Page loading... Please wait.
7|1|75 - अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः
॥ तस्मै पाणिनये नमः ॥
7|1|75
SK 322
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः   🔊
सूत्रच्छेदः
अस्थि-दधि-सक्थि-अक्ष्णाम् (षष्ठीबहुवचनम्) , अनङ् (प्रथमैकवचनम्) , उदात्तः (प्रथमैकवचनम्)
अनुवृत्तिः
अचि  7|1|73 (सप्तम्येकवचनम्) , तृतीयादिषु  7|1|74 (सप्तमीबहुवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अस्थि-दधि-सक्थि-अक्ष्णाम् तृतीयादिषु अचि अनङ् उदात्तः
सूत्रार्थः
अस्थि, दधि, सक्थि, अक्षि - एतेषां शब्दानाम् तृतीयादिषु अजादौ विभक्तौ परे उदात्तः अनङ्-आदेशः भवति ।
अस्थि , दधि, सक्थि, अक्षि - एते चत्वारः इकारान्त-नपुँसकलिङ्गशब्दाः । एतेषाम् अङ्गस्य तृतीयादिषु विभक्तिषु अग्रे अजादिविभक्तौ परे अनङ्-आदेशः भवति । अयम् आदेशः उदात्तः भवति, तथा च ङिच्च 1|1|53 इत्यनेन अयम् अन्त्यादेशः भवति । यथा -

1. अस्थि + टा
→ अस्थ् + अनङ् + आ [अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 7|1|75 इति अनङ्-आदेशः।
→ अस्थ् + अन् + आ [इत्संज्ञालोपः]
→ अस्थ् न् + आ [अल्लोपोऽनः 6|4|134 इति अकारलोपः]
→ अस्थ्ना

2. दधि + ङे
→ दध् + अनङ् + ए [अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 7|1|75 इति अनङ्-आदेशः।
→ दध् + अन् + ए [इत्संज्ञालोपः]
→ दध् न् + ए [अल्लोपोऽनः 6|4|134 इति अकारलोपः]
→ दध्ने

3. सक्थि + ङसिँ / ङस्
→ सक्थ् + अनङ् + अस् [अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 7|1|75 इति अनङ्-आदेशः।
→ सक्थ् + अन् + अस् [इत्संज्ञालोपः]
→ सक्थ् न् + अस् [अल्लोपोऽनः 6|4|134 इति अकारलोपः]
→ सक्थ्नः

4. अक्षि + आम्
→ अक्ष् + अनङ् + आम् [अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 7|1|75 इति अनङ्-आदेशः।
→ अक्ष् + अन् + आम् [इत्संज्ञालोपः]
→ अक्ष् न् + आम् [अल्लोपोऽनः 6|4|134 इति अकारलोपः]
→ अक्ष्णाम् [रषाभ्यां नो णः समानपदे 8|4|1 इति णत्वम्]
One-line meaning in English
The words अस्थि, दधि, सक्थि and अक्षि get an उदात्तः अनङ्-आदेश when followed by an अजादि विभक्ति of तृतीया onwards.
