Page loading... Please wait.
8|3|110 - न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्
॥ तस्मै पाणिनये नमः ॥
8|3|110
SK 3168
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्   🔊
सूत्रच्छेदः
(अव्ययम्) , रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर विस्रंसिकायाः काण्डाभ्यां जुहोति। विस्रब्धः कथयति। स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात्। स्पृशि दिविस्पृशम्। स्पृहि निस्पृहं कथयति। सवनादीनाम् सवने सवने। सूते सूते। सामे सामे। सवनमुखे सवनमुखे। किं स्यति किंसंकिंसम्। अनुसवनमनुसवनम्। गोसनिं गोसनिम्। अश्वसनिमश्वसनिम्। पूर्वपदातिति प्राप्ते प्रतिषेधः। अश्वसनिग्रहणम् अनिणो ऽपि षत्वम् अस्ति इति ज्ञापनार्थम्। तेन जलाषाहम्, अश्वषाहम् इत्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः सवने सवने। अनुसवने ऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमे सोमे। सूते सूते। संवत्सरे संवत्सरे। किंसंकिंसम्। बिसंबिसम्। मुसलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः।
रः परो यस्मादिति रपरः। `सृप्लृ गतौ` (धा।रा।983), `सृज विसर्गे` (धातुपाठः-1414), `स्पृश संस्पर्शे`, [संस्पर्शने--धातुपाठः-] `स्पृह ईप्सायाम्` (धातुपाठः-1871) चुरादावदन्तः पठते। सवनमादिर्येषामिति बहुव्रीहिः। `विरुआंसिकायाः` इति। `रुआन्सु अवरुआंसने` (धातुपाठः-754) अस्माद्विपूर्वात्? `रोयख्यायां ण्वुल्? बहुलम्` 3|3|108 इति ण्वुल्। `विरुआब्धः` इति। `रुआन्भु विश्रम्भे` [`विआआसे`--धातुपाठः-] (धातुपाठः-757), `अनिदिताम्` 6|4|24 इति न लोपः, `झषस्तथोर्थोऽधः` 8|2|40 इति धकारः, `झलां जश्? झशि` 8|4|52 इति भकारस्य बकारः। `विसृपः` इति। `सृपितृदोः कसुन्` 3|4|17 इति कसुन्। `विसर्जनात्` इति। ल्युट्। `दिविस्पृशम्` इति। `स्पृशोऽनुदके क्विन्` 3|2|58 , `तल्पुरुषे कृति बहुलम्` 6|3|13 इति सप्तम्या अलुक्। `निस्यृहः` [निस्पृहम्--काशिका] इति। स्पृहणं स्पुहः, `एरच्` 3|3|56 इत्यच्, णिलोपः, निर्गतः स्पृहो निःस्पृहः। `सवनेसवने` इति। सुनोतेर्ल्युट्, सप्सम्येकवचनम्, वीप्सायां द्विर्वचनम्। `सूतेसूते` इति। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1131) सुवतेर्वा, निष्ठा। `सोमेसोमे` इति। सुञित्येतस्मात्? `अर्त्तिस्तु` (द।उ।7।26) इत्यादिना सोमशब्दः व्युत्पादितः। `सवनमुखेसवनमुखे` इति। सवनस्य मुखमिति षष्ठीसमासः। `किंसं किंसम्` इति। `षो अन्तकर्मणि` (दा।पा।1147), `आतोऽनुपसर्गे कः 3|2|3 । तत्र किमो कमारस्यानुस्वारे कृते `अयोगवहानामट्सूपदेशादङ्व्यवायेऽपि इति पूर्वपदस्थान्निमित्तात्? प्राप्तः। `अनुसवनमनुसवनम्` [`अनुसवनमिति`--इति प्रांउ।पाठः] इति। ल्युडन्तमेतत्। अश्यसनेव्र्युत्पत्तिर्गोसनिवत्। अगाआसनिग्रहणं किमर्थम्? न ह्रत्र सकारस्य षत्वं प्राप्नोति, तथा हि पुर्वस्थादिण उत्तरस्य षत्वं प्राप्नोति, न चासाविण उत्तरः सकारः? इत्यत आह--`अआसनिग्रहणम्` इत्यादि। किमेतज्ज्ञापनेन प्रयोजनम्? इत्यत आह--`जलाषाहम्`इत्यादि। क्वचित्? `विसंबिसम्, मुसलमुसलम्` इति पाठः। स्थाने द्विर्वचनपक्षे `आदेशप्रहत्यययोः` 8|3|59 इत्यादेशसकारत्वात् प्राप्तस्य षत्वस्य प्रतिषेधो वक्तव्यः॥
परिसेसिच्यत इति । अत्राभ्याससकारस्य ठुपसर्गात्सुनोतिऽ इत्यादिना प्राप्तिः, धातुसकारस्य त्वादेशसकारत्वात् ठ्स्थादिष्वभ्यासेन चऽ इत्येतस्माच्च । ननु चोपसर्गात्प्रतिषेधविषये षत्वमारभ्यते, तद्यथैव पदादिप्रतिषेधं बाधते, एवं ठ्सिचो यङ्ऽ इत्येतिमपि बाधेत ? अत आह---उपसर्गाद्या प्राप्तिरिति । येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्ते च पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वमारभ्यते, ठ्सिचो यङ्ऽ इत्येतिस्मिंस्तु प्राप्ते चाप्राप्ते च । अथ वा---ठ्पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते न परान्ऽ इति । अनेनैतदपि निरस्तम्---ठ्स्थादिष्वभ्यासेन चऽ इत्यनेन यथाभिषिषिक्षतीत्यत्र स्तौतिण्योरेवेति नियमं बाधित्वा षत्वं भवति, तथैनमपि प्रतिषेधं बाधित्वा धातुसकारस्य प्रसङ्ग इति ॥
सिद्धान्तकौमुदी
रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात्‌ । पूर्वपदात्‌ (कौमुदी-3643) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- (कौमुदी-2410) इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम्‌ । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम्‌ । बाहुलकात्‌ मुसे रक्‌ । मुस्रम्‌ उदश्रु ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
शासिवसीति प्राप्तमपि नेति। एवं च `अविन्द उरिउआयाः` इति मन्त्रे षत्वाऽभावः सिद्धः। माधवस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्टे। `उरुआओ वृषे च किरणे उरुआआऽर्जुन्युपचित्रयोः` इति मेदिनी। `माहेयी सौरभेयी गौरुरुआआ माता च श्रङ्गिणी`त्यमरः। `वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे` इति मेदिनी। `वाश्रो रासभपक्षिणोः` इति केचित्। माधवेन तु `वाश्रेव विद्युन्मिमाति` इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यातम्। `शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोरिउआषु इति मेदिनी।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् किमर्थं सवनादिष्वश्वसनिशब्दः पठ्यते? ।। षत्वबाधनार्थम्।। पूर्वपदादिति षत्वं प्राप्नोति तद्बाधनार्थम्।। नैतदस्ति प्रयोजनम्, इणन्तादिति तत्रानुवर्तते, अनिणन्ताश्चायं, नैव प्राप्नोति नाऽर्थः प्रतिषेधेन।। एवं तर्हि सिद्धे सति यत्सवनादिष्यश्वसनिशब्दं पठति तज्ज्ञापयत्याचार्योऽनिणन्तादपि षत्वं भवतीति।। किमेतस्य ज्ञापने प्रयोजनम्?।। जलाषाहं माष इत्येतत्सिद्धं भवति।। अथ वैकदेशविकृतार्थोऽयमारम्भः। अश्वषा इति।।