ ‐ -अत्रापि सिच इत्येवाऽनुवर्तिष्यते(1)।। दृषत्स्थानमित्यत्र झलो झलीति सलोपः प्राप्नोति सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनम् ‐ अत्रापि सिच इत्येवानुवर्तिष्यते।। काष्ठशक्स्थातेत्यत्र स्कोः संयोगाद्योरन्ते चेति ककारलोपः प्राप्नोति सङीति वचनान्न भवति।। एतदपि नास्ति प्रयोजनं ‐ काष्ठशगेव नास्ति कुतो यः काष्ठशकितिष्ठेत?।। क्रुञ्ञ्चेत्यत्र चोः कुर्झलीति कुत्वं प्राप्नोतिः सङीति वचनान्न भवति।. एतदपि नास्ति प्रयोजनं, निपातनादेतस्तिद्धम्।। किं निपातनम्?।। ऋत्विग्दधृक्स्नग्दिगुष्णिगञ्ञ्चुयुजिक्रुञ्ञ्चामिति।। धुर्य इत्यत्र हलि चेति दीर्घत्वं प्राप्नोति सङीति वचनान्न भवति।. एतदपि नास्ति प्रयोजनं न भकुर्छुरामिति प्रतिषेधो भविष्यति।।