`व्यावक्रोशी` इति। `क्रश आह्वाने` (धा। पा। 856) इत्यस्माण्णच, लघूपधगुणः, णजन्तादञ्। स च कृदग्रहणपरिभाषया (व्या। प। 126) सगतिकाद्बवति। तेन सगतिकमेवेह प्रतिपदिकसंज्ञां प्रतिपद्यते, न कर्मव्यतिहार इति प्रतिषेधादेव वृद्धिप्रतिषेधयोरादिवृद्धिरेव भवति। `टिङ्ढाणञ्`
4|1|15 इति ङीप्। `व्यावहासी` इति। `अत उपदायाः`
7|2|116 इति वृद्धिः। `ततः` इति। णजन्तादिति यावत्। `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवत्र्तन्ते (जै।प।वृ। 95) इति कृत्वा। `एवं तर्हि` इत्यादिना स्त्रीग्रहणं ज्ञापकं दर्शयति। `तेन` इत्यादिना ज्ञापकस्य प्रयोजनम्। `अतिवर्तन्तेऽपि` इति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवत्र्तन्तेऽणीति। यदि स्वार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तिव्यभिचारो ज्ञाप्यते, ततो गुडादिभ्यः पुंलिङ्गाद्यनुगतेभ्यश्च स्वार्थे कल्पबादयो भवति, तेषां पुंल्लिङ्गवचनं च तदैव भवेत्? ततश्च गुडकल्पा द्रक्षेत्येवमादि नोपपद्यते। तस्मस्तु ज्ञापिते लिङ्गान्तरञ्च भवतीति। तेन सर्वमेतदुपपन्नं भवति। आदिशब्देनापि तैलकल्पा, चातुर्वण्र्यम्, त्रैलोक्यमित्येवमादीनां ग्रहणम्॥