Page loading... Please wait.
7|2|9 - तितुत्रतथसिसुसरकसेषु च
॥ तस्मै पाणिनये नम: ॥
7|2|9
SK 3163
तितुत्रतथसिसुसरकसेषु च  
सूत्रच्छेद:
तितुत्रतथसिसुसरकसेषु - सप्तमीबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
अङ्गस्य  [6|4|1]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति। ति इति क्तिङ्क्तिचोः सामन्यग्रहणम्। क्तिच् तनिता। तनितुम्। तन्तिः। क्तिन् दीपिता। दीपितुम्। दीप्तिः। तु सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्। सचिता। सचितुम्। सक्तुः। त्र दाम्नीशसयुयुज इति ष्ट्रन्। पतिता। पतितुम्। पत्रम् वाहनम्। उणादिष्वपि सर्वधातुभ्यः ष्ट्रन्। तनिता। तनितुम्। तन्त्रम्। त हसिमृग्रिण्वा अमिदमिलूपूधुर्विभ्यस्तन्। हसिता। हसितुम्। हस्तः। लविता। लवितुम्। लोतः। पविता। पवितुम्। पोतः। धूर्विता। धूर्वितुम्। धूर्तः। औणादिकस्य एव तशब्दस्य ग्रहणम् इष्यते, न पुनः क्तस्य, हसितम् इत्येव हि तत्र भवति। थ हनिकुषिनीरमिकाशिभ्यः क्थन्। कोषिता। कोषितुम्। कुष्ठम्। काशिता। काशितुम्। काष्ठम्। सि प्लुषिशुषिकुषिभ्यः क्षिः। कोषिता। कोषितुम्। कुक्षिः। सुक् च इषेः। एषिता। एषितुम्। इक्षुः। अशेः क्षरन्। अशिता। अशितुम्। अक्षरम्। क इण्भीकापाशल्यतिमर्चिभ्यः कन्। शलिता। शलितुम्। शल्कः। स वृ̄तृ̄वदिहनिकमिकषिभ्यः सः। वदिता। वदितुम्। वत्सः। तितुत्रतथेष्वग्रहादीनाम् इति वक्तव्यम्। ग्रहादयो ग्रहप्रकाराः, येषाम् इट् क्तिनि दृश्यते। निगृहीतिः। उपस्निहितिः। निकुचितिः। निपठितिः। कृति इत्येव, रोदिति। स्वपिति।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
क्तिन्क्तिचोः सामान्येन ग्रहणमिति । रोदितीत्यस्य तिप एकानबचन्धकस्याप्यग्रहणम् कृति इत्यनुवृतेः । दीप्तिरिति । क्तिन्नाबादिभ्यश्चः इति क्तिन् । औणादिकस्यैवेति । एतच्च भूयोभिरौणादिकैः साहचर्याल्लभ्यते । ततुत्रेष्विति । अस्मिन् सूत्र इत्यर्थः । अग्रहादीनामिति । ग्रहदिव्यतिरिक्तानां धातूनां सम्बन्धिषु तितुत्रादिषु प्रतिषेध इत्यर्थः । आदिशब्दः प्रकार इत्याह - ग्रहप्रकारा इति । कः पुनः प्रकारः इत्यह - येषामिति । निकृचितिरिति । कुञ्चेः पूर्ववत् क्तिन्, उपधालोपः, कुच शब्दकरणे इत्यतस्माद्वा क्तिन् ॥
सिद्धान्तकौमुदी
एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥
तितुत्रतथसिसुसरकसेषु च - तितुत्रत । ति, तु, त्र, त,थ, सि, सु, सर, क , स एषां दशानां द्वन्द्वः । अत्रसरे॑त्येकम् । ति, — तन्तिः ।स्त्रिया॑मिति क्तिन् । तु- सक्तुः ।तनिगमी॑त्यादिनातु॑प्रत्ययः । त्र, — शस्त्रम्, पत्रम् ।दाम्नी॑ति त्रप्रत्ययः । त, — हस्तः । औणादिकस्तप्रत्ययः । क्तप्रत्यये तु हसितमित्येव । थ — कुष्टम् । औणादिकः क्थप्रत्ययः । सि — कुक्षिः । कुषेरौणादिकः क्सिप्रत्ययः । सु — इक्षुः । इषेरौणादिकः क्सुप्रत्ययः । सर — अक्षरम् । अशेः सरन् । कृ शल्कः । शलेः कः । स — वत्सः ।वदेः सः॑ । मेढ्रमिति । "मिह सेचने" त्रः । ढत्वध्तवष्टुत्वलोपाः । दंष्ट्रेति । दंशधातोस्त्रः । क्ङित्प्रत्ययाऽभावान्नलोपो न । सूत्रे दशेति शपा नर्देशात्दंशसञ्जे॑ति नलोपः । केचित्तु देशेत्यकार उच्चारणार्थः । नलोपनिर्देशात्क्वचिदन्यस्मिन्नपि प्रत्यये अक्ङित्यपि नलोप इति "दशन दन्ताः" इत्याहुः । नद्ध्रीति । नह्रते अनयेति विग्रहः । चर्मरज्जुः । "नह बन्धने" त्रः । "नहो धः"झषस्तथो॑रिति तस्य धः । षित्त्वाङीष् ।
तितुत्रतथसिसुसरकसेषु च - मेढ्रमिति ।हो ढः॑ । धत्वष्टुत्वढलोपाः । दंष्ट्रेति । षित्वेऽपि ङीषिह न भवति,अनित्यः षितां ङी॑षित्युक्तत्वात् । अन्ये त्वजादिपाठाट्टापमाहुः । नद्द्रीति ।नहो धः॑ इति धत्वम् ।झषस्तथोर्धोऽधःट इति जश्त्वम् । सूत्रेदशे॑ति नलोपिनो निर्देशो ज्ञापकः — क्वचिदकित्यपि दंशेर्नलोपो भवती॑ति । तेन दंश दशने इत्यस्माल्ल्युटिदशना दन्ता॑ इति सिद्धम् । न च सन्निधानात् ष्ट्रन्येव नलोपः स्यादिति वाच्यम्,सुनो दन्तदंष्ट्रे॑ति निर्देशात् ।
लघुसिद्धान्तकौमुदी
एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री॥
महाभाष्यम्
तितुत्रतथसिसुसरकसेषु च ।। तितुत्रेष्वग्रहादीनाम् ।। तितुत्रेष्वग्रहादीनामिति वक्तव्यम् । इह मा भूत् । निगृहीतिः । उपस्निहितिः निकुचितिः । निपठितिरिति ।।