काशिकावृत्तिः
अस्थि दधि सक्थि अक्षि इत्येतेषा नपुंसकानां तृतीयादिषु अजादिषु विभक्तिषु परतो ऽनङित्ययम् आदेशो भवति, स च उदात्तो भवति। अस्थ्ना। अस्थ्ने। दध्ना। दध्ने। सक्थ्ना। सक्थ्ने। अक्ष्णा। अक्ष्णे। अस्थ्यादय आद्युदात्ताः, तेषाम् अनङादेशः स्थानिवद्भावादनुदात्तः स्यातिति उदात्तवचनम्। तत्र भसंज्ञायाम् अल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति। एतैरस्थ्यादिभिर् नपुंसकैरनपुंसकस्य अपि अङ्गस्य तदन्तग्रहणम् इष्यते। प्रियास्थ्ना ब्राह्मणेन। प्रियदध्ना। तृतीयादिषु इति किम्? अस्थिनी। दधिनी। अचि इत्येव, अस्थिभ्याम्। दधिभ्याम्।
`इकोऽचि विभक्तौ` 7|1|73 इति नुमि प्राप्तेऽस्ध्यादीनामनङ विधीयते। ङकारोऽन्त्यादेशार्थः। अकार उच्चारणार्थः। अस्थ्यादयश्चैते `नब्विषयस्यानिसन्तस्य` (फि।सू।2।26) इत्याद्युदात्ताः, शेषमनुदात्तम्। तत्रानङ्? विधीयमानः स्थानिवद्भावादनुदात्तत्वं प्राप्नोतीत्युदात्तत्वामुच्यते--नब्विषयस्येति। नपुंसकविषयस्येत्यर्थः। `अस्थ्ना` इति। अनङि कृते `अल्लोपोऽनः` 6|4|134 इत्यकारलोपः। `एतैः` इत्यादि। कथं पुनरोतल्लभ्यते, यावता प्रकृतस्यास्थ्यादिभिर्विशेषणाद्विशेषणेन तदन्तविधिरिति विज्ञानात्? `अङ्गाधिकारे तस्य सदुत्तरपदस्य` (पु।प।वृ।85) इति वचनाद्वा यद्यपि तदन्तविधिर्भवति, तथापि सत्यपि तस्मिन्नस्थ्याद्यन्तत्यानपुंसकस्य ग्रहणं नोपपद्यते, नपुसकस्येत्यनुवृत्तेः? नैष दोषः; न ह्रत्र नपुंसकेनाङ्गं विशिष्यते, अपि तु श्रुतत्वादस्थ्यादय एव। एवञ्च तदन्तस्याङ्गस्य लिङ्गान्तरेपि वत्र्तमानस्यास्थ्यादीनां नपुंसकत्वं विद्यत एव। तेन नपुंसके ये वत्र्तन्तेऽस्थ्यादयस्तदन्तस्यानपुंसकेऽपि वत्र्तमानस्य ग्रहणमुपपन्नं भवति। यदि तर्हि तदन्तस्य ग्रहणम्, केवलानां न सिध्यति? अयमप्यदोषः; व्यदेशिवद्भावात्? केवलानां न भविष्यति। `व्यपदेशिवद्भावोऽयतिपदिकेन` (शाक।प।65) इत्येषा परिभाषा प्रत्ययविधिविषयेतीह नोपतिष्ठत एव। नपुंसकेनास्थ्यादिविशेषणं किम्? यदा ते पदुच्छाशब्दाः सन्तोऽपि लिङ्गान्तरे वत्र्तन्ते तदा मा भूत्--दधिर्नाम कश्चित्? तेन दधिनेति॥
अनङे द्वितीयोऽकार उच्चारणार्थः, ङ्कारोऽन्तादेशार्थः, अस्थ्यादयः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः, शेषमनुदातम् । तत्रान्तर्यतोऽनुदात आदेशे प्राप्ते उदातवचनमस्थ्नेत्यादौ अल्लोपोऽनः इत्यकारलोपे अनुदातस्य च यत्रोदातलोपः इति विभक्तेरुदातत्वार्थम् । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे त्वकारस्य उदातस्य श्रवणं भवति - अस्थनीति, यथा च्छन्दस्यपि दृश्यते इत्यत्र - इन्द्रो दधीचो अस्थमिरिति । एतैरस्थ्यादिभिरित्यादि । अत्र अङ्गाधिकारे तस्य च तदुतरपदस्य च इति तदन्तस्य तावद् ग्रहणं भवति । तथा नुपंसकस्य इत्यनुवृतं श्रुतत्वादस्थ्यादीनां विशेषणम्, न प्रकृतस्याङ्गस्य, तेनानपुंसकस्यापि तस्य ग्रहणम् । किमर्थं पुनरस्थ्यादयो नपुंसकत्वेन विशेष्यन्ते यदृच्छाशब्दानां पुंल्लिङ्गानां मा भूत् - दधिर्नाम कश्चित्, तेन दधिनेति । नैतदस्ति प्रयोजनम् - अभिव्यक्तपदार्था ये स्वतन्त्रा लोपविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ एवं तर्हि, नपुंसकस्य इत्यनुवृतस्यान्वयप्रदर्शनमात्रं कृतम् - एतैरस्थ्यादिभिर्नपुंसकैरिति ॥
