`पूर्वेण` इति। `अनुदात्तेतश्च हलादेः`
3|2|149 इत्यादिना सिद्धत्वात्। अथ `अय वय रय णय गतौ`(धातुपाठः-474,475,482,480) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः `अनुदात्तेतश्च`
3|2|149 इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। `क्नयिता, क्ष्मायिता` इति। `क्नूयी शब्द {उन्दने च-धातुपाठः-} उन्दे च` (धातुपाठः-485), `क्ष्मायी विधूनने` (धातुपाठः-486)॥