Page loading... Please wait.
8|3|86 - अभिनिसः स्तनः शब्दसंज्ञायाम्
॥ तस्मै पाणिनये नमः ॥
8|3|86
SK 3193
अभिनिसः स्तनः शब्दसंज्ञायाम्   🔊
सूत्रच्छेदः
अभिनिसः (पञ्चम्येकवचनम्) , स्तनः (षष्ठ्येकवचनम्) , शब्दसंज्ञायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभिनिसित्येतस्मातुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवति अन्यतरस्यां शब्दसंज्ञायां गम्यमानायाम्। अभिनिष्ष्टानो वर्णः, अभिनिस्तानो वर्णः। अभिनिष्ष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः। शब्दसंज्ञायाम् इति किम्? अभिनिस्तनति मृदङ्गः। समासे इति अतःप्रभृति निवृत्तम्।
अनादेशसकारत्वादप्राप्त एव षत्वे वचनम्। `ष्टन शब्दे` (धातुपाठः-461) इति भौवादिकस्य ग्रहणम्। `स्तन गदी देवशब्दे` [`गदी परिवेदने` (धातुपाठः-1860)] (धातुपाठः-1859) इत्यतस्य चौरादिकस्य तु न। तस्य ग्रहणे सत्यदन्तत्वात्? `अत उपधायाः` 7|2|116 इति न वृद्धिर्लभ्यते। अभि, निस्--इत्येताभ्यामेवेदं षत्वं विधीयते। न हि व्यस्तभ्यामुत्तरस्य तस्य स्तुनतेर्मूर्धन्षे कृते शब्दसंज्ञा गम्यते। `अभिनिस इत्येतस्मात्` इत्यादि। अभिनिसिति योऽयमुपसर्गसमवायस्तस्मादित्यर्थः। `अभिनिष्टानः` इति। अभिनिस्तव्यतेऽनेन, `अकर्तरि च कारके संज्ञायाम्` 3|3|19 इति घञ्। प्रादिसमासः। ननु च समानाधिकारादेवाभिनिःस्तनतीत्यत्र न भविष्यति। किमेतन्निवृत्त्यर्थेन शब्दसंज्ञाग्रहणेन? इत्यत आह--`समास इत्यतः प्रभुति निवृत्तम्` इति॥
अभिनिस् इत्येतस्मादिति । एतेन समुदायो निमितं न प्रत्येकमिति दर्शयति । अभिनिष्टानो विसर्जनीय इति । तथा चापस्तम्बः---ठ्द्व्यक्षरं चतुरक्षरं वा नाम पूर्वमाख्यातोतरं दीर्घाभिनिष्ठान्तं घोषवदाद्यन्तरन्तरस्थम्ऽ इति । द्व्यक्षरं चतुरक्षरं वा नाम कर्तव्यम्, कीदृशम् ? नामपूर्वम्, नाम प्रातिपदिकमक्रियावाचि तत्पूर्वपदम्, आख्यातोतरं क्रियावाच्युतरपदं दीर्घात्परो योऽभिनिष्टानो विसर्जनीयस्तदन्तं दीर्घान्तं विसर्जनीयान्तं चेत्यन्ये । गोषवान्वर्ण आदिर्यस्य तद्धोषवदादि, अन्तरन्तस्थं यरलवानामन्यतमं मध्ये यस्य ततथोक्तमेवंभूतं नाम कर्तव्यम् । द्रविणोदा वरिवोदा इत्याद्यौदाहरणम् ॥
सिद्धान्तकौमुदी
अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.