सिद्धान्तकौमुदी
एषामनङ् स्याट्टादावचि स चोदात्तः । अल्लोपोऽनः (कौमुदी-234) ॥ दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः । दध्नि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । तदन्तस्याऽप्यनङ् । अतिदध्ना ॥ सुधि । सुधिनी । सुधिनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या । प्रधिना ॥ मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः ॥ सानुशब्दस्य स्नुर्वा । स्नूनि । सानूनि । प्रियक्रोष्टु । प्रियोक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिरेति नुट् । प्रियक्रोष्टूनाम् ॥ सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा । सुलुना । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः ॥
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः - अस्थि, दधि, सक्थि, आक्षि एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि । टादावचि विशेषमाह — अस्थिदधि । तृतीयादिष्विति, अचीति चानुवर्तते । तदाह — एषामित्यादिना । नुमोऽपवादः । अनङि हकार इत्, अकार उच्चारणार्थः । ङित्त्वादन्तादेशः । दधनि दध्नि इति । "विभाषा ङिश्योः" इत्याल्लोपविकल्प इति भावः । तदन्तस्यापीति । आङ्गत्वादिति भावः । अतिदध्नेति । दधि अतिक्रान्तं कुलमतिदधि । अत्रापि नपुंसकस्येति संबध्यते । ततश्च धाञः "आदृगमहन" इति किप्रत्यये दधिशब्दस्य पुंस्त्वे दधिनेत्येव । नपुंसकस्येति श्रूयमाणमस्थ्यादिभिरेवान्वेति । तेनातिदध्ना ब्राआहृणेनेत्यादि सिद्धम् । इति इदन्ताः ।अथ ईदन्ताः । सु ध्यायतीति, सु=शोभना धीर्यस्येति॑वा विग्रहे सुधीशब्दस्य "ह्यस्वो नपुंसके" इति ह्यस्वत्वे वारिवद्रूपाणीत्याह — सुधि सुधिनी इत्यादि । परत्वान्नुमा इयङ् बाध्यत इति भावः । सुधिया सुधिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्त्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात्पुंवत्त्वविकल्पः । एवं प्रधीशब्दः । तत्रनभूसुधियो॑रिति निषेधाऽभावादेरनेकाच इति यण् । इति ईदन्ताः । अथ उदन्ताः । मध्विति । मधु मद्ये पुष्परसे॑मधुर्वसन्ते चैत्रे च॑ इति कोशान्मधुशब्दस्य पुंनपुंसकयोः मद्यत्ववसन्तत्वादिरूपप्रवृत्तिनिमित्तभेदान्न पुंवत्त्वविकल्पः । भृद्वीकाविकारवाचिनो मधुशब्दस्य तु नित्यनपुंसकत्वान्न पुंवत्त्वमिति विवेकः । सानुशब्दस्य स्नुर्वेति । "पद्दन्" इति सूत्रेमांसपृतनासानूनां मांस्पृत्स्नबो वाच्याः॑ इति वार्तिका॑दिति शेषः । स्नूनि सानूनीति — शसि रूपं, शसादावेव स्नुविधेः । प्रभृतिग्रहणस्य प्रकारार्थत्वे सुठपि स्नुर्भवति । अस्य चस्नुः प्रस्थः सानुरस्त्रिया॑मिति पुंनपुंसकत्वाद्भाषितपुंस्कत्वादस्त्येव पुंवत्त्वविकल्पः । प्रियक्रोष्टु प्रियक्रोष्टुनी इति । प्रियक्रोष्टा यस्येति विग्रहः । असर्वनामस्थानत्वान्न तृज्वत्वम् । अथ जश्शसोः शिभावे सति सर्वनामस्थानत्वान्नुमं बाधित्वा परत्बात्तृज्वत्त्वे प्राप्ते आह — तृज्वद्भावादिति ।वृद्ध्यौत्त्वे॑ति वार्तिकादिति भावः । प्रियक्रोष्टूनीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे रूपम् । नच नित्यत्वादेव नुम् सिद्धेः किं पूर्वविप्रतिषेधेनेति वाच्यं, नित्यत्वान्नुमि कृतेऽपि "यदागमाः" इति न्यायेन "तृज्वत्क्रोष्टुः" इत्यस्य नुम्विशिष्टस्य ग्रहणापत्तौ पुनस्तृज्वत्त्वापत्तेः । पूर्वविप्रतिषेधमाश्रित्य तृज्वत्त्वं बाधित्वा नुमि कृते तु न पुनस्तृज्वत्त्वम्,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायादित्यलम् । पुंवत्पक्षे इति । तत्रापि तृज्वत्त्वपक्ष इत्यर्थः । प्रियक्रोष्ट्रेति । पुंवत्त्वे तृज्वत्त्वे च सति रूपम् । अनपुंसकत्वान्न नुम् । प्रयिक्रोष्टुनेति । पुंवत्त्वे, तदभावे च तृज्वत्त्वाऽभावे रूपम् । पुंवत्वाऽभावपक्षेऽपि नुमं बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्ट्रे इति । पुंवत्त्वे तृज्वत्त्वे यण् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्टवे इति । पुंवत्त्वे तृज्वत्त्वाऽभावे रूपम् । अन्यत्रेति । पुंवत्त्वाऽभावपक्ष इत्यर्थः । प्रियक्रोष्टुनेति । पुंवत्त्वतृज्वत्त्वयोरभावे रूपम् । तथा ङयि त्रीणि रूपाणि । एवं ङसिङसोः । प्रियक्रोष्टुः प्रियक्रोष्टोः प्रियक्रोष्टुनः । प्रियक्रोष्ट्रोः-प्रियक्रोष्ट्वोः-प्रियक्रोष्टुनि । भ्यामादौ हलि मधुवत् । इत्युदन्ताः । अथ ऊदन्ताः । सुल्विति । सुष्ठु लुनातीति क्विप् । "ह्यस्वो नपुंसके" इति ह्यस्वः । सुलुनी इति ।ओः सुपी॑ति यणं बाधित्वा परत्वान्नुम् । सुल्वेति । शोभनलवनकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्त्वविकल्पः । पुंवत्त्वे ह्यस्वाऽभावेनाऽघित्वान्नाभावो न । नुमभावश्च ।ओः सुपी॑ति यण् । पुंवत्त्वाऽभावपक्षे तु यणं बाधित्वा नुम् । ङेप्रभृतिषु तु पुंवत्त्वाऽभावेवृद्ध्यौत्वे॑ति पूर्वविप्रतिषेधेन नुमि सुलुने इति , पुंवत्त्वे तु "सुल्वे" इत्यादि रूपद्वयम् । इत्यूदन्ताः । अथ ऋदन्ताः । धातृ इति । दधातीति धातृ । "न लुमता" इति निषेधादनङ् न । धातृणी इति ।इकोऽची॑ति नुमिऋवर्णान्नस्ये॑ति णत्वम् । धातृणीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे णत्वम् ।न लुमते॑ति निषेधस्याऽनित्यत्वात्संबुद्धिनिमित्तको ह्यस्वस्य पक्षे गुण इत्याह-हे धातः हे धातृ इति । धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्याट्टादावचि पुंवत्त्वविकल्प इत्याह — धात्रा-धातृणेति । धात्रे-धातृणे । धातुः-धातृणः । धात्रोः-धातृणोः ।नुमचिते॑ति नुट् । धातृणाम् । धातरि-दातृणि । इत्यृन्ताः ।
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः - अस्थिदधि ।इकोऽची॑ति नुमि प्राप्ते विधिरयम्, नकारादकार उच्चारणार्थः । ङकारस्त्वन्तादेशार्थः ।नब्विषयस्याऽनिसन्तस्ये॑ति फिट्सूत्रेणाऽस्थ्यादय एते आद्युदात्ताः । तत्राऽन्तस्यानुदत्तेकारस्य विधीयमानोऽनङ्स्थानेऽनन्तरतमः॑इत्यनुदात्तः स्यादित्युदात्त उच्यते । तच्चोदात्तत्व॒मस्थनि॒॑दधनि॑इत्यादावल्लोपाभावपक्षे स्फुटम्,दध्ना॒॑दध्ने॑इत्यादावनङोऽकारलोपेअनुदात्तस्य च यत्रोदात्त लोपः॑इत्युदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वं प्रयोजनमिति बोध्यम् । तृतीयाष्वित्यनुवत्र्तते, अचीति च, तदाह — टादावचीति । टादौ किम् । दधिनी, दधीनि । अचि किं दधिभ्याम् । तदन्तस्यापीति । आङ्गत्वादिति भावः । अतिदध्नेति । दधि अतिक्रान्तेनेत्यर्थः । स्त्रकियामप्यतिदध्नेत्येव । संनिपातपरिभाषया बहिरङ्गपरिभाषया बहिरङ्गपरिभाषया च ङीपोऽप्रवृत्तेः । प्राचा तुप्रियदध्ना ब्राआहृणेने॑त्युक्तम् । स्त्रियांप्रियदध्न्या॒॑प्रियदध्न्यै॑इत्यद्यपि कैश्चिदुक्तम् । तदसत् । उरःप्रभृतिषु दधिशब्दस्य पाठाद्बहुव्रीहौ नित्यं कप्यनडः प्रसक्त्यभावात् । उक्तपरिभाषाभ्यां ङीपः प्रवृत्तेर्दूरापास्तत्वाच्चेति दिक् । सुधिनी इति । परत्वान्नुमा इयङ्बाध्यते । सुधियेति । शोभनज्ञानवत्त्वं प्रवृत्तिनिमित्तं पुंनपुंसकयोरेकमेवेति भाषितपुंस्कत्वात्तृतीयादिष्वि॑ति पुंवत्पक्षे#ऐ नुमभावात्न भूसुधियो॑रिति यण्निषेधाच्चेयङ् । प्रध्येति । अत्रापि प्रकृष्टज्ञानवत्त्वं पुंनपुंसकयोरेकमेवेति भाषितपुंस्कत्वात्तृतीयादिष्विति पुंवत्पक्षे यण् । नपुंसकपक्षे तु नुमिति बोध्यम् ।बह्वयः श्रेयोस्यो यस्य तद्बहुश्रेयसी कुल मित्यत्र नपुंसकह्यस्ततिवमं न,ईयसो बहुव्रीहेर्ने॑ति ह्यस्वामात्रस्य प्रतिषेधादित्येके । अन्ये तूपसर्जनह्यस्व एव निषिध्यते, नपुंसकह्यस्वत्वं तु स्यादेव ।बहुश्रेयसि॑ बहुश्रेयसिनी॑इतयाहुः । मध्विति ।मधु मद्ये पुष्परसे॒॑मधुर्वसन्ते चैत्रे च॑ । इह पुंनपुंसकयोरेकं प्रवृत्तिनिमित्तं नास्ति, किंतु मद्यत्ववसन्तत्वादिरूपं भिन्नं भिन्नमेव । तथा च भाषितपुंस्कत्वाऽभावान्मधुने॒॑मधुनः॒॑मधुनो॑रित्येव भवति, न तुमधवे॒॑मधो॑रित्यादीति दिक् । स्नुर्वेति ।मांसपृतनासानूना॑मिति वार्तिककीरेक्त्येति भावः ।स्त्रुः प्रस्थः सानुरस्त्रिया॑मित्युभयलिङ्गः सानुशब्दः, तस्य नपुंसकत्वे रूपमाह — -स्नूनि सानूनीति । पुंसि तु स्नून् । सानून् — -इत्यादि । सुल्वेति.शोभनलवनकर्तृत्वं पुंनपु#ंसकयोरेकमेवेति भाषितपुंस्कत्वात्पुंवत्पक्षे नुमभावात्ओः सुपी॑ति यण् । सुलुनेति । यणं बाधित्वा परत्वान्नुम् । धात्रेति । धारणपोषणकर्तृत्वं पुंनपुंसकयोरेकमेवेति पुंवत्पक्षे यण् ।
लघुसिद्धान्तकौमुदी
एषामनङ् स्याट्टादावचि